भारतकोश
संग्रह पर लौटें

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

वर्णेनान्तरितमन्त्रं कृत्वा ज(प्येत?पेत्तु)साधकः । मालाभावे ततः स्वासु अङ्गुलीषु जपेद्बुधः ॥ १० ॥ नित्यं जपं करे कुर्यान्नतु काम्यं कदाचन । आरभ्यानामिकामध्यात् प्रादक्षि(णो?ण्ये)न वै क्रमात् ॥११। तर्जनीमूलपर्यन्तं जपेन्नवसु पर्वसु । तर्जन्यग्रे तथा मध्ये यो जपेत् (तन्त्र?मति)मान्नरः ॥ १२ ॥ चत्वारि तस्य नश्यन्ति आयुर्विद्या यशो बलम् । अनामामध्यपर्वं तु मेरुं¹ कृत्वा न लङ्घयेत् ॥ १३ ॥ मेरुं प्रदक्षिणं कुर्वन्ननामामूलपर्वतः । अङ्गुलीपर्वभिर्मन्त्रं जपन् रेखां न संस्पृशेत् ॥ १४ ॥ अङ्गुलीर्नापयुञ्जीत किंचिदाकुञ्चिता(:) तले । अङ्गुलीनां वियोगे तु छिद्रेण (श्र?स्र)वते जपः ॥ १५ ॥ स्फटिकादिभिरप्यत्र माला जपसमृद्धिदा । निधाय पुरतो मालां सव्यहस्तगतां च वा ॥ १६ ॥ जपादौ पूजयेन्मालां तोयैरभ्युक्ष्य यत्नतः । इष्टमन्त्रेण मालायाः प्रोक्षणं परिकीर्तितम् ॥ १७ ॥ ऐं मां माले महामाले सर्वशक्तिस्वरूपिणि । चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥ १८ ॥ चन्द्रचन्दनकस्तूरी-रोचनागुरुकुङ्कुमैः । पूजयित्वा ततो मालां गृह्णीयाद् दक्षपाणिना ॥ १६ ॥ बीजं गणपतेः पूर्वमुच्चार्य तदनन्तरम् ।


पादटिप्पणी: ¹ 'रु.' ख. पाठ ।

१८० गन्धर्वतन्त्रे । अविघ्नं कुरु माले त्वं गृह्णीयादित्यनेन तु ॥ २० ॥ यथा हस्तान्न च्यवते जपत: (श्र?स्र)क् तथाचरेत् । हस्ताच्च्युतायां विघ्नं स्याच्छिन्नायां मरणं भवेत् ॥ २१॥ यत्नात् संगोपयेदेनां भ्रमयेन्न वि(धा?ध्रू)नयेत् । गुरुं प्रकाशयेन्नैव यन्त्रं मन्त्रं कदाचन ॥ २२ ॥ अक्षमालां च मुद्रां च गुरवेऽपि न दर्शयेत् । भूतराक्षसवेतालाः सिद्धगन्धर्वचारणाः ॥ २३ ॥ हरन्ति प्रकटं यस्मात् तस्माद्गुप्तं जपेत् सदा । मालां स्वहृदयासन्नां दक्षिणस्य करस्य च ॥ २४ ॥ मध्यमाया मध्यभागे वर्जयित्वा तु तर्जनीम् । अनामिकाकनिष्ठाभ्यां युताया नम्रभागतः ॥ २५ ॥ स्थापयित्वा तत्र मालामङ्गुष्ठाग्रेण तद्गतम् । प्रत्येकं बीजमादाय कुर्याद्वामेन न स्पृशेत् ॥ २६ ॥ प्रतिवारं पठेन्मन्त्रं शनैरोष्ठं न चालयेत् । तर्जन्या न स्पृशेन्मालां मुक्तितो गणनाक्रमः ॥ २७ ॥ अङ्गुष्ठपर्वमध्यस्थापरिवर्त्तं समाचरेत् । अङ्गुष्ठेन विना कर्म कृतं भवति निष्फलम् ॥ २७ ॥ अङ्गुष्ठं मोक्षदं देवि तर्जनी शत्रुनाशिनी । मध्यमा धनसिद्धौ स्याच्छान्तिकर्मण्यनामिका ॥ २६ ॥१ कनिष्ठाकर्षणे ज्ञेया जपकर्मणि सिद्धिदा । मालाबीजं तु जप्तव्यं स्पृशेन्नहि परस्परम् ॥ ३० ॥ १ 'स्तच्यु ' ख पाठः ।

