गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
सप्तदशः पटलः । १७३ स्वामोरुगतां पद्मां श्लिष्यन्तमरुणेक्षणम् । पीतवस्त्रपरीधानं (च?स)सितं चारुभूषणम् ॥ ५२ ॥ शङ्खचक्रगदापद्मं दधानं बाहुभिः सदा । चिन्तयित्वा महेशानि पूजयेज्जगदीश्वरम् ॥ ५३ ॥ मन्त्रम(स्याः?स्य)प्रवक्ष्यामि चतुर्वर्गप्रदायकम् । कामबीजं समुद्धृत्य हृषीकेशमतः परम् ॥ ५४ ॥ ङेन्तं च नतिसंयुक्तमनेन तं प्रपूजयेत् । कुलकौलाः प्रपूज्यैव पूजयेच्चक्रनायिकाम् ॥ ५५ ॥ सर्वोन्मादकरीं मुद्रां दर्शयेद्वीजपूर्वकाम् । ससर्गो❄ भृगुरेत्तस्या बीजमेतदुदाहृतम् ॥ ५६ ॥ संमुखौ तु करौ कृत्वा मध्यमामध्यगेऽन्त्यजे । अनामिके तु सरले तद्वहिस्तर्जनीद्वयम् ॥ ५७ ॥ दण्डाकारौ ततोऽङ्गुष्ठौ मध्यमानखदेशगौ । मुद्रैषोन्मादिनी नाम्ना क्लेदिनी सर्वयोषिताम् ॥ ५८ ॥ [६]सर्वरत्नाकरे चक्रे तथान्तर्दशकोणके । त्रैलोक्यमोहनं विष्णुं ध्यायेद्बन्धूकसंनिभम् ॥ ५९ ॥ ज(वा?पा)कुसुमसंकाशं दाडिमीकुसुमप्रभम् । उद्यदादित्यसंकाशं रत्नसिंहासनेऽम्बुजे ॥ ६० ॥ पद्मासनसमासीनं भुजैश्चतुर्भिरायतैः । पाशाङ्कुशौ च दधतं पुष्पबाणेक्षुकार्मुकम् ॥ ६१ ॥
१ 'रीम्' क पाठ. । २ 'मे मध्यमे' यजेत्' क पाठः ।
- भृगु स ससर्गो विसर्गसहित । इति सर्व्वोन्मादिनीबीजोद्धारः ।
१७४ गन्धर्वतन्त्रे । अरुणायतलोलाक्षियुगलं मदघूर्णितम् । सर्वशृङ्गारवेषाढ्यं किरीटाङ्गदभूषितम् ॥ ६२ ॥ रक्तमालाम्बरधरं रक्तगन्धानुलेपिनम् । स्ववामोरुगतां शक्तिं श्लिष्यन्तीं दक्षपाणिना ॥ ६३ ॥ बामेन पाणिना पद्मं धारयन्तीं शुचिस्मिताम् । रुचिराङ्गदभूषाढ्यां शुद्धक्षोमविराजिताम् ॥ ६४ ॥ मदनोत्तप्तहृदयां क्लिन्नयोनिं परेश्वरीम् । कलाकलितम(ा)धु(रां?यां)तरुणीं यौवनान्विताम् ॥ ६५॥ सकार्मुकभुजेनैव श्लिष्यन्तं सुदृढं तथा । त[र्ज?ज्ज]नितपरानन्दनन्दितं परमेश्वरम् ॥ ६६ ॥ नागगन्धर्वदेवाना मङ्ग[ला?ना]भिः समावृतम् । मदनोल्लालिताङ्गाभिर्भूषिताभिर्विभूषणैः ॥ ६७ ॥ आत्म[१]भेदेन यो ध्यायेद् देवदेवं जगद्गुरुम् । त्रैलोक्यमोहनं विष्णुं त्रैलोक्यमोहनो भवेत् ॥ ६८ ॥ बीजमस्य प्रवक्ष्यामि लक्ष्मीनारायणात्मकम् । ☸ब्रह्मा पुरन्दरः पश्चान्मायास्वरमतः परम् ॥ ६६ ॥ नादबिन्दुकलायुक्तं बीजं त्रैलोक्यपूजितम् । श्रुतिषु मथितसारं देवताकण्ट[हारकं?कारिं] त्रिभुवनव[शंकरी?शकारं]श्रीधनाथर्थका[रकं?रम्] शमनभयविनाशं सर्वशङ्काप्रणाशं भवजलधिविशोषं मानसा[न्ध?न्ध्य]प्रकाशम् § * ब्रह्मा क पुरन्दरो ल मायास्वर ई नादाद्युपेत तेन क्लीं इति । § इदं पद्य प्रक्षिप्तमिति प्रतिभाति ।
