गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 260, कुल 446 में से
संदर्भ में पढ़ेंवर्णेनान्तरितमन्त्रं कृत्वा ज(प्येत?पेत्तु)साधकः । मालाभावे ततः स्वासु अङ्गुलीषु जपेद्बुधः ॥ १० ॥ नित्यं जपं करे कुर्यान्नतु काम्यं कदाचन । आरभ्यानामिकामध्यात् प्रादक्षि(णो?ण्ये)न वै क्रमात् ॥११। तर्जनीमूलपर्यन्तं जपेन्नवसु पर्वसु । तर्जन्यग्रे तथा मध्ये यो जपेत् (तन्त्र?मति)मान्नरः ॥ १२ ॥ चत्वारि तस्य नश्यन्ति आयुर्विद्या यशो बलम् । अनामामध्यपर्वं तु मेरुं¹ कृत्वा न लङ्घयेत् ॥ १३ ॥ मेरुं प्रदक्षिणं कुर्वन्ननामामूलपर्वतः । अङ्गुलीपर्वभिर्मन्त्रं जपन् रेखां न संस्पृशेत् ॥ १४ ॥ अङ्गुलीर्नापयुञ्जीत किंचिदाकुञ्चिता(:) तले । अङ्गुलीनां वियोगे तु छिद्रेण (श्र?स्र)वते जपः ॥ १५ ॥ स्फटिकादिभिरप्यत्र माला जपसमृद्धिदा । निधाय पुरतो मालां सव्यहस्तगतां च वा ॥ १६ ॥ जपादौ पूजयेन्मालां तोयैरभ्युक्ष्य यत्नतः । इष्टमन्त्रेण मालायाः प्रोक्षणं परिकीर्तितम् ॥ १७ ॥ ऐं मां माले महामाले सर्वशक्तिस्वरूपिणि । चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥ १८ ॥ चन्द्रचन्दनकस्तूरी-रोचनागुरुकुङ्कुमैः । पूजयित्वा ततो मालां गृह्णीयाद् दक्षपाणिना ॥ १६ ॥ बीजं गणपतेः पूर्वमुच्चार्य तदनन्तरम् ।
पादटिप्पणी: ¹ 'रु.' ख. पाठ ।