अष्टादशः पटलः । १८१ पूर्वबीजं जपन् यस्तु परबीजं तु संस्पृशेत् । अङ्गुष्ठेन भवेत्त(स्य?त्र)निष्फलस्तस्य तज्जपः˙॥ ३१॥ किटिशब्दान्विता माला छिन्नाभिन्नापिवा भवेत् ¹ वामोरौ दत्तपादं च विन्यस्य परमेश्वरि ॥ ३२॥ बद्धवीरासनो मन्त्री दिशश्चानवलोकयन् । गुरुदैवतमन्त्राणा[मेकं?मैक्यं]संभावयन् धिया ॥ ३३ ॥ अथवा चिन्तयेन्मूर्ध्नि गुरुं वर्णादिभेदतः । मन्त्रं च कण्ठतो ध्यात्वा चिन्तयन् हृदि देवताम् ॥३४॥ निगदेनोपांशुना वा मानसेनाथवा प्रिये । जपारम्भं सुधीः कुर्याद् देवताभावतत्परः ॥ ३५ ॥ निःशङ्कः परमेशानि स्पष्टवाचा निगद्यते । अव्यक्तः प्रस्फुरद्दक उपांशुः परिकीर्तितः ॥ ३६ ॥ धिया यदक्षरश्रेणीं वर्णस्वरपदात्मिकाम् । उच्चरेदनुसंस्मृत्य स(भ?प्रो)क्तो मानसो जपः ॥ ३७ ॥ सौषुम्नाध्वन्युच्चरितं ध्वनिमात्रं विभावयेत् । मन्त्राक्षराणि चिच्छक्तौ प्रोतानि च विभावयन् ॥ ३८ ॥ तामेव परमे व्योम्नि परमामृतबृंहितः । दर्शयत्यात्मसद्भावं पूजाहोमादिभिर्विना ॥ ३६ ॥ मनः संहृत्य विषयान्म[द्र?न्त्रा]र्थगतमानसः । न द्रुतं न विलम्बं च जपेन्मौक्तिकपङ्किवत् ॥ ४० ॥ निगदेन तु यज्जप्तं लक्षमात्रं वरानने । १ ' बापि ' क. पाठ. ।

१८२ गन्धर्वतन्त्रे । उपांशूच्चारणेकेन तुल्यं भवति शैलजे ॥ ४१ ॥ उपांशुलक्षमात्रं तु यज्जप्तं कमलेक्षणे । मानसोच्चारणात्तुल्यमेकेन वरवर्णिनि ॥ ४२ ॥ विशेषात् त्रिपुरातन्त्रे प्रशस्तो मानसो जपः । मनसा च स्मरेत् स्तोत्रं वचसा वा जपेन्मनुम् ॥ ४३ ॥ उभयं निष्फलं तस्य भिन्नभाण्डोदकं यथा । उत्तमो दशसाहस्रः सहस्रो मध्यमः स्मृतः ॥ ४४ ॥ अधमस्तु विजानीयादष्टोत्तरशतं शिवे । इतो न्यूनं महेशानि न शस्तं जपकर्मणि ॥ ४५ ॥ यथाशक्ति जपं कुर्यात् संख्ययैव प्रयत्नतः । असंख्यातं च(स?य)जप्तं तत्सर्वं निष्फलं भवेत् ॥ ४६ ॥ गृह्णन्ति राक्षसा (ये?ते)न गणयेत् सर्वथा बुधः । नैकवासा जपेन्मन्त्रं बहुवस्त्राकुलोऽपि वा ॥ ४७॥ अप्रावृतकरो वापि शिरसा प्रावृतोऽपिवा । चिन्ताव्याकुलचित्तो वा क्रुद्धो वापि त्वरान्वितः ॥४८॥ निर्बोधोऽप्रीतचित्तो न न रुष्टो न क्षुधान्वितः । तथा चान्यमना भूत्वा प्रलपन्न जपेन्मनुम् ॥ ४६ ॥ अनासीनः शयानो वा गच्छन् भुञ्जान एव च । यथाविधि जपं कृत्वा मन्त्रेणार्घ्योदकेन च ॥ ५० ॥ जपं तं च महादेव्या वामहस्ते समर्पयेत् । तेजोरूपं जपफलं शिवया स्वीकृतं स्मरेत् ॥ ५१ ॥ श्रीबीजेनैव पाणिभ्यामवता(राणे?र्थ ख)शीर्षतः ।

अष्टादशः पटलः । १८३ सारस्वतेन बीजेन हस्ताभ्यां स्थापयेत् ततः ॥ ५२ ॥ जपकर्मणि मालायाः प्रतिपत्तिरियं प्रिये । एवं यः कुरुते मालां जाप्यं च साधकः प्रिये ॥ ५३ ॥ स प्राप्नोतीप्सितं देवि हीनस्यायुर्विपर्ययः । निःसेतुं च यथा तोयं क्षणाद्भिन्नं प्रसर्पति ॥ ५४ ॥ मन्त्रस्तथैव निःसेतुः क्षणात् क्षरति (नं?म)न्त्रिणाम् । तस्मात् सर्वेषु मन्त्रेषु सर्वे वर्णा द्विजादयः ॥ ५५ ॥ पार्श्वयोः सेतुमाद(ध्यात्?ध्युः)जपकर्मणि साधकाः । अकारं चाप्युकारं च मकारं च प्रजापतिः ॥ ५६ ॥ वेदत्रयात् समुद्धृत्य प्रणवं निर्ममे पुरा । जपादौ जपकर्मान्ते प्रणवं सेतुरूपकम् ॥ ५७ ॥ नियोजयेन्महेशानि सर्वकार्यार्थसिद्धये । जपान्ते जुहुयादग्निं दशांशं जपमानतः ॥ ५८ ॥ तत्तु देव्याः पुरोभागे साधकः परमेश्वरीम् । होमयेत् संस्कृते वह्नौ तत्र देवीं धिया स्मरन् ॥ ५६ ॥ इदं तस्यै समाभाष्य मूलमन्त्रेण सुन्दरि । स्वाहान्तेन च होतव्यं पायसैर्मधुराप्लुतैः ६० व्यस्ताव्यस्तं ततो हुत्वा संभवे चान्यदेवताः षडाहुतीः षडङ्गेन नित्यहोमोऽयमीरितः ॥ ६१ ॥ एकतः सर्वकर्माणि चैकतो जपहॊ(नघे?मकम्) । सर्वाधिकं होमकर्म होमात् किंवा न साध्यते ॥ ६२ ॥