सप्तदशः पटलः । १७५ अनेन तं समभ्यर्च्य निग(र्व?र्भ)योगि(नीं?नीः)यजेत् ॥७०॥ नायिकां तत्र संपूज्य मुद्रां संदर्शयेत् तथा। तं[स्माद्?स्यास्त्य]नामिकायुग्ममधः कृत्वाऽङ्कुशाकृति । ७१। तर्जन्यावपि तेनैव क्रमेन विनियोजयेत् । इयं महाङ्कुशा मुद्रा सर्वकार्यार्थसाधिका ॥ ७२ ॥ *कामदेवोऽग्निमारूढो बिन्दुनादकलान्वितः । त्रयोदशस्वरोपेतो मुद्राबीजमितीरितम् ॥ ७३ ॥ [७]अष्टकोणे महेशानि रहस्ययोगिनीर्यजेत् । वशिनीप्रमुखाः सर्वाः पूर्ववद्बीजसंयुताः ॥ ७४ ॥ पादुकां पूजयामीति न्यासादेव विशेषतः । चक्रेश्वरीं यजेच्छक्तिं (भ?भु)क्तिसिद्धिं च वामतः ॥ ७५ ॥ त(दङ्के?द्वत्ते)खेचरीमुद्रां तां च संदर्शयेत् ततः । सव्यं दक्षिणदेशे तु दक्षिणं वामदेशतः ॥ ७६ ॥ बाहुं कृत्वा महेशानि हस्तौ संपरिवर्त्य च । कनिष्ठानामिके देवि यु(क्ता?क्त्वा)तेन क्रमेण तु ॥ ७७॥ तर्जनीभ्यां समाक्रान्ते सर्वोर्ध्वमपि मध्यमे । अङ्गुष्ठौ च महेशानि कारयेत् सरलाविह ॥ ७८ ॥ इयं सा खेचरी मुद्रा नाम्ना सर्वोत्तमा प्रिये । रचितेयं महामुद्रा सर्वतेजोपहारिणी ॥ ७९ ॥ ‡शिवं चन्द्रं तथा कान्तं पान्तं वह्निसमन्वितम् । १ 'अस्या' क पाठ । २ 'ज्ञानात्मिका' क पाठ । * रेफारूढ कामदेव-क । योदश स्वर, तेन क्रो इति । ‡ शिव ह चन्द्र स कान्त ख पान्त फ वह्नि रेफ, एकादश. स्वर ए र्ध्वन् नादकलादियुत, तेन हसख्फ्रें इति खेचरीविद्या ।
१७६ गन्धर्वतन्त्रे । एकादशस्वरोपेतं बीजं तस्याः प्रकीर्तितम् ॥ ८० ॥ (८)मध्यत्रिकोणचक्रे च अग्रदक्षोत्तरे शिवे । ता एव पूजयेद्देवि विन्यासोक्तविधानतः ॥ ८१ ॥ पादुकां पूजयामीति विशेषोऽत्र प्रकाशितः । त्रिपुरा[पां?म्बां]तु चक्रेशीमिच्छासिद्धिं च वामतः ॥ ८२ ॥ परिवर्त्य करौ स्पृष्टावर्धचन्द्राकृती प्रिये । तर्जन्यङ्गुष्ठयुगलं युगपत् कारयेत् ततः ॥ ८३ ॥ अधः कनिष्ठाष्वष्ठधे मध्यमे विनियोजयेत् । तथैव कुटिले योज्ये सर्वाधस्तादनामिके ॥ ८४ ॥ बीजमुद्रेयमाख्याता परा त्रैलोक्यमातृका । सदाशिवस्य बीजाढ्या† दर्शयित्वा विधानतः ॥ ८५ ॥ [६]सर्वानन्दमये चक्रे ब्रह्मविष्ण्वीशरूपिणीम् । पूजयित्वा विधानेन चक्रेशीमपि भैरवीम् ॥ ८६ ॥ ज्ञानेच्छादिक्रियारूपां मोक्षसिद्धिं च वामतः । सिंहं च पुरतो देव्या जगदाधारमर्चितम् ॥ ८७ ॥ पूजयेत् सततं भक्त्या पश्यन्तमम्बिकामुखम् । वाग्बीजं पूर्वमुद्धृत्य योनिमुद्रां प्रदर्शयेत् ॥ ८८ ॥ अनामिकायुगं देवि परिवर्तनयोगतः । अङ्कुशाकाररूपाभ्यां तर्जनीभ्यां तु धारयेत् ॥ ८९ ॥ मध्यमे कुरु तन्मध्ये कनिष्ठिके तथाविधे । दण्डाकारौ ततोऽङ्गुष्ठौ कनिष्ठोपरिसंस्थितौ ॥ ९० ॥
- 'त्र' क. पाठ. । † ह्रौं इति सदाशिवबीजम् ।
सप्तदशः पटलः । १७७ योनिमुद्रेयमाख्याता परा त्रैलोक्यमातृका । अत्रपदं समाभाष्य सर्वानन्दमयात् ततः ॥ ६१ ॥ चक्रराजपदस्यान्ते ब्रह्मस्वरूपमालिखेत् । संवि(देत्य?न्मय)पदं ब्रूयाद्विन्दुचक्रे ततः परम् ॥ ६२ ॥ एषा परापरशब्दाद्रहस्ययोगिनी ततः । ब्रह्मस्वरूपिणी पश्चान्महात्रिपुरसुन्दरी ॥ ६३ ॥ समुद्रा सायुधा चैव सवाहना तथैव च । तथा सपरिवारान्ते सर्वोपचारकैस्तथा ॥ ६४ ॥ पूजितास्तु तथा देवी तर्पितास्त्वं१ति पूर्ववत् । पुष्पाञ्जलिभिरभ्यर्च्य तर्पयेद्विधिना ततः ॥ ६५॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे प्रकटाप्रकटादिदेवीपूजनक्रम- निरूपणं सप्तदशः पटलः ॥ १७ ॥ —=-!!:-=*— १ 'तमीति' ख पाठः ।
अष्टादशः पटलः । --=:****:=-- ईश्वर उवाच प्रसादसुमुखीं देवीं भावयन् प्रजपेन्मनुम् । सर्वयज्ञेषु सर्वत्र जपयज्ञः प्रशस्यते ॥ १ ॥ जपात्तुष्यन्ति देवाश्च जपात् सिध्यन्ति साधकाः । तस्मात् सर्वप्रयत्नेन जपनिष्ठापरो भवेत् ॥ २ ॥ जपः स्यादक्षरावृत्तिरद्रुतं न विलम्बितम् । पूजा ध्यानं जपो होम इति धर्मचतुष्टयम् ॥ ३ ॥ प्रत्यहं साधकः कुर्यात् स्वयं चेत् सिद्धिरिच्छति । जपस्यान्ते शिवं ध्यायेद् ध्यानस्यान्ते पुनर्जपेत् ॥ ४ ॥ जपध्यानसमायुक्तः शीघ्रं सिध्यति मन्त्रवित् । जपरूपा शिवा शक्तिर्ध्यानरूपः सदाशिवः ॥ ५ ॥ तयोर्योगान्भवेत् सिद्धिर्नान्यथा खलु पार्वति । संयुक्तं संयुतं कृत्वा यदयुक्तं न योजयेत् ॥ ६ ॥ यथा सिद्धिस्तथा माला मालाङ्गं जपकर्मणि । मालया जपतो नित्यं सिद्धिरेव न संशयः ॥ ७ ॥ आशुसिद्धिकरी माला वर्णमयी समीरिता । अनुलोमविलोमार्गेर्मातृकायाः सबिन्दुकैः ॥ ८ ॥ (सु?स)मेरुकैः सदा कार्या माला सर्वसमृद्धि[जाः?दा] । अष्टाधि(के?का)ष्टवर्गैस्तु पुनरेव समापयेत् ॥ ६ ॥ १ 'क.' क पाठ । २ 'द्धि' क पाठः ।
वर्णेनान्तरितमन्त्रं कृत्वा ज(प्येत?पेत्तु)साधकः । मालाभावे ततः स्वासु अङ्गुलीषु जपेद्बुधः ॥ १० ॥ नित्यं जपं करे कुर्यान्नतु काम्यं कदाचन । आरभ्यानामिकामध्यात् प्रादक्षि(णो?ण्ये)न वै क्रमात् ॥११। तर्जनीमूलपर्यन्तं जपेन्नवसु पर्वसु । तर्जन्यग्रे तथा मध्ये यो जपेत् (तन्त्र?मति)मान्नरः ॥ १२ ॥ चत्वारि तस्य नश्यन्ति आयुर्विद्या यशो बलम् । अनामामध्यपर्वं तु मेरुं¹ कृत्वा न लङ्घयेत् ॥ १३ ॥ मेरुं प्रदक्षिणं कुर्वन्ननामामूलपर्वतः । अङ्गुलीपर्वभिर्मन्त्रं जपन् रेखां न संस्पृशेत् ॥ १४ ॥ अङ्गुलीर्नापयुञ्जीत किंचिदाकुञ्चिता(:) तले । अङ्गुलीनां वियोगे तु छिद्रेण (श्र?स्र)वते जपः ॥ १५ ॥ स्फटिकादिभिरप्यत्र माला जपसमृद्धिदा । निधाय पुरतो मालां सव्यहस्तगतां च वा ॥ १६ ॥ जपादौ पूजयेन्मालां तोयैरभ्युक्ष्य यत्नतः । इष्टमन्त्रेण मालायाः प्रोक्षणं परिकीर्तितम् ॥ १७ ॥ ऐं मां माले महामाले सर्वशक्तिस्वरूपिणि । चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥ १८ ॥ चन्द्रचन्दनकस्तूरी-रोचनागुरुकुङ्कुमैः । पूजयित्वा ततो मालां गृह्णीयाद् दक्षपाणिना ॥ १६ ॥ बीजं गणपतेः पूर्वमुच्चार्य तदनन्तरम् ।
पादटिप्पणी: ¹ 'रु.' ख. पाठ ।
१८० गन्धर्वतन्त्रे । अविघ्नं कुरु माले त्वं गृह्णीयादित्यनेन तु ॥ २० ॥ यथा हस्तान्न च्यवते जपत: (श्र?स्र)क् तथाचरेत् । हस्ताच्च्युतायां विघ्नं स्याच्छिन्नायां मरणं भवेत् ॥ २१॥ यत्नात् संगोपयेदेनां भ्रमयेन्न वि(धा?ध्रू)नयेत् । गुरुं प्रकाशयेन्नैव यन्त्रं मन्त्रं कदाचन ॥ २२ ॥ अक्षमालां च मुद्रां च गुरवेऽपि न दर्शयेत् । भूतराक्षसवेतालाः सिद्धगन्धर्वचारणाः ॥ २३ ॥ हरन्ति प्रकटं यस्मात् तस्माद्गुप्तं जपेत् सदा । मालां स्वहृदयासन्नां दक्षिणस्य करस्य च ॥ २४ ॥ मध्यमाया मध्यभागे वर्जयित्वा तु तर्जनीम् । अनामिकाकनिष्ठाभ्यां युताया नम्रभागतः ॥ २५ ॥ स्थापयित्वा तत्र मालामङ्गुष्ठाग्रेण तद्गतम् । प्रत्येकं बीजमादाय कुर्याद्वामेन न स्पृशेत् ॥ २६ ॥ प्रतिवारं पठेन्मन्त्रं शनैरोष्ठं न चालयेत् । तर्जन्या न स्पृशेन्मालां मुक्तितो गणनाक्रमः ॥ २७ ॥ अङ्गुष्ठपर्वमध्यस्थापरिवर्त्तं समाचरेत् । अङ्गुष्ठेन विना कर्म कृतं भवति निष्फलम् ॥ २७ ॥ अङ्गुष्ठं मोक्षदं देवि तर्जनी शत्रुनाशिनी । मध्यमा धनसिद्धौ स्याच्छान्तिकर्मण्यनामिका ॥ २६ ॥१ कनिष्ठाकर्षणे ज्ञेया जपकर्मणि सिद्धिदा । मालाबीजं तु जप्तव्यं स्पृशेन्नहि परस्परम् ॥ ३० ॥ १ 'स्तच्यु ' ख पाठः ।
अष्टादशः पटलः । १८१ पूर्वबीजं जपन् यस्तु परबीजं तु संस्पृशेत् । अङ्गुष्ठेन भवेत्त(स्य?त्र)निष्फलस्तस्य तज्जपः˙॥ ३१॥ किटिशब्दान्विता माला छिन्नाभिन्नापिवा भवेत् ¹ वामोरौ दत्तपादं च विन्यस्य परमेश्वरि ॥ ३२॥ बद्धवीरासनो मन्त्री दिशश्चानवलोकयन् । गुरुदैवतमन्त्राणा[मेकं?मैक्यं]संभावयन् धिया ॥ ३३ ॥ अथवा चिन्तयेन्मूर्ध्नि गुरुं वर्णादिभेदतः । मन्त्रं च कण्ठतो ध्यात्वा चिन्तयन् हृदि देवताम् ॥३४॥ निगदेनोपांशुना वा मानसेनाथवा प्रिये । जपारम्भं सुधीः कुर्याद् देवताभावतत्परः ॥ ३५ ॥ निःशङ्कः परमेशानि स्पष्टवाचा निगद्यते । अव्यक्तः प्रस्फुरद्दक उपांशुः परिकीर्तितः ॥ ३६ ॥ धिया यदक्षरश्रेणीं वर्णस्वरपदात्मिकाम् । उच्चरेदनुसंस्मृत्य स(भ?प्रो)क्तो मानसो जपः ॥ ३७ ॥ सौषुम्नाध्वन्युच्चरितं ध्वनिमात्रं विभावयेत् । मन्त्राक्षराणि चिच्छक्तौ प्रोतानि च विभावयन् ॥ ३८ ॥ तामेव परमे व्योम्नि परमामृतबृंहितः । दर्शयत्यात्मसद्भावं पूजाहोमादिभिर्विना ॥ ३६ ॥ मनः संहृत्य विषयान्म[द्र?न्त्रा]र्थगतमानसः । न द्रुतं न विलम्बं च जपेन्मौक्तिकपङ्किवत् ॥ ४० ॥ निगदेन तु यज्जप्तं लक्षमात्रं वरानने । १ ' बापि ' क. पाठ. ।
१८२ गन्धर्वतन्त्रे । उपांशूच्चारणेकेन तुल्यं भवति शैलजे ॥ ४१ ॥ उपांशुलक्षमात्रं तु यज्जप्तं कमलेक्षणे । मानसोच्चारणात्तुल्यमेकेन वरवर्णिनि ॥ ४२ ॥ विशेषात् त्रिपुरातन्त्रे प्रशस्तो मानसो जपः । मनसा च स्मरेत् स्तोत्रं वचसा वा जपेन्मनुम् ॥ ४३ ॥ उभयं निष्फलं तस्य भिन्नभाण्डोदकं यथा । उत्तमो दशसाहस्रः सहस्रो मध्यमः स्मृतः ॥ ४४ ॥ अधमस्तु विजानीयादष्टोत्तरशतं शिवे । इतो न्यूनं महेशानि न शस्तं जपकर्मणि ॥ ४५ ॥ यथाशक्ति जपं कुर्यात् संख्ययैव प्रयत्नतः । असंख्यातं च(स?य)जप्तं तत्सर्वं निष्फलं भवेत् ॥ ४६ ॥ गृह्णन्ति राक्षसा (ये?ते)न गणयेत् सर्वथा बुधः । नैकवासा जपेन्मन्त्रं बहुवस्त्राकुलोऽपि वा ॥ ४७॥ अप्रावृतकरो वापि शिरसा प्रावृतोऽपिवा । चिन्ताव्याकुलचित्तो वा क्रुद्धो वापि त्वरान्वितः ॥४८॥ निर्बोधोऽप्रीतचित्तो न न रुष्टो न क्षुधान्वितः । तथा चान्यमना भूत्वा प्रलपन्न जपेन्मनुम् ॥ ४६ ॥ अनासीनः शयानो वा गच्छन् भुञ्जान एव च । यथाविधि जपं कृत्वा मन्त्रेणार्घ्योदकेन च ॥ ५० ॥ जपं तं च महादेव्या वामहस्ते समर्पयेत् । तेजोरूपं जपफलं शिवया स्वीकृतं स्मरेत् ॥ ५१ ॥ श्रीबीजेनैव पाणिभ्यामवता(राणे?र्थ ख)शीर्षतः ।
