गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 277, कुल 446 में से
संदर्भ में पढ़ें१६६ गन्धर्वतन्त्रे । अनेनैव तु मन्त्रेण ध्यायँस्तां स्थापयेद् हृदि । तिष्ठ देवि परे स्थाने स्वस्थाने परमेश्वरि ॥ ५६ ॥ विसृज्यैवं महेशानीं ततः पूरकवायुना । संहारमुद्रयादाय समाघ्राय गुरूक्तया ॥ ६० ॥ तच्चैतन्यं[स?स्व]मूलेन मूल एव निवेशयेत् । प्राणायामैस्तु संतर्प्य यजेन्निर्माल्यधारिणीम् ॥ ६१ ॥ निर्माल्यं निक्षिपेन्मूर्ध्नि नीत्वा तां चित्कलां पुरा । अस्या जगन्मयी सैव सा चै[वाशो?व शे]षिका परा ॥ ६२ ॥ तत्परं नहि वेत्स्वे[ह?व]न्तत्त्वज्ञानादहं प्रभुः । महापद्मवनान्तःस्थशृङ्गाटोदरसंस्थिताम् ॥ ६३ ॥ देवीं परां समालोक्य आत्मानं तु विचिन्तयेत् । उन्मन्यन्ते शिवो भूत्वा तिष्ठेदानन्दनिर्भरः ॥ ६४ ॥ शिवेनैक्यं समासाद्य यावदन्ते मनोलयः । निवर्तितसमाधिस्तु गुरवे मूर्धवासिने ॥ ६५ ॥ आललाटं नमस्कुर्यान्निवेद्यार्घ्यं तदाज्ञया । ऐशान्यां मण्डलं कृत्वा द्वारपद्मविवर्जितम् ॥ ६६ ॥ शेषिकां सुन्दरीं तत्र निर्माल्येन प्रपूजयेत् । लेह्यचोष्यान्नपानादि ताम्बूलमनुलेपनम् ॥ ६७ ॥ नैर्माल्यं भोजनं तुभ्यं ददामि श्रीशिवाज्ञया । अनेन मनुना देव्या यजेन्निर्माल्यधारिणीम् ॥ ६८ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे वटुकादिबलिविधिनिरूपणं एकोनविंशः पटलः ॥ १९ ॥ १ 'वा' क पाठ । २ 'अन्त यावन्म' क पाठ । ३ 'षा' क पाठ.। ४ 'स्रग्विले' ख पाठः ।