१ 'क' क पाठ. ।

१८४ गन्धर्वतन्त्रे । अनया दीक्षितो मन्त्रो यदि होमविवर्जितः । त्रिविधं दुःखमाप्नोति नित्यहोमपरो भवेत् ॥ ६३ ॥ अकुर्वतामग्निहोत्रमग्निर्भूत्वा महेश्वरी¹ । धनानि शीघ्रं ग्रसति गृहक्षेत्रपशूनपि ॥ ६४ ॥ बहुदुःखेनार्जितानि संचितान्यचिरेण तु । आत्मप्राणाधिकान्याशु भू(ताग्निं?त्वाग्निः)ग्रसतीश्वरी । ६५। अग्निहोत्रं सदा कुर्यात् [त?य]स्मादग्निमयीश्वरी । अग्निहोत्रविधानेन संपदां भाजनं भवेत् ॥ ६६ ॥ अग्निहोत्रपरस्येह वह्निर्भवति शीतलः । गृहक्षेत्रादिवित्तेषु वर्धते जाठरः परः ॥ ६७ ॥ अग्निरेव मुखं देव्यास्तस्मादग्नौ हुनेत् सदा । पक्षतो मासतो वापि वर्षतो वा यथाविधि ॥ ६८ ॥ होमाशक्तौ जपेद्विद्यां होमद्विगुणसंख्यया । स्तुवन्नानाविधैः स्तोत्रैः प्रणमेत् सप्रदक्षिणम् ॥ ६९ ॥ एवं नानाविधैर्देवीं संतोष्य साधकोत्तमः । भक्तिप्रवणेनचित्तेन निवेद्यानि निवेदयेत् ॥ ७० ॥ अनुलेपं च सिन्दूरं नेत्राञ्जनमनुत्तमम् । धूपामोदं प्रदीपांश्च दर्पणं व्यजनं तथा ॥ ७१ ॥ छत्रं च चामरं चैव घण्टानादमनुत्तमम् । वाद्यं गीतं तथा नृत्यं क्रीडाकौतुकमङ्गले ॥ ७२ ॥ निर्मञ्छनं च सिद्ध्यर्थै³र्दीपावलिभिरेव च । १ 'रीम् ' क. पाठ. । २ 'प्रणव ' क. पाठ । ३ 'द्धार्थै ' क. पाठः ।

अष्टादशः पटलः । १८५ दूर्वार्पणं शिरोदेशे साक्षतं च शनैः शनैः ॥ ७३ ॥ भक्तिप्रवणचित्तं च दास्यमात्मनिवेदनम् । एवं निवेदयेद् देव्यै निवेद्यानि तथा बुधः ॥ ७४ ॥ स धन्यः सर्वलोकानां नान्यः पूज्यश्च भूतले । देवतानामृषीणां च दैत्यानामथ रक्षसाम् ॥ ७५ ॥ गन्धर्वाणामशेषाणां नागादीनां महात्मनाम् । अस्माकं चापि सर्वेषां माननीयः सुरासुरैः ॥ ७६ ॥ सार्वभौमपदं लब्ध्वा कैवल्यं लभते ततः । अनुलिप्य महादेवीं वासयेज्जगतीमिमाम् ॥ ७७ ॥ सिन्दूरैस्तिलकं देव्यै वश्याः सर्वाश्च योषितः । दिव्यज्ञानं भवेत्तस्य (देहा? दत्त्वा) ऽशनमनुत्तमम् ॥ ७८ ॥ माल्यादीनां प्रदानेन महालक्ष्मीः स्थिरा गृहे । ताम्बूलस्य प्रदानेन पानीयस्यापि शोभने ॥ ७६ ॥ सदानन्दमयो भूयात्स[म?दा] दुःखविवर्जितः । धूपैः प्रधूपिता देवी दीपैश्चापि निराजिता ॥ ८० ॥ ददाति वित्तं पुत्रांश्च धरां भूतिमरोगिताम् । धान्यं चौप्यखिलान् कामान्मतिं धर्मे तथा शुभाम् ॥ ८१ ॥ दर्पणं दर्शयित्वैव सारूप्यं लभते विभोः । व्यजनैश्चामरैर्वापि व्यजयित्वा महेश्वरीम् ॥ ८२ ॥ तं व्यजयेन्महालक्ष्मीश्चामरद्वयधारिणी । निमेषार्धं महादेव्याश्छत्रं चोपरि धारयेत् ॥ ८३ ॥ १ 'त्तेन' ख पाठ । २ 'स्यान्म्रा' क पाठ । ३ 'धन्यश्चा' ख पाठ ।

१८६ गन्धर्वतन्त्रे । तस्योपरि महच्छत्रं परिपूर्णेन्दुसोदरम् । लोकपालैः सहागत्य धारयेत् त्रिदशेश्वरैः ॥ ८४ ॥ घण्टाशङ्खनिदानेन तोषयेद्यो महेश्वरीम् । भेरीदुन्दुभिवाद्यैश्च मरुत्वांस्तमनुव्रजेत् ॥ ८५ ॥ (अपा?योऽपि)नो वादयेद् घण्टां शङ्खं वा स्वयमेव हि । स निर्लज्जः कथं ब्रूते पूजयामि महेश्वरीम् ॥ ८६ ॥ ब्रह्मा विष्णुर्हरश्चान्ये सर्वे शङ्खादिवादिनः । शङ्खघण्टादिकांस्तस्माद् वादयेद्देवसंनिधौ ॥ ८७ ॥ वाद्यं यः कारयेद्देव्यै गीतं नृत्यं तथैव च । तुम्बुरुर्नारदश्चैव हाहा हूहूस्तथैव च ॥ ८८ ॥ प्रसादयन्ति तं नित्यं विद्याध(रा?र्याे)ऽप्सरादयः । सुवासिन्यो मदप्रौढा वेशयित्वा यथाविधि ॥ ८६ ॥ वेश्यास्त्वलंकृताः सर्वाः क्रीडयेयुरलं यदि । देवीमुद्दिश्य पुरतस्तस्य पुण्यफलं शृणु ॥ ६० ॥ उर्वशीप्रमुखौस्तं च क्रीडयेयुरलं मुदा । कौतुकं कारयेद्देव्यै हास्यानन्दाय यद्भवेत् ॥ ६१ ॥ तेन प्रमुदितो नित्यं देवीलोके महीयते । मङ्गलानि महादेव्यै कारयित्वा यथाविधि ॥ ६२ ॥ विमानवरमारुह्य ब्रह्मविष्णुपुरःसरम् । सर्वकामसुखं दिव्यं सर्वरत्नसमन्वितम् ॥ ६३ ॥ अनुव्र[जं?जि]तमिन्द्राद्यैः सपत्नीकैः सवाहनैः । १ 'सर्वजित् त्रिदशापति' क पाठ । २ 'घटामयस्त' क पाठः । ३ 'स्वा वेश्यारत' क पाठ । ४ 'ता' क पाठ ।

अष्टादशः पटलः । १८७ देवीलोके समायान्तं समागत्य सुराङ्गनाः ॥ ६४ ॥ अरुन्धत्यथ सावित्री तमहल्या शची तथा । अनुसूयादितिश्चैव मातरश्चै सहानुगाः ॥ ६५ ॥ निर्मञ्छ्य मौक्तिकैर्दिव्यै रत्नदीपैर्निवेद्य च । अर्घ्यं मङ्गलं शीर्षे तर्पयन्ति मुदान्विताः ॥ ६६ ॥ गोशृङ्गोपरि यत्कालं तिष्ठेत्सर्षपमर्पितम् । तावच्चित्ते महादेव्यै भक्तिं कृत्वा नरः प्रिये ॥ ६७ ॥ (पुनाति?पूयते)सर्वपापेभ्यः पापात्मा पापकृद्यदि । पितृमातृकुलैः सार्धं स्वर्गलोके महीयते ॥ ६८ ॥ ततः पुनरिहागत्य चिरेण भक्तिमान् प्रभुः । सार्वभौमपदं लब्ध्वा कैवल्यमाप्नुयात् ततः ॥ ६९ ॥ प्राचुर्यादथ भक्तेस्तु जगन्मा(तः?तुः) पदं प्रति । अनुमेयमनेनैव बहुना वचसा च किम् ॥ १०० ॥ भक्तिः पुनर्महेशानि यदिहानन्यचित्तता । भजनं सर्वभावेन सेव्यँसेवकवर्त्मना ॥ १०१ ॥ जगन्मातुर्महादेव्या दासोऽहमिति भाषते । सकृद्यँस्तस्य भृत्यास्ते पुरन्दरमुखाः सुराः ॥ १०२ ॥ पितृमातृमुखान् विप्रान् गाश्च भृत्याननेकंशः । हृत्वा निवेदयेद्यस्तु आत्मानं तत्पदाम्बुजे ॥ १०३ ॥ शुद्धा गुणमयं देहं परं ब्रह्माधिगच्छति । अहं पुनरिदं विश्वं ब्रह्माण्डं ब्रह्मणा सह ॥ १०४ ॥ 'मात्रैश्चैव' क पाठ । २ 'क्ति' क पाठ । ३ 'ष्या' क पाठ । ४ 'द्यस्य त' क पाठ ।

१८८ गन्धर्वतन्त्रे । भित्त्वा छित्त्वा तथा लोकान् संतोष्य परमेश्वरीम् । तस्यै निवेद्य चात्मानं यास्यामि ब्रह्म शाश्वतम् ॥ १०५ ॥ तस्माद्यत् क्रियते कर्म ममेति च यदा भवेत् । आत्मानं तत्पदाम्भोजे महामन्त्रेण चार्पयेत् ॥ १०६ ॥ तर्पणानि पुनर्दत्त्वा नवमुद्राः प्रदर्शयेत् । मुदं रान्ति च ता यस्मात् तेन मुद्राः प्रकीर्त्तिताः ॥ १०७ ॥ कामं मोक्षं तथा धर्ममर्थं मुद्रान्विता स्वयम् । ददाति साधकायाशु देवी गन्तुं समुत्सुका ॥ १०८ ॥ संक्षोभद्राविराकर्षवश्योन्मादमहाङ्कुशाः । खेचरीबीजयोन्याख्या नव मुद्रा स्मृताः क्रमात् ॥ १०९ ॥ दर्शितास्वासु मुद्रासु भवेत् पूजासमापनम् । स्वस्वबीजेन मुद्राया बन्धनं परिकीर्त्तितम् ॥ ११० ॥ दर्शनं मूलमन्त्रेण त्यागः क्रोधोद्भवेन च । मुद्रानुष्ठानमज्ञात्वा यो मुद्रां धारयेद्बुधः ॥ १११ ॥ विफलं तस्य तत्सर्वं जीवहीनं वपुर्यथा । पूजादौ दर्शितास्वासु देव्यास्तु संनिधिर्भवेत् ॥ ११२ ॥ भक्तेः प्राचुर्यमत्रैव श्रद्धयाभ्यर्चनं तथा । निर्जनश्चात्मशुद्धिश्च दोषराहित्यता तथा ॥ ११३ ॥ पूजोपकरणस्येह बाहुल्यं च पवित्रता । सौरभेणातिसौरभ्याच्चमत्कारकृतिस्तथा ॥ ११४ ॥ संस्थानं पौरुषेणैव मनोहारित्वमात्मनः । १ 'स्त्रीक' ख पाठः । २ 'नपौ' क पाठ. ।

