भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 259, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 259

अष्टादशः पटलः । --=:****:=-- ईश्वर उवाच प्रसादसुमुखीं देवीं भावयन् प्रजपेन्मनुम् । सर्वयज्ञेषु सर्वत्र जपयज्ञः प्रशस्यते ॥ १ ॥ जपात्तुष्यन्ति देवाश्च जपात् सिध्यन्ति साधकाः । तस्मात् सर्वप्रयत्नेन जपनिष्ठापरो भवेत् ॥ २ ॥ जपः स्यादक्षरावृत्तिरद्रुतं न विलम्बितम् । पूजा ध्यानं जपो होम इति धर्मचतुष्टयम् ॥ ३ ॥ प्रत्यहं साधकः कुर्यात् स्वयं चेत् सिद्धिरिच्छति । जपस्यान्ते शिवं ध्यायेद् ध्यानस्यान्ते पुनर्जपेत् ॥ ४ ॥ जपध्यानसमायुक्तः शीघ्रं सिध्यति मन्त्रवित् । जपरूपा शिवा शक्तिर्ध्यानरूपः सदाशिवः ॥ ५ ॥ तयोर्योगान्भवेत् सिद्धिर्नान्यथा खलु पार्वति । संयुक्तं संयुतं कृत्वा यदयुक्तं न योजयेत् ॥ ६ ॥ यथा सिद्धिस्तथा माला मालाङ्गं जपकर्मणि । मालया जपतो नित्यं सिद्धिरेव न संशयः ॥ ७ ॥ आशुसिद्धिकरी माला वर्णमयी समीरिता । अनुलोमविलोमार्गेर्मातृकायाः सबिन्दुकैः ॥ ८ ॥ (सु?स)मेरुकैः सदा कार्या माला सर्वसमृद्धि[जाः?दा] । अष्टाधि(के?का)ष्टवर्गैस्तु पुनरेव समापयेत् ॥ ६ ॥ १ 'क.' क पाठ । २ 'द्धि' क पाठः ।