गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 281, कुल 446 में से
संदर्भ में पढ़ें२०० गन्धर्वतन्त्रे । पूर्वोक्तेन विधानेन चिताकाष्ठहुताशने ॥ २९ ॥ उलूककाकपक्षाभ्यां कृत्वा होमं निरन्तरम् । द्वेषयेद् द्विष्टमन्योन्यकलहाकुलसंकुलम् ॥ ३० ॥ उलुकपक्षहोमेन गर्भपातो भवेत् स्त्रियाः । बिल्वपत्रैः सुमध्वक्तैर्मासमेकं निरन्तम् ॥ ३१ ॥ सहस्रैकप्रमाणे कृत्वा होमं समाहितः । अपि वन्ध्या लभेत् पुत्रं चिरजीविनमुत्तमम् ॥ ३२ ॥ बन्धूककुसुमं हुत्वा रक्तं मधुसितान्वितम् । दुर्भगा चैव या नारी सुभगा सा न संशयः ॥ ३३ ॥ [इडा?हठा]दागत्य कामार्ता बलादालिङ्गयन्ति तम् । इयं देवी महेशानी वामाचार२फलप्रदा ॥ ३४ ॥ दक्षिणाचारयोगेन न भवेत् फलदायिनी । भोजनान्तरं चास्या बलिं दद्याद् दिने दिने ॥ ३५ ॥ उच्छिष्टेन जपेन्मन्त्रं शतमष्टोत्तरं शिवे । उट३जे वा श्मशाने वा शून्यागारे चतु(ष्टयं?ष्पथे) ॥ ३६ ॥ बलिप्रदानतो देवी प्रत्यक्षा भवति ध्रुवम् । अनयैवाभिसंमन्त्र्य ओषध्यः सर्वसिद्धिदाः ॥ ३७ ॥ चन्द्री चक्री तथा वज्री त्रिशूला मुद्गरी तथा । देहस्था समरे पुंसां सर्वायुधवि[धा?दा]रिणी ॥ ३८ ॥ गृहीतं पुष्यनक्षत्रे अपामार्गस्य मूलकम् । लेपमात्रेण धीराणां सर्वायुधनिवारणम् ॥ ३९ ॥ १ 'स' क, पाठ । २ 'रा' क पाठ । ३ 'उज्जटे' क पाठ ।