अष्टादशः पटलः । १८६ सौ(मकस्य? मुख्यं च) सुवेशश्चै¹ यष्टुः काकूक्तिरेव च । ११५। पूजाविधिषु दाढ्यं च तथैवानन्यचित्तता । स्तुतिर्नतिर्जपश्चैव बलिः पेयं तथैव च ॥ ११६ ॥ हेतुरत्र समाख्यातो देवीसांनिध्यकारकः । मद्यं (श्रा? स्ना)व्यं तु सिन्दूरे³ स्वांगरागेषु कुंकुमम् । ११७। इति यो यत्र संप्रोक्तो विशेषस्त्रिपुरार्चने । एभिर्विशेषैः सहितं त्रिपुरातन्त्रगोचरम् ॥ ११८ ॥ इति पार्वतीश्वरसंवादे श्रीगन्धर्वतन्त्रे जपादिविधिनिरूपणं अष्टादशः पटलः ॥ १८ ॥ १ 'श च' क पाठ । २ 'मुदाक्ष्य' ख पाठः . ३ 'र' ख. पाठः ।

एकोनविंशः पटलः । —o— ईश्वर उवाच अथ वक्ष्ये महेशानि वटुकादिविधिं शृणु । येनानुष्ठितमात्रेण साधकः सिद्धिमाप्नुयात् ॥ १ ॥ बलिभिस्तर्पिता ह्येते पूजिता यस्य सुव्रते । सिद्धयः सकलास्तस्य करस्था नात्र संशयः ॥ २ ॥ अन्यथा रुषितैस्तैर्हि स विघ्नैः परिभूयते । तस्मात् तेभ्यः प्रयत्नेन बलिं कुर्वीत हेतुना ॥ ३ ॥ मांसेन साधितं भक्तं खण्डं दधि सपिष्टकम् । मांसानि विविधान्यत्र सुदुग्धं मीनमेव च ॥ ४ ॥ श्रीचक्रमभितो देवि मण्डलानां चतुष्टयम् । ईशान-वह्नि-नैर्ऋत्यवायुकोणेषु पार्वति ॥ ५ ॥ ध्येयो देव्यास्तदा विष्णुः पुत्रोऽयं वटुरूपधृक् । वटुकः कमलाक्षस्तु स्वर्णगौरश्चतुर्भुजः ॥ ६ ॥ गदां शङ्खं च पद्मं च चक्रं चापि दधत्करैः । विद्रुतैः पुरतो देव्याः(गजे?खगे)न्द्रासनसंस्थितः ॥ ७ ॥ ꕤवारुणं शक्रयुक्तं च चतुर्दशस्वरान्वितम् । सहितं चन्द्रबिन्दुभ्यां वटुकाय नमोऽन्ततः ॥ ८ ॥ अनेन मनुना देवि गन्धाद्यैः पूजयेत्ततः ।


१ 'करैर्धृतम्' क पाठ । २ 'त' क पाठ । ꕤ वारुणं व शक्र ल चतुर्दश स्वर औ चन्द्रबिन्दुसहित तेन व्लौं वटुकाय नमः इति ।

एकोनविंशः पटलः । १६१ तदग्रे परमेशानि पात्रं चान्नोदकान्वितम् ॥ ९ ॥ कृत्वा च विधिवत्तत्र बलिं मन्त्रेण दापयेत् । ꕤएह्येहि देवी¹पुत्रान्तान्ते वटुकान्तेऽथ नाथ च ॥ १० ॥ कपिलान्ते जटाभारभास्वरान्ते त्रिनेत्र च । ज्वालामु[ख्यं?ख] च सर्वान्ते विघ्नान्नाशय नाशय ॥ ११ ॥ सर्वोपचारसहितं बलिं गृह्णद्विधापदम् । वह्निजायान्वितो मन्त्रो वटुकस्य उदाहृतः ॥ १२ ॥ वामाङ्गुष्ठानामिकाभ्यां बलिं तस्मै निवेदयेत् । अस्यैवाराधनं कृत्वा मन्दभाग्योऽपि सुव्रते ॥ १३ ॥ सर्वबाधाविनिर्मुक्तः संपदां भाजनं भवेत् । यजनं चास्य देवस्य सांगेन कथितं पुरा ॥ १४ ॥ बलिप्रदानमात्रं तु प्रसं[गा]त्कथितं शिवे । डाकिनीप्रमुखाः पश्चाद्वलिना तर्पयेत् ततः ॥ १५ ॥ तथैव वामतो देव्या मण्डले योगिनीः स्मरेत् । अथवा चिन्तयेदेता योगिन्यः सर्वसिद्धिदाः ॥ १६ ॥ योगिन्यः कामरूपाश्च तप्तकाञ्चनभास्वराः । मत्ताः कंकालमालाढ्याः कटीतटभरानता ॥ १७ ॥ गलद्रुधिरगन्धाढ्या रक्तवस्त्रोत्तरीयकाः । लिंगं पाशं कपालं च बिभ्रत्यश्च[श्रृ?सृ]णिं² करैः ॥ १८ ॥ स्वभक्तानामभिमतं संददाना³ मुदान्विताः ।


