भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 278, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 278

विंशः पटलः । देव्युवाच कथं सा परमेशानी शेषिका पू[जि?ज्य]ते शिव । कीदृशी सा महादेवी तदशेषं वद प्रभो ॥ १ ॥ ईश्वर उवाच शेषिकां सुन्दरीं वक्ष्ये देवीं गुह्यतमां प्रिये । उच्छिष्टपूर्विकां देवीं मातङ्गीं सर्वसिद्धिदाम् ॥ २॥ सर्वापत्तोरिणीं विद्यां सर्वदोषविवर्जिताम् । यया विज्ञातया देवि क्षयं गच्छन्ति चापदः ॥ ३ ॥ स्थावरं जङ्गमं चैव कृत्रिमं चाङ्गजं तथो । विद्येयं¹ नाशयेद् देवि स्वपराङ्गसमाश्रितम् ॥ ४ ॥ इयं विद्या महाविद्या सर्वपापापहारिणी । स्वर्गदा मोक्षदा चेयं राज्यसौभाग्यदा तथा ॥ ५ ॥ इयं देवी मया पूर्वं साधिता देवि निर्जने । सकृदुच्चा³रिता विद्या ब्रह्महत्याविनाशिनी ॥ ६ ॥ य उच्छिष्टमुखो भूत्वा स्मरेद् देवीं कदाचन । तदाचान्तो भवेद् देवि विनैवाचमने कृते* ॥ ७ ॥ निर्धनो धनमाप्नोति मूर्खो विद्यामवाप्नुयात् । मन्त्रं शृणु महादेव्या यथावत् कथयामि ते ॥ ८ ॥ १ 'विषम्' ख पाठ । २ 'च' क पाठ । ३ 'यद्यु' ख पाठ ।

  • ऐशोऽय पाठ. आचमन विनेत्यर्थं, एवमग्नेपि बोध्यम् ।