गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 282, कुल 446 में से
संदर्भ में पढ़ेंविंशः पटलः । २०१ अर्जुनं च नारजं च चम्पकोन्मत्तकः कुहूः । लेपमात्राज्जयी युद्धे वज्रदेहो भवेन्नरः ॥ ४० ॥ खर्जूरी मुखमध्यस्था कटीबद्धा च केतकी । भुजदण्डस्थितस्तालः सर्वायुधनिवारणः ॥ ४१ ॥ दक्षबाहुस्थितश्चार्को वामे तु हृदयेऽथवा । रुद्रः पुष्पगतो युद्धे वज्रदेहो भवेन्नरः ॥ ४२ ॥ त्रिलोहवेष्टितं कृत्वा रसं वज्राभसंयुतम् । रणस्थस्य करस्थं च सर्वायुधनिवारणम् ॥ ४३ ॥ गिरिकर्णी शमीं दूर्वां गुञ्जां श्वेतां समाहरेत् । चन्दनेनान्विताः सर्वास्तिलकाद्विजयी रणे ॥ ४४ ॥ अधःपुष्पा शिखी चैव श्वेता च गिरिकर्णिका । गोरोचनासमायुक्ता तिलकं शत्रुमोहनम् ॥ ४५ ॥ कनकार्को[१] वह्निरिन्द्रद्रुः पञ्चमस्तथा । करोति तिलकं यस्तु पश्येतं पञ्चधा रिपुः ॥ ४६ ॥ कृष्णसर्पकरालं तु रसं मृत्तिकयान्वितम् । सितगुञ्जां वपेत् तत्र तस्या मूलं समाहरेत् ॥ ४७ ॥ हरीतक्या समायुक्तं तिलकं शत्रुमोहनम् । कृततिलकं भटं दृष्ट्वा पश्येत् स्वं श्वावृतं रिपुः ॥४८॥ शृंगगौर्भ(द्य?द्य)माणस्तु पतत्येव ततो भुवि । छाया यस्य जले याति संग्राद्यः कासमर्दकः ॥ ४६ ॥ अनेन तिलकेनाभिः कूपवापीं प्रपश्यति । 'ख' क पाठ