  • एह्येहि देवीपुत्रवटुकनाथकपिलजटाभारभास्वरत्रिनेत्रज्वालामुख सर्वविघ्नान् नाशय नाशय सर्वोपचारसहित बलि गृह २ स्वाहेति बलिमन्त्र । १ 'वि' क पाठ । २ 'श्रृणि चापि धृता' क पाठ । ३ 'दीयमाना' क. पाठः ।

१६२ गन्धर्वतन्त्रे । गन्धादिभिः समभ्यर्च्य बलिं मन्त्रेण दापयेत् ॥ १९ ॥ यामात्मकं समुच्चार्य योगिनीभ्यस्ततः परम् । भ्यसन्तं सर्ववर्णान्ते योगिनीपदमालिखेत् ॥ २० ॥ कवचं चास्रमालिख्य वह्निजायां पुनर्लिखेत् । अनेन मनुना वापि योगिनीनां बलिं हरेत् ॥ २१ ॥ अङ्गुष्ठमध्यमानामा योन्याकारेण योजयेत् । कृताञ्जलिस्ततो देवि संप्रार्थयेदनेन तु ॥ २२ ॥ ऊर्ध्वं ब्रह्माण्डतो वा दिवि गगनले भूतले निस्तले वा पाताले(वानले)वा सलिलपवनयोर्यत्रकुत्र स्थिता वा । क्षेत्रे पीठोपपीठादिषु च कृतपदा धूपदीपादिकेन प्रीता देव्यः सदा नः शुभबलिविधिना पान्तु वीरेन्द्रवन्द्याः। ३ । ४। क्षेत्रपालं महादेव्या वामतः परिचिन्तयेत् । अपराजितवल्लीभिर्वेष्टितस्य महात्मनः ॥ २४ ॥ आरक्तवर्णैः सततं कुसुमैरुपशोभिते । तिन्तिडीकल्पवृक्षस्य सच्छाया रत्नभूषिते ॥ २५ ॥ नीलाञ्(ल?न)चयप्रख्यं दधानं करपङ्कजैः । कृपाणं च कपालं च शूलं डमरुमेव च ॥ २६ ॥ ध्यायेच्च सममल्पार्थं दंष्ट्राभिन्नाधरं परम् । पूजयित्वा विधानेन बलिं मन्त्रेण दापयेत् ॥ २७ ॥ १ 'स्वाहान्ते' क पाठ । २ 'कर' ख पाठ । ३ 'देवेन्द्रवन्द्य ' क पाठ । ४ 'वर्णा.' ख पाठ ५ 'त्त' क पाठ । ✤ या योगिनी+य. सर्ववर्णयोगिनीभ्यो ह्फट्स्वाहेति बलिम्मन्त्र. ।

एकोनविंशः पटलः । १६३ षड्दीर्घस्वरसंभिन्नं क्षकारं विलिखेत् प्रिये । ततः क्षेत्रपदं पाल धूपदीपादि वा लिखेत् ॥ २८ ॥ सहितं बलिमालिख्य गृह्णगृह्ण ततो वदेत् । वह्निजायान्वितो मन्त्रः ‡क्षेत्रपालस्य पार्वति ॥ २६ ॥ वाममुष्टिं विधायादौ तर्जनीं सरलां कुरु । अनया मुद्रया देवि बलिं तस्मै निवेदयेत् ॥ ३० ॥ चतुर्थमण्डले देव्याः पुरतो दक्षभागतः । नवीननीरदश्यामं सर्वाभरणभूषितम् ॥ ३१ ॥ तुन्दिनं गजवक्त्रं च चतुर्बाहुं दिगम्बरम् । वामदक्षोर्ध्वपाणिभ्यां पाशाङ्कुश[व?ध]रं विभुम् ॥ ३२ ॥ दक्षिणाधःकरेणैव मधुपूर्णकपालकम् । सिन्दूरसदृशाकारामुद्दाममदविह्वलाम् ॥ ३३ ॥ धृतरक्तोत्पलामन्यपाणिना तद्ध्वजस्पृशम् । आलिङ्ग्य वामहस्तेन तस्या मदनमन्दिरम् ॥ ३४ ॥ स्पृशन्तं परमेशानं ध्यात्वा तं परिपूजयेत् । गांगींगूंत्रयमालिख्य ङेन्तं गणपतिं ततः ॥ ३५ ॥ वरान्ते वरदान्ते च सर्वान्ते जनमालिखेत् । मे वशं चानय प्रोच्य बलिं गृह द्विधापदम् ॥ ३६ ॥ वह्निजायान्वितो मन्त्रो गणपस्यꕤउदाहृतः । मुष्टिमध्यस्थितां देवि अङ्गुलीं दण्डवत् कुरु ॥ ३७ ॥


पाद-टिप्पणी (Footnotes): १ 'शा' क पाठ । ‡ क्षांक्षींक्षूंक्षैंक्षौंक्षः क्षेत्रपाल धूपदीपादिसहितं बलि गृह २ स्वाहा इति निष्कर्ष । ꕤ गांगींगूंगणपतये वरवरद सर्वजन मे वशमानय बलि गृह २ स्वाहेतिबलिमन्त्र ।

