भारतकोश
संग्रह पर लौटें

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

विंशः पटलः । १६६ उच्छिष्टेनैव कर्तव्यो जपोऽस्याः सिद्धिमिच्छता .। अपरं च प्रवक्ष्यामि शृणु देवि फलप्रदम् ॥ १६ ॥ होमसंतर्पणं चैव सर्वकार्यार्थसिद्धये । स्थण्डिले मण्डलं कृत्वा चतुरस्रं सबिन्दुकम् ॥ २० ॥ पूजयेन्मण्डलं देव्या मूलमन्त्रेण साधकः । तत्र देवीं समावाह्य वह्निरूपव्यवस्थिताम् ॥ २१ ॥ संपूज्यैव चरेद्धोमं दधिसिद्धार्थतण्डुलैः । सहस्रैकविधानेन राजा भवति वश्यगः ॥ २२ ॥ मार्जारस्य तु मांसेन देव्यै होमं समाचरन् । स प्राप्नोति परां विद्यां शश्वच्छास्त्रवशीकृताम् ॥ २३ ॥ कुर्याच्छागस्य मांसेन होमं मधुघृतान्वितम् । सहस्रैकप्रमाणे न भवन्ति फलसिद्धयः ॥ २४ ॥ विद्याकामश्चरेद् होमं मधुना सह सर्पिषा । अयु[कै?तै]कप्रमाणे न सिद्धिरिष्टा भवेद् ध्रुवम् ॥२५॥ सद्यो मार्जारमांसेन घृतेन मधुना सह । चाण्डालकेशयुक्तेन भवेदाकर्षणं महत् ॥ २६ ॥ शशकस्य तु मांसेन मधुनालोडितेन च । कृत्वा होममवाप्नोति विद्यावसुवरश्रियः ॥ २७ ॥ धत्तूरकाष्ठयोगेन चितावह्नौ तु मन्त्रवित् । कोकिलाकाकपक्षाँश्च होमैः शत्रून् विनाशयेत् ॥ २८ ॥ उच्चाटनाय शत्रूणां होमं कुर्याच्च मन्त्रवित् । १ 'धूस्तू' क पाठ. ।

२०० गन्धर्वतन्त्रे । पूर्वोक्तेन विधानेन चिताकाष्ठहुताशने ॥ २९ ॥ उलूककाकपक्षाभ्यां कृत्वा होमं निरन्तरम् । द्वेषयेद् द्विष्टमन्योन्यकलहाकुलसंकुलम् ॥ ३० ॥ उलुकपक्षहोमेन गर्भपातो भवेत् स्त्रियाः । बिल्वपत्रैः सुमध्वक्तैर्मासमेकं निरन्तम् ॥ ३१ ॥ सहस्रैकप्रमाणे कृत्वा होमं समाहितः । अपि वन्ध्या लभेत् पुत्रं चिरजीविनमुत्तमम् ॥ ३२ ॥ बन्धूककुसुमं हुत्वा रक्तं मधुसितान्वितम् । दुर्भगा चैव या नारी सुभगा सा न संशयः ॥ ३३ ॥ [इडा?हठा]दागत्य कामार्ता बलादालिङ्गयन्ति तम् । इयं देवी महेशानी वामाचार२फलप्रदा ॥ ३४ ॥ दक्षिणाचारयोगेन न भवेत् फलदायिनी । भोजनान्तरं चास्या बलिं दद्याद् दिने दिने ॥ ३५ ॥ उच्छिष्टेन जपेन्मन्त्रं शतमष्टोत्तरं शिवे । उट३जे वा श्मशाने वा शून्यागारे चतु(ष्टयं?ष्पथे) ॥ ३६ ॥ बलिप्रदानतो देवी प्रत्यक्षा भवति ध्रुवम् । अनयैवाभिसंमन्त्र्य ओषध्यः सर्वसिद्धिदाः ॥ ३७ ॥ चन्द्री चक्री तथा वज्री त्रिशूला मुद्गरी तथा । देहस्था समरे पुंसां सर्वायुधवि[धा?दा]रिणी ॥ ३८ ॥ गृहीतं पुष्यनक्षत्रे अपामार्गस्य मूलकम् । लेपमात्रेण धीराणां सर्वायुधनिवारणम् ॥ ३९ ॥ १ 'स' क, पाठ । २ 'रा' क पाठ । ३ 'उज्जटे' क पाठ ।

विंशः पटलः । २०१ अर्जुनं च नारजं च चम्पकोन्मत्तकः कुहूः । लेपमात्राज्जयी युद्धे वज्रदेहो भवेन्नरः ॥ ४० ॥ खर्जूरी मुखमध्यस्था कटीबद्धा च केतकी । भुजदण्डस्थितस्तालः सर्वायुधनिवारणः ॥ ४१ ॥ दक्षबाहुस्थितश्चार्को वामे तु हृदयेऽथवा । रुद्रः पुष्पगतो युद्धे वज्रदेहो भवेन्नरः ॥ ४२ ॥ त्रिलोहवेष्टितं कृत्वा रसं वज्राभसंयुतम् । रणस्थस्य करस्थं च सर्वायुधनिवारणम् ॥ ४३ ॥ गिरिकर्णी शमीं दूर्वां गुञ्जां श्वेतां समाहरेत् । चन्दनेनान्विताः सर्वास्तिलकाद्विजयी रणे ॥ ४४ ॥ अधःपुष्पा शिखी चैव श्वेता च गिरिकर्णिका । गोरोचनासमायुक्ता तिलकं शत्रुमोहनम् ॥ ४५ ॥ कनकार्को[१] वह्निरिन्द्रद्रुः पञ्चमस्तथा । करोति तिलकं यस्तु पश्येतं पञ्चधा रिपुः ॥ ४६ ॥ कृष्णसर्पकरालं तु रसं मृत्तिकयान्वितम् । सितगुञ्जां वपेत् तत्र तस्या मूलं समाहरेत् ॥ ४७ ॥ हरीतक्या समायुक्तं तिलकं शत्रुमोहनम् । कृततिलकं भटं दृष्ट्वा पश्येत् स्वं श्वावृतं रिपुः ॥४८॥ शृंगगौर्भ(द्य?द्य)माणस्तु पतत्येव ततो भुवि । छाया यस्य जले याति संग्राद्यः कासमर्दकः ॥ ४६ ॥ अनेन तिलकेनाभिः कूपवापीं प्रपश्यति । 'ख' क पाठ

२०२ गन्धर्वतन्त्रे । ब्रह्मदण्डी च कौमारी ईश्वरी वैष्णवी तथा ॥ ५० ॥ वाराही वज्रिणी चान्द्री महालक्ष्मीस्तथैव च । एताश्चौषधयो दिव्यास्तथैता मातरः स्मृताः ॥ ५१ ॥ कृतताडी करे बद्धो सर्वशत्रुनिवारिणी । बहुना तु किमुक्तेन संक्षेपात् कथ्यतेऽधुना ॥ ५२ ॥ षट्कर्मशालिनी विद्या प्रयोगात् सर्वसिद्धिदा । मूलविद्याप्रयोगेन सिद्धिहानिर्भवेद् ध्रुवम् ॥ ५३ ॥ प्रयोगेच्छा यदा देवि तदैनां च प्रयोजयेत् । अनयाखिलकर्माणि साधयेत् साधकोत्तमः ॥ ५४ ॥ प्रसङ्गात् कथितं देवि गोपनीयं प्रयत्नतः । — ☸ — इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे शोषिकाविद्याप्रयोगक्रमनिरूपणं विंशः पटलः ॥ २० ॥ १ 'दूर्वा' ख. पाठ. ।

एकविंशः पटलः ——————❀—————— ईश्वर उवाच ततो वै मूलमन्त्रेण महेशानीं धिया स्मरन् । अप्राश्य चैव निर्माल्यं पादोदकपुरःसरम् ॥ १ ॥ शिरसा धारयेद्यस्तु भूमौ बिन्दूंस्तु पातयेत् । ब्रह्महा स तु विज्ञेयो यद्भक्त्या चात्मसा(द्व?त्कृ)तम् ॥ २ । शिवं गन्धं समादाय शंखतोये विलोकयेत् । सव्यहस्ते समादाय दक्षहस्तेन मन्त्रवित् ॥ ३ ॥ सप्तधा मन्त्रितं कृत्वा सर्वतीर्थमयं स्मरेत् । प्रोक्षयेत् तेन चात्मानं मूलदेवीं हृदि स्मरन् ॥ ४ ॥ पादोदकं पिवेद् भक्त्या शेषं मूर्धनि योजयेत् । सर्वाङ्गलेपनं कृत्वा यन्त्रलेपादिकं च यत् ॥ ५ ॥ निर्मञ्छेत् कामबीजेन मूलमन्त्रेण चात्मनः । अनामिकाग्रपर्वेण ललाटमपि संस्पृशेत् ॥ ६ ॥ निर्माल्यं शिरसा धार्य सर्वाङ्गेष्वनुलेपनम् । मन्त्रेण भास्करायार्घ्यमच्छिद्रार्थं निवेदयेत् ॥ ७ ॥ जानुभ्यामवनीं गत्वा पठित्वा मन्त्रमीरितम् । एकाग्रमनसा वाग्भिरच्छिद्रमवधारयेत् ॥ ८ ॥ यज्ञाच्छिद्रं तपश्छिद्रं यच्छिद्रं पूजने मम । सर्वं तदच्छिद्रमस्तु मार्तण्डस्य प्रसादतः ॥६ ॥ ———————————————————————— १ 'मौ वा बिन्दु पातयेत्' ख पाठ. ।

२०४ गन्धर्वतन्त्रे । मार्त्तण्डभैरवं पश्चात् प्रणम्य च विलोकयेत् । आदावन्ते च देवस्य नमस्कारविलोकने ॥ १० ॥ कुर्याच्च सर्वदा भक्त्या धर्मकामार्थसिद्धये । यज्ञाधिकारिता चादौ पश्चात् संपूर्णता विधेः ॥ ११ ॥ विधेर्विपर्ययात् तस्य कृतं हरन्ति राक्षसाः । तमुद्यन्तं विलोक्यैव यजेदस्तमितं ततः ॥ १२ ॥ उभयोरेकतां मत्वा तमुद्यन्तं पुनस्ततः । स एवादौ स चान्तस्थः सोऽनन्तो ह्यन्त एव सः ॥१३ आद्यमन्तं विदित्वैव सर्वकर्मफलं लभेत् । ततस्तु पुष्पनैवेद्यतोयपात्रादिकं च यत् ॥ १४ ॥ मायाबीजेन तत्सर्वं पुनरेव विलोकयेत् । हस्तेन चक्षुषा वापि यत्र यश्च कृतः पुरा ॥ १५ ॥ पात्रन्यासस्तस्य तस्य विसृष्टिरमुना भवेत् । तोयैरभ्युक्ष्य तत्स्थानं मार्जयेत् तदनन्तरम् ॥ १६ ॥ उदके तरुमूले वा निर्माल्यं तत्र संत्यजेत् । नैवेद्यादीनि सर्वाणि गुरवे गुरुशक्तये ॥ १७ ॥¹ समर्प्योपायनं भक्त्या शिवायै² गुरुरूपिणे । जानुभ्यामवनीं गत्वा प्रणमेद् दण्डवत् प्रिये³ ॥ १८ ॥ आदाय गुरुणा दत्तं स्वीकुर्यात्तु विधानतः । तयोरभावतो दद्यात् कुमारीभ्यो यथाविधि ॥ १६ ॥ अमृतं भक्षयेद् देवो भुक्त्वा देवत्वमालभेत् । १ 'मा' क पाठ. । २ 'शिवत्रा' क पाठ । ३ 'मेव च' क पाठः ।

एकविंशः पटलः । २०५ अमृतं तद्विजानीयादुत्सृष्टं दैवतेनं यत् ॥ २०॥ परदैवतनैर्माल्यं विनान्यत् स्वीकृतं नहि । अनिवेद्य शिवायैव यत्किंचित् स्वीकृतं प्रिये ॥ २१ ॥ (स?तत्)च पशुर्मृतं भुङ्क्ते लोकद्वययुतं प्रिये । पुरा सर्वे मनुष्याद्या भुक्त्वा मृतमि(ये?दं) नतु ॥ २२ ॥ देवत्वं(नोभवेत्?चालभन् ) यस्मात्तन्नैव भक्षयेत् क्वचित्२ । दिव्यभावविशुद्धात्मा भक्षयेदमृतं यदि ॥ २३ ॥ नित्यमभ्यासयोगेन देवगामी भवेन्नरः । अमृतोