गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 276, कुल 446 में से
संदर्भ में पढ़ेंएकोनविंशः पटलः । १६५ कायेन मनसा वाचा त्वत्तो नान्या गतिर्मम ! अन्तश्चारेण भूतानामन्तस्त्वमेव संस्थिता ॥ ४८ ॥ यद्दत्तं भक्तिमात्रेण पत्रं पुष्पं फलं जलम् । आवेदितं च नैवेद्यं तद्गृहाणानुकम्पया ॥ ४६ ॥ विधिहीनं क्रियाहीनं भक्तिहीनं यदर्चितम् । यदक्षरपरिभ्रष्टं मात्राहीनं च यद्भवेत् ॥ ५० ॥ अनङ्गव्यवधानादि अपराधशतानि च । क्षन्तुमर्हसि मे देवि त्वमेव शरणं यतः ॥ ५१ ॥ त्वयि मे हृदयं चास्तु त्वयि चित्तं मनस्त्वयि । त्वत्पूजायां महामाये संवर्धन्तां प्रयोजिताः ॥ ५२ ॥ ये पुनर्विघ्नकर्तारस्ते नश्यन्तु त्वदाज्ञया । मन्त्रेषु पठितेष्वेषु स्व(रं?यं)देवी प्रसीदति ॥ ५३ ॥ दातुं देवी चतुर्वर्गमित्येतन्नात्र संशयः । एवं संप्रार्थ्य देवेशि स्तुत्वा नुत्वाति३भक्तितः ॥ ५४ ॥ प्रधानदेवतामूर्तौ परिवारान् समर्पयेत् । तस्या एव महेशान्याः शरीरे सर्वदेवताः ॥ ५५ ॥ विलीनांः सन्तु मूलेन दे(वा?व्य)ङ्गे मीलिताः स्मरेत् । अथ कामकलारूपमात्मानं परिचिन्तयेत् ॥ ५६ ॥ ततस्तां परमेशानीं विसृजेद् हृदयाम्बुजे । ज्ञानतोऽज्ञानतो वापि यन्मया क्रियते शिवे ॥ ५७ ॥ तव कृत्यमिदं सर्वमिति मातः क्षमस्व मे । उद्वास्य परमेशानीं खेचर्यात्मनि योजयेत् ॥ ५८ ॥ १ 'र' क पाठ । २ 'दत्ते' ख पाठ । ३ 'भि' ख पाठ ।