अष्टादशः पटलः । १८३ सारस्वतेन बीजेन हस्ताभ्यां स्थापयेत् ततः ॥ ५२ ॥ जपकर्मणि मालायाः प्रतिपत्तिरियं प्रिये । एवं यः कुरुते मालां जाप्यं च साधकः प्रिये ॥ ५३ ॥ स प्राप्नोतीप्सितं देवि हीनस्यायुर्विपर्ययः । निःसेतुं च यथा तोयं क्षणाद्भिन्नं प्रसर्पति ॥ ५४ ॥ मन्त्रस्तथैव निःसेतुः क्षणात् क्षरति (नं?म)न्त्रिणाम् । तस्मात् सर्वेषु मन्त्रेषु सर्वे वर्णा द्विजादयः ॥ ५५ ॥ पार्श्वयोः सेतुमाद(ध्यात्?ध्युः)जपकर्मणि साधकाः । अकारं चाप्युकारं च मकारं च प्रजापतिः ॥ ५६ ॥ वेदत्रयात् समुद्धृत्य प्रणवं निर्ममे पुरा । जपादौ जपकर्मान्ते प्रणवं सेतुरूपकम् ॥ ५७ ॥ नियोजयेन्महेशानि सर्वकार्यार्थसिद्धये । जपान्ते जुहुयादग्निं दशांशं जपमानतः ॥ ५८ ॥ तत्तु देव्याः पुरोभागे साधकः परमेश्वरीम् । होमयेत् संस्कृते वह्नौ तत्र देवीं धिया स्मरन् ॥ ५६ ॥ इदं तस्यै समाभाष्य मूलमन्त्रेण सुन्दरि । स्वाहान्तेन च होतव्यं पायसैर्मधुराप्लुतैः ६० व्यस्ताव्यस्तं ततो हुत्वा संभवे चान्यदेवताः षडाहुतीः षडङ्गेन नित्यहोमोऽयमीरितः ॥ ६१ ॥ एकतः सर्वकर्माणि चैकतो जपहॊ(नघे?मकम्) । सर्वाधिकं होमकर्म होमात् किंवा न साध्यते ॥ ६२ ॥
१ 'क' क पाठ. ।
१८४ गन्धर्वतन्त्रे । अनया दीक्षितो मन्त्रो यदि होमविवर्जितः । त्रिविधं दुःखमाप्नोति नित्यहोमपरो भवेत् ॥ ६३ ॥ अकुर्वतामग्निहोत्रमग्निर्भूत्वा महेश्वरी¹ । धनानि शीघ्रं ग्रसति गृहक्षेत्रपशूनपि ॥ ६४ ॥ बहुदुःखेनार्जितानि संचितान्यचिरेण तु । आत्मप्राणाधिकान्याशु भू(ताग्निं?त्वाग्निः)ग्रसतीश्वरी । ६५। अग्निहोत्रं सदा कुर्यात् [त?य]स्मादग्निमयीश्वरी । अग्निहोत्रविधानेन संपदां भाजनं भवेत् ॥ ६६ ॥ अग्निहोत्रपरस्येह वह्निर्भवति शीतलः । गृहक्षेत्रादिवित्तेषु वर्धते जाठरः परः ॥ ६७ ॥ अग्निरेव मुखं देव्यास्तस्मादग्नौ हुनेत् सदा । पक्षतो मासतो वापि वर्षतो वा यथाविधि ॥ ६८ ॥ होमाशक्तौ जपेद्विद्यां होमद्विगुणसंख्यया । स्तुवन्नानाविधैः स्तोत्रैः प्रणमेत् सप्रदक्षिणम् ॥ ६९ ॥ एवं नानाविधैर्देवीं संतोष्य साधकोत्तमः । भक्तिप्रवणेनचित्तेन निवेद्यानि निवेदयेत् ॥ ७० ॥ अनुलेपं च सिन्दूरं नेत्राञ्जनमनुत्तमम् । धूपामोदं प्रदीपांश्च दर्पणं व्यजनं तथा ॥ ७१ ॥ छत्रं च चामरं चैव घण्टानादमनुत्तमम् । वाद्यं गीतं तथा नृत्यं क्रीडाकौतुकमङ्गले ॥ ७२ ॥ निर्मञ्छनं च सिद्ध्यर्थै³र्दीपावलिभिरेव च । १ 'रीम् ' क. पाठ. । २ 'प्रणव ' क. पाठ । ३ 'द्धार्थै ' क. पाठः ।
अष्टादशः पटलः । १८५ दूर्वार्पणं शिरोदेशे साक्षतं च शनैः शनैः ॥ ७३ ॥ भक्तिप्रवणचित्तं च दास्यमात्मनिवेदनम् । एवं निवेदयेद् देव्यै निवेद्यानि तथा बुधः ॥ ७४ ॥ स धन्यः सर्वलोकानां नान्यः पूज्यश्च भूतले । देवतानामृषीणां च दैत्यानामथ रक्षसाम् ॥ ७५ ॥ गन्धर्वाणामशेषाणां नागादीनां महात्मनाम् । अस्माकं चापि सर्वेषां माननीयः सुरासुरैः ॥ ७६ ॥ सार्वभौमपदं लब्ध्वा कैवल्यं लभते ततः । अनुलिप्य महादेवीं वासयेज्जगतीमिमाम् ॥ ७७ ॥ सिन्दूरैस्तिलकं देव्यै वश्याः सर्वाश्च योषितः । दिव्यज्ञानं भवेत्तस्य (देहा? दत्त्वा) ऽशनमनुत्तमम् ॥ ७८ ॥ माल्यादीनां प्रदानेन महालक्ष्मीः स्थिरा गृहे । ताम्बूलस्य प्रदानेन पानीयस्यापि शोभने ॥ ७६ ॥ सदानन्दमयो भूयात्स[म?दा] दुःखविवर्जितः । धूपैः प्रधूपिता देवी दीपैश्चापि निराजिता ॥ ८० ॥ ददाति वित्तं पुत्रांश्च धरां भूतिमरोगिताम् । धान्यं चौप्यखिलान् कामान्मतिं धर्मे तथा शुभाम् ॥ ८१ ॥ दर्पणं दर्शयित्वैव सारूप्यं लभते विभोः । व्यजनैश्चामरैर्वापि व्यजयित्वा महेश्वरीम् ॥ ८२ ॥ तं व्यजयेन्महालक्ष्मीश्चामरद्वयधारिणी । निमेषार्धं महादेव्याश्छत्रं चोपरि धारयेत् ॥ ८३ ॥ १ 'त्तेन' ख पाठ । २ 'स्यान्म्रा' क पाठ । ३ 'धन्यश्चा' ख पाठ ।
१८६ गन्धर्वतन्त्रे । तस्योपरि महच्छत्रं परिपूर्णेन्दुसोदरम् । लोकपालैः सहागत्य धारयेत् त्रिदशेश्वरैः ॥ ८४ ॥ घण्टाशङ्खनिदानेन तोषयेद्यो महेश्वरीम् । भेरीदुन्दुभिवाद्यैश्च मरुत्वांस्तमनुव्रजेत् ॥ ८५ ॥ (अपा?योऽपि)नो वादयेद् घण्टां शङ्खं वा स्वयमेव हि । स निर्लज्जः कथं ब्रूते पूजयामि महेश्वरीम् ॥ ८६ ॥ ब्रह्मा विष्णुर्हरश्चान्ये सर्वे शङ्खादिवादिनः । शङ्खघण्टादिकांस्तस्माद् वादयेद्देवसंनिधौ ॥ ८७ ॥ वाद्यं यः कारयेद्देव्यै गीतं नृत्यं तथैव च । तुम्बुरुर्नारदश्चैव हाहा हूहूस्तथैव च ॥ ८८ ॥ प्रसादयन्ति तं नित्यं विद्याध(रा?र्याे)ऽप्सरादयः । सुवासिन्यो मदप्रौढा वेशयित्वा यथाविधि ॥ ८६ ॥ वेश्यास्त्वलंकृताः सर्वाः क्रीडयेयुरलं यदि । देवीमुद्दिश्य पुरतस्तस्य पुण्यफलं शृणु ॥ ६० ॥ उर्वशीप्रमुखौस्तं च क्रीडयेयुरलं मुदा । कौतुकं कारयेद्देव्यै हास्यानन्दाय यद्भवेत् ॥ ६१ ॥ तेन प्रमुदितो नित्यं देवीलोके महीयते । मङ्गलानि महादेव्यै कारयित्वा यथाविधि ॥ ६२ ॥ विमानवरमारुह्य ब्रह्मविष्णुपुरःसरम् । सर्वकामसुखं दिव्यं सर्वरत्नसमन्वितम् ॥ ६३ ॥ अनुव्र[जं?जि]तमिन्द्राद्यैः सपत्नीकैः सवाहनैः । १ 'सर्वजित् त्रिदशापति' क पाठ । २ 'घटामयस्त' क पाठः । ३ 'स्वा वेश्यारत' क पाठ । ४ 'ता' क पाठ ।
अष्टादशः पटलः । १८७ देवीलोके समायान्तं समागत्य सुराङ्गनाः ॥ ६४ ॥ अरुन्धत्यथ सावित्री तमहल्या शची तथा । अनुसूयादितिश्चैव मातरश्चै सहानुगाः ॥ ६५ ॥ निर्मञ्छ्य मौक्तिकैर्दिव्यै रत्नदीपैर्निवेद्य च । अर्घ्यं मङ्गलं शीर्षे तर्पयन्ति मुदान्विताः ॥ ६६ ॥ गोशृङ्गोपरि यत्कालं तिष्ठेत्सर्षपमर्पितम् । तावच्चित्ते महादेव्यै भक्तिं कृत्वा नरः प्रिये ॥ ६७ ॥ (पुनाति?पूयते)सर्वपापेभ्यः पापात्मा पापकृद्यदि । पितृमातृकुलैः सार्धं स्वर्गलोके महीयते ॥ ६८ ॥ ततः पुनरिहागत्य चिरेण भक्तिमान् प्रभुः । सार्वभौमपदं लब्ध्वा कैवल्यमाप्नुयात् ततः ॥ ६९ ॥ प्राचुर्यादथ भक्तेस्तु जगन्मा(तः?तुः) पदं प्रति । अनुमेयमनेनैव बहुना वचसा च किम् ॥ १०० ॥ भक्तिः पुनर्महेशानि यदिहानन्यचित्तता । भजनं सर्वभावेन सेव्यँसेवकवर्त्मना ॥ १०१ ॥ जगन्मातुर्महादेव्या दासोऽहमिति भाषते । सकृद्यँस्तस्य भृत्यास्ते पुरन्दरमुखाः सुराः ॥ १०२ ॥ पितृमातृमुखान् विप्रान् गाश्च भृत्याननेकंशः । हृत्वा निवेदयेद्यस्तु आत्मानं तत्पदाम्बुजे ॥ १०३ ॥ शुद्धा गुणमयं देहं परं ब्रह्माधिगच्छति । अहं पुनरिदं विश्वं ब्रह्माण्डं ब्रह्मणा सह ॥ १०४ ॥ 'मात्रैश्चैव' क पाठ । २ 'क्ति' क पाठ । ३ 'ष्या' क पाठ । ४ 'द्यस्य त' क पाठ ।