१६४ गन्धर्वतन्त्रे । गजतुण्डा महामुद्रा गणपस्य सदा प्रिया । एतदन्ते महेशानि सर्वभूतबलिं हरेत् ॥ ३८ ॥ सुरा नराश्च पितरो यक्षरक्षःपिशाचकाः । एते भूताः समुद्दिष्टा बलिभिस्तान् प्रतर्पयेत् ॥ ३९ ॥ बलिभिस्तर्पितास्त्वेते यान्ति यज्ञे सहायताम् । अतर्पिता यदा तस्मिंस्ते वै विघ्नस्वरूपिणः ॥ ४० ॥ आत्मानं च क्रियाः सर्वा महामन्त्रेण पार्वति । ततो ब्रह्मस्वरूपिण्यै विशेषेण समर्पयेत् ॥ ४१ ॥ वारत्रयमितः पूर्वं प्राणबुद्धि ततः परम् । देहधर्माधिकारान्ते जाग्रत्स्वप्नसुषुप्तिषु ॥ ४२ ॥ मनसा च ततो वाचा कर्मणा च ततः परम् । हस्ताभ्यां च ततः पद्भ्यामुदरेण ततः परम् ॥ ४३ ॥ शिश्ना च यत् स्मृतं पश्चाद्यदुक्तं यत्कृतं भवेत् । मां मदीयं ततो देवि सकलं च ततः परम् ॥ ४४ ॥ तथैव त्वयि-शब्दान्ते ब्रह्मण्यार्पितमस्त्विति । स्वाहान्तो मनुरित्युक्तो मन्त्रःऽस्वात्मसमर्पणे ॥ ४५ ॥ एतदन्ते महामन्त्रा(न?नि)यतः समुदीरयेत् । आवाहनं न जानामि न जानामि विसर्जनम् ॥ ४६ ॥ पूजाभागं न जानामि त्वं गतिः परमेश्वरि । सत्यं सत्यं पुनः सत्यमुत्क्षिप्य भुजमुच्यते ॥ ४७ ॥ § इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारजाग्रत्स्वप्नसुषुप्तिषु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना च यत्स्मृतं यदुक्तं यत्कृतं मां मदीयं सकलं त्वयि ब्रह्मण्यार्पितमस्तु स्वाहेति स्वात्मसमर्पणमन्त्रः । मामिति अस्मिन्मन्त्रौ विभक्तिप्रतिरूपकमव्ययं बोध्यम् ।

एकोनविंशः पटलः । १६५ कायेन मनसा वाचा त्वत्तो नान्या गतिर्मम ! अन्तश्चारेण भूतानामन्तस्त्वमेव संस्थिता ॥ ४८ ॥ यद्दत्तं भक्तिमात्रेण पत्रं पुष्पं फलं जलम् । आवेदितं च नैवेद्यं तद्गृहाणानुकम्पया ॥ ४६ ॥ विधिहीनं क्रियाहीनं भक्तिहीनं यदर्चितम् । यदक्षरपरिभ्रष्टं मात्राहीनं च यद्भवेत् ॥ ५० ॥ अनङ्गव्यवधानादि अपराधशतानि च । क्षन्तुमर्हसि मे देवि त्वमेव शरणं यतः ॥ ५१ ॥ त्वयि मे हृदयं चास्तु त्वयि चित्तं मनस्त्वयि । त्वत्पूजायां महामाये संवर्धन्तां प्रयोजिताः ॥ ५२ ॥ ये पुनर्विघ्नकर्तारस्ते नश्यन्तु त्वदाज्ञया । मन्त्रेषु पठितेष्वेषु स्व(रं?यं)देवी प्रसीदति ॥ ५३ ॥ दातुं देवी चतुर्वर्गमित्येतन्नात्र संशयः । एवं संप्रार्थ्य देवेशि स्तुत्वा नुत्वाति३भक्तितः ॥ ५४ ॥ प्रधानदेवतामूर्तौ परिवारान् समर्पयेत् । तस्या एव महेशान्याः शरीरे सर्वदेवताः ॥ ५५ ॥ विलीनांः सन्तु मूलेन दे(वा?व्य)ङ्गे मीलिताः स्मरेत् । अथ कामकलारूपमात्मानं परिचिन्तयेत् ॥ ५६ ॥ ततस्तां परमेशानीं विसृजेद् हृदयाम्बुजे । ज्ञानतोऽज्ञानतो वापि यन्मया क्रियते शिवे ॥ ५७ ॥ तव कृत्यमिदं सर्वमिति मातः क्षमस्व मे । उद्वास्य परमेशानीं खेचर्यात्मनि योजयेत् ॥ ५८ ॥ १ 'र' क पाठ । २ 'दत्ते' ख पाठ । ३ 'भि' ख पाठ ।

