गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 261, कुल 446 में से
संदर्भ में पढ़ें१८० गन्धर्वतन्त्रे । अविघ्नं कुरु माले त्वं गृह्णीयादित्यनेन तु ॥ २० ॥ यथा हस्तान्न च्यवते जपत: (श्र?स्र)क् तथाचरेत् । हस्ताच्च्युतायां विघ्नं स्याच्छिन्नायां मरणं भवेत् ॥ २१॥ यत्नात् संगोपयेदेनां भ्रमयेन्न वि(धा?ध्रू)नयेत् । गुरुं प्रकाशयेन्नैव यन्त्रं मन्त्रं कदाचन ॥ २२ ॥ अक्षमालां च मुद्रां च गुरवेऽपि न दर्शयेत् । भूतराक्षसवेतालाः सिद्धगन्धर्वचारणाः ॥ २३ ॥ हरन्ति प्रकटं यस्मात् तस्माद्गुप्तं जपेत् सदा । मालां स्वहृदयासन्नां दक्षिणस्य करस्य च ॥ २४ ॥ मध्यमाया मध्यभागे वर्जयित्वा तु तर्जनीम् । अनामिकाकनिष्ठाभ्यां युताया नम्रभागतः ॥ २५ ॥ स्थापयित्वा तत्र मालामङ्गुष्ठाग्रेण तद्गतम् । प्रत्येकं बीजमादाय कुर्याद्वामेन न स्पृशेत् ॥ २६ ॥ प्रतिवारं पठेन्मन्त्रं शनैरोष्ठं न चालयेत् । तर्जन्या न स्पृशेन्मालां मुक्तितो गणनाक्रमः ॥ २७ ॥ अङ्गुष्ठपर्वमध्यस्थापरिवर्त्तं समाचरेत् । अङ्गुष्ठेन विना कर्म कृतं भवति निष्फलम् ॥ २७ ॥ अङ्गुष्ठं मोक्षदं देवि तर्जनी शत्रुनाशिनी । मध्यमा धनसिद्धौ स्याच्छान्तिकर्मण्यनामिका ॥ २६ ॥१ कनिष्ठाकर्षणे ज्ञेया जपकर्मणि सिद्धिदा । मालाबीजं तु जप्तव्यं स्पृशेन्नहि परस्परम् ॥ ३० ॥ १ 'स्तच्यु ' ख पाठः ।