१८८ गन्धर्वतन्त्रे । भित्त्वा छित्त्वा तथा लोकान् संतोष्य परमेश्वरीम् । तस्यै निवेद्य चात्मानं यास्यामि ब्रह्म शाश्वतम् ॥ १०५ ॥ तस्माद्यत् क्रियते कर्म ममेति च यदा भवेत् । आत्मानं तत्पदाम्भोजे महामन्त्रेण चार्पयेत् ॥ १०६ ॥ तर्पणानि पुनर्दत्त्वा नवमुद्राः प्रदर्शयेत् । मुदं रान्ति च ता यस्मात् तेन मुद्राः प्रकीर्त्तिताः ॥ १०७ ॥ कामं मोक्षं तथा धर्ममर्थं मुद्रान्विता स्वयम् । ददाति साधकायाशु देवी गन्तुं समुत्सुका ॥ १०८ ॥ संक्षोभद्राविराकर्षवश्योन्मादमहाङ्कुशाः । खेचरीबीजयोन्याख्या नव मुद्रा स्मृताः क्रमात् ॥ १०९ ॥ दर्शितास्वासु मुद्रासु भवेत् पूजासमापनम् । स्वस्वबीजेन मुद्राया बन्धनं परिकीर्त्तितम् ॥ ११० ॥ दर्शनं मूलमन्त्रेण त्यागः क्रोधोद्भवेन च । मुद्रानुष्ठानमज्ञात्वा यो मुद्रां धारयेद्बुधः ॥ १११ ॥ विफलं तस्य तत्सर्वं जीवहीनं वपुर्यथा । पूजादौ दर्शितास्वासु देव्यास्तु संनिधिर्भवेत् ॥ ११२ ॥ भक्तेः प्राचुर्यमत्रैव श्रद्धयाभ्यर्चनं तथा । निर्जनश्चात्मशुद्धिश्च दोषराहित्यता तथा ॥ ११३ ॥ पूजोपकरणस्येह बाहुल्यं च पवित्रता । सौरभेणातिसौरभ्याच्चमत्कारकृतिस्तथा ॥ ११४ ॥ संस्थानं पौरुषेणैव मनोहारित्वमात्मनः । १ 'स्त्रीक' ख पाठः । २ 'नपौ' क पाठ. ।
अष्टादशः पटलः । १८६ सौ(मकस्य? मुख्यं च) सुवेशश्चै¹ यष्टुः काकूक्तिरेव च । ११५। पूजाविधिषु दाढ्यं च तथैवानन्यचित्तता । स्तुतिर्नतिर्जपश्चैव बलिः पेयं तथैव च ॥ ११६ ॥ हेतुरत्र समाख्यातो देवीसांनिध्यकारकः । मद्यं (श्रा? स्ना)व्यं तु सिन्दूरे³ स्वांगरागेषु कुंकुमम् । ११७। इति यो यत्र संप्रोक्तो विशेषस्त्रिपुरार्चने । एभिर्विशेषैः सहितं त्रिपुरातन्त्रगोचरम् ॥ ११८ ॥ इति पार्वतीश्वरसंवादे श्रीगन्धर्वतन्त्रे जपादिविधिनिरूपणं अष्टादशः पटलः ॥ १८ ॥ १ 'श च' क पाठ । २ 'मुदाक्ष्य' ख पाठः . ३ 'र' ख. पाठः ।
एकोनविंशः पटलः । —o— ईश्वर उवाच अथ वक्ष्ये महेशानि वटुकादिविधिं शृणु । येनानुष्ठितमात्रेण साधकः सिद्धिमाप्नुयात् ॥ १ ॥ बलिभिस्तर्पिता ह्येते पूजिता यस्य सुव्रते । सिद्धयः सकलास्तस्य करस्था नात्र संशयः ॥ २ ॥ अन्यथा रुषितैस्तैर्हि स विघ्नैः परिभूयते । तस्मात् तेभ्यः प्रयत्नेन बलिं कुर्वीत हेतुना ॥ ३ ॥ मांसेन साधितं भक्तं खण्डं दधि सपिष्टकम् । मांसानि विविधान्यत्र सुदुग्धं मीनमेव च ॥ ४ ॥ श्रीचक्रमभितो देवि मण्डलानां चतुष्टयम् । ईशान-वह्नि-नैर्ऋत्यवायुकोणेषु पार्वति ॥ ५ ॥ ध्येयो देव्यास्तदा विष्णुः पुत्रोऽयं वटुरूपधृक् । वटुकः कमलाक्षस्तु स्वर्णगौरश्चतुर्भुजः ॥ ६ ॥ गदां शङ्खं च पद्मं च चक्रं चापि दधत्करैः । विद्रुतैः पुरतो देव्याः(गजे?खगे)न्द्रासनसंस्थितः ॥ ७ ॥ ꕤवारुणं शक्रयुक्तं च चतुर्दशस्वरान्वितम् । सहितं चन्द्रबिन्दुभ्यां वटुकाय नमोऽन्ततः ॥ ८ ॥ अनेन मनुना देवि गन्धाद्यैः पूजयेत्ततः ।
१ 'करैर्धृतम्' क पाठ । २ 'त' क पाठ । ꕤ वारुणं व शक्र ल चतुर्दश स्वर औ चन्द्रबिन्दुसहित तेन व्लौं वटुकाय नमः इति ।
एकोनविंशः पटलः । १६१ तदग्रे परमेशानि पात्रं चान्नोदकान्वितम् ॥ ९ ॥ कृत्वा च विधिवत्तत्र बलिं मन्त्रेण दापयेत् । ꕤएह्येहि देवी¹पुत्रान्तान्ते वटुकान्तेऽथ नाथ च ॥ १० ॥ कपिलान्ते जटाभारभास्वरान्ते त्रिनेत्र च । ज्वालामु[ख्यं?ख] च सर्वान्ते विघ्नान्नाशय नाशय ॥ ११ ॥ सर्वोपचारसहितं बलिं गृह्णद्विधापदम् । वह्निजायान्वितो मन्त्रो वटुकस्य उदाहृतः ॥ १२ ॥ वामाङ्गुष्ठानामिकाभ्यां बलिं तस्मै निवेदयेत् । अस्यैवाराधनं कृत्वा मन्दभाग्योऽपि सुव्रते ॥ १३ ॥ सर्वबाधाविनिर्मुक्तः संपदां भाजनं भवेत् । यजनं चास्य देवस्य सांगेन कथितं पुरा ॥ १४ ॥ बलिप्रदानमात्रं तु प्रसं[गा]त्कथितं शिवे । डाकिनीप्रमुखाः पश्चाद्वलिना तर्पयेत् ततः ॥ १५ ॥ तथैव वामतो देव्या मण्डले योगिनीः स्मरेत् । अथवा चिन्तयेदेता योगिन्यः सर्वसिद्धिदाः ॥ १६ ॥ योगिन्यः कामरूपाश्च तप्तकाञ्चनभास्वराः । मत्ताः कंकालमालाढ्याः कटीतटभरानता ॥ १७ ॥ गलद्रुधिरगन्धाढ्या रक्तवस्त्रोत्तरीयकाः । लिंगं पाशं कपालं च बिभ्रत्यश्च[श्रृ?सृ]णिं² करैः ॥ १८ ॥ स्वभक्तानामभिमतं संददाना³ मुदान्विताः ।
- एह्येहि देवीपुत्रवटुकनाथकपिलजटाभारभास्वरत्रिनेत्रज्वालामुख सर्वविघ्नान् नाशय नाशय सर्वोपचारसहित बलि गृह २ स्वाहेति बलिमन्त्र । १ 'वि' क पाठ । २ 'श्रृणि चापि धृता' क पाठ । ३ 'दीयमाना' क. पाठः ।
१६२ गन्धर्वतन्त्रे । गन्धादिभिः समभ्यर्च्य बलिं मन्त्रेण दापयेत् ॥ १९ ॥ यामात्मकं समुच्चार्य योगिनीभ्यस्ततः परम् । भ्यसन्तं सर्ववर्णान्ते योगिनीपदमालिखेत् ॥ २० ॥ कवचं चास्रमालिख्य वह्निजायां पुनर्लिखेत् । अनेन मनुना वापि योगिनीनां बलिं हरेत् ॥ २१ ॥ अङ्गुष्ठमध्यमानामा योन्याकारेण योजयेत् । कृताञ्जलिस्ततो देवि संप्रार्थयेदनेन तु ॥ २२ ॥ ऊर्ध्वं ब्रह्माण्डतो वा दिवि गगनले भूतले निस्तले वा पाताले(वानले)वा सलिलपवनयोर्यत्रकुत्र स्थिता वा । क्षेत्रे पीठोपपीठादिषु च कृतपदा धूपदीपादिकेन प्रीता देव्यः सदा नः शुभबलिविधिना पान्तु वीरेन्द्रवन्द्याः। ३ । ४। क्षेत्रपालं महादेव्या वामतः परिचिन्तयेत् । अपराजितवल्लीभिर्वेष्टितस्य महात्मनः ॥ २४ ॥ आरक्तवर्णैः सततं कुसुमैरुपशोभिते । तिन्तिडीकल्पवृक्षस्य सच्छाया रत्नभूषिते ॥ २५ ॥ नीलाञ्(ल?न)चयप्रख्यं दधानं करपङ्कजैः । कृपाणं च कपालं च शूलं डमरुमेव च ॥ २६ ॥ ध्यायेच्च सममल्पार्थं दंष्ट्राभिन्नाधरं परम् । पूजयित्वा विधानेन बलिं मन्त्रेण दापयेत् ॥ २७ ॥ १ 'स्वाहान्ते' क पाठ । २ 'कर' ख पाठ । ३ 'देवेन्द्रवन्द्य ' क पाठ । ४ 'वर्णा.' ख पाठ ५ 'त्त' क पाठ । ✤ या योगिनी+य. सर्ववर्णयोगिनीभ्यो ह्फट्स्वाहेति बलिम्मन्त्र. ।