१६६ गन्धर्वतन्त्रे । अनेनैव तु मन्त्रेण ध्यायँस्तां स्थापयेद् हृदि । तिष्ठ देवि परे स्थाने स्वस्थाने परमेश्वरि ॥ ५६ ॥ विसृज्यैवं महेशानीं ततः पूरकवायुना । संहारमुद्रयादाय समाघ्राय गुरूक्तया ॥ ६० ॥ तच्चैतन्यं[स?स्व]मूलेन मूल एव निवेशयेत् । प्राणायामैस्तु संतर्प्य यजेन्निर्माल्यधारिणीम् ॥ ६१ ॥ निर्माल्यं निक्षिपेन्मूर्ध्नि नीत्वा तां चित्कलां पुरा । अस्या जगन्मयी सैव सा चै[वाशो?व शे]षिका परा ॥ ६२ ॥ तत्परं नहि वेत्स्वे[ह?व]न्तत्त्वज्ञानादहं प्रभुः । महापद्मवनान्तःस्थशृङ्गाटोदरसंस्थिताम् ॥ ६३ ॥ देवीं परां समालोक्य आत्मानं तु विचिन्तयेत् । उन्मन्यन्ते शिवो भूत्वा तिष्ठेदानन्दनिर्भरः ॥ ६४ ॥ शिवेनैक्यं समासाद्य यावदन्ते मनोलयः । निवर्तितसमाधिस्तु गुरवे मूर्धवासिने ॥ ६५ ॥ आललाटं नमस्कुर्यान्निवेद्यार्घ्यं तदाज्ञया । ऐशान्यां मण्डलं कृत्वा द्वारपद्मविवर्जितम् ॥ ६६ ॥ शेषिकां सुन्दरीं तत्र निर्माल्येन प्रपूजयेत् । लेह्यचोष्यान्नपानादि ताम्बूलमनुलेपनम् ॥ ६७ ॥ नैर्माल्यं भोजनं तुभ्यं ददामि श्रीशिवाज्ञया । अनेन मनुना देव्या यजेन्निर्माल्यधारिणीम् ॥ ६८ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे वटुकादिबलिविधिनिरूपणं एकोनविंशः पटलः ॥ १९ ॥ १ 'वा' क पाठ । २ 'अन्त यावन्म' क पाठ । ३ 'षा' क पाठ.। ४ 'स्रग्विले' ख पाठः ।

विंशः पटलः । देव्युवाच कथं सा परमेशानी शेषिका पू[जि?ज्य]ते शिव । कीदृशी सा महादेवी तदशेषं वद प्रभो ॥ १ ॥ ईश्वर उवाच शेषिकां सुन्दरीं वक्ष्ये देवीं गुह्यतमां प्रिये । उच्छिष्टपूर्विकां देवीं मातङ्गीं सर्वसिद्धिदाम् ॥ २॥ सर्वापत्तोरिणीं विद्यां सर्वदोषविवर्जिताम् । यया विज्ञातया देवि क्षयं गच्छन्ति चापदः ॥ ३ ॥ स्थावरं जङ्गमं चैव कृत्रिमं चाङ्गजं तथो । विद्येयं¹ नाशयेद् देवि स्वपराङ्गसमाश्रितम् ॥ ४ ॥ इयं विद्या महाविद्या सर्वपापापहारिणी । स्वर्गदा मोक्षदा चेयं राज्यसौभाग्यदा तथा ॥ ५ ॥ इयं देवी मया पूर्वं साधिता देवि निर्जने । सकृदुच्चा³रिता विद्या ब्रह्महत्याविनाशिनी ॥ ६ ॥ य उच्छिष्टमुखो भूत्वा स्मरेद् देवीं कदाचन । तदाचान्तो भवेद् देवि विनैवाचमने कृते* ॥ ७ ॥ निर्धनो धनमाप्नोति मूर्खो विद्यामवाप्नुयात् । मन्त्रं शृणु महादेव्या यथावत् कथयामि ते ॥ ८ ॥ १ 'विषम्' ख पाठ । २ 'च' क पाठ । ३ 'यद्यु' ख पाठ ।

  • ऐशोऽय पाठ. आचमन विनेत्यर्थं, एवमग्नेपि बोध्यम् ।

१६८ गन्धर्वतन्त्रे । उच्छिष्टशब्दमुच्चार्य तथा चण्डालिनीति च । सुमुखीति ततो देवि महापिशाचिनीति च ॥ ६ ॥ मायाबीजं ततः पश्चात् ठकारद्वितयं तथा । सविसर्गं‡महादेवि सर्वसिद्धिप्रदायकम् ॥ १० ॥ अथान्यं संप्रवक्ष्यामि मन्त्रं परमदुर्लभम् । वाङ्मायाकमलाबीजं नमो भगवतीति च ॥ ११ ॥ मातङ्गेश्वरि सर्वान्ते जनवशंकरीति च । वह्निजायान्वितो मन्त्रः§ सर्वसिद्धिप्रदायकः ॥ १२ ॥ नारिदोषोऽत्र देवेशि न विघ्नो नियमस्तथा । अङ्गन्यासकरन्यासौ नाङ्गी चैवास्य देवता ॥ १३ ॥ यस्य तिष्ठति मन्त्रोऽयं स भवेत् सुरपादपः । ध्यानमस्याः प्रवक्ष्यामि यथावदखिलेश्वरि ॥ १४ ॥ शवोपरि समासीना रक्ताम्बरपरिच्छदा । रक्तालंकारभूषाढ्या गुञ्जाहारविराजिता ॥ १५ ॥ नवयौवनसंपन्ना पीनोन्नतपयोधरा । कपालकर्तृकाहस्ता परमज्योतीरूपिणी ॥ १६ ॥ विधानं चात्र वक्ष्यामि शृणु देवि मनोहरम् । भोजनानन्तरं देवि विनैवाचमने कृते ॥ १७ ॥ बलिं कृत्वा प्रथमतॊ मूलमन्त्रेण साधकः । ततो मन्त्रं जपेद् ध्यात्वा जपेदयुतमानतः ॥ १८ ॥

‡ उच्छिष्टचण्डालिनि सुमुखि देवि महापिशाचिनि ह्रीं ठः ठः इति । § ऐं ह्रीं श्रीं नमो भगवति मातङ्गेश्वरि सर्वजनवशकारि स्वाहा । इति मन्त्रान्तरम् ।