गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
DevanagariHindipublished446 पृष्ठ
पृष्ठ 279, कुल 446 में से
संदर्भ में पढ़ेंपृष्ठ 279
१६८ गन्धर्वतन्त्रे । उच्छिष्टशब्दमुच्चार्य तथा चण्डालिनीति च । सुमुखीति ततो देवि महापिशाचिनीति च ॥ ६ ॥ मायाबीजं ततः पश्चात् ठकारद्वितयं तथा । सविसर्गं‡महादेवि सर्वसिद्धिप्रदायकम् ॥ १० ॥ अथान्यं संप्रवक्ष्यामि मन्त्रं परमदुर्लभम् । वाङ्मायाकमलाबीजं नमो भगवतीति च ॥ ११ ॥ मातङ्गेश्वरि सर्वान्ते जनवशंकरीति च । वह्निजायान्वितो मन्त्रः§ सर्वसिद्धिप्रदायकः ॥ १२ ॥ नारिदोषोऽत्र देवेशि न विघ्नो नियमस्तथा । अङ्गन्यासकरन्यासौ नाङ्गी चैवास्य देवता ॥ १३ ॥ यस्य तिष्ठति मन्त्रोऽयं स भवेत् सुरपादपः । ध्यानमस्याः प्रवक्ष्यामि यथावदखिलेश्वरि ॥ १४ ॥ शवोपरि समासीना रक्ताम्बरपरिच्छदा । रक्तालंकारभूषाढ्या गुञ्जाहारविराजिता ॥ १५ ॥ नवयौवनसंपन्ना पीनोन्नतपयोधरा । कपालकर्तृकाहस्ता परमज्योतीरूपिणी ॥ १६ ॥ विधानं चात्र वक्ष्यामि शृणु देवि मनोहरम् । भोजनानन्तरं देवि विनैवाचमने कृते ॥ १७ ॥ बलिं कृत्वा प्रथमतॊ मूलमन्त्रेण साधकः । ततो मन्त्रं जपेद् ध्यात्वा जपेदयुतमानतः ॥ १८ ॥
‡ उच्छिष्टचण्डालिनि सुमुखि देवि महापिशाचिनि ह्रीं ठः ठः इति । § ऐं ह्रीं श्रीं नमो भगवति मातङ्गेश्वरि सर्वजनवशकारि स्वाहा । इति मन्त्रान्तरम् ।