गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 280, कुल 446 में से
संदर्भ में पढ़ेंविंशः पटलः । १६६ उच्छिष्टेनैव कर्तव्यो जपोऽस्याः सिद्धिमिच्छता .। अपरं च प्रवक्ष्यामि शृणु देवि फलप्रदम् ॥ १६ ॥ होमसंतर्पणं चैव सर्वकार्यार्थसिद्धये । स्थण्डिले मण्डलं कृत्वा चतुरस्रं सबिन्दुकम् ॥ २० ॥ पूजयेन्मण्डलं देव्या मूलमन्त्रेण साधकः । तत्र देवीं समावाह्य वह्निरूपव्यवस्थिताम् ॥ २१ ॥ संपूज्यैव चरेद्धोमं दधिसिद्धार्थतण्डुलैः । सहस्रैकविधानेन राजा भवति वश्यगः ॥ २२ ॥ मार्जारस्य तु मांसेन देव्यै होमं समाचरन् । स प्राप्नोति परां विद्यां शश्वच्छास्त्रवशीकृताम् ॥ २३ ॥ कुर्याच्छागस्य मांसेन होमं मधुघृतान्वितम् । सहस्रैकप्रमाणे न भवन्ति फलसिद्धयः ॥ २४ ॥ विद्याकामश्चरेद् होमं मधुना सह सर्पिषा । अयु[कै?तै]कप्रमाणे न सिद्धिरिष्टा भवेद् ध्रुवम् ॥२५॥ सद्यो मार्जारमांसेन घृतेन मधुना सह । चाण्डालकेशयुक्तेन भवेदाकर्षणं महत् ॥ २६ ॥ शशकस्य तु मांसेन मधुनालोडितेन च । कृत्वा होममवाप्नोति विद्यावसुवरश्रियः ॥ २७ ॥ धत्तूरकाष्ठयोगेन चितावह्नौ तु मन्त्रवित् । कोकिलाकाकपक्षाँश्च होमैः शत्रून् विनाशयेत् ॥ २८ ॥ उच्चाटनाय शत्रूणां होमं कुर्याच्च मन्त्रवित् । १ 'धूस्तू' क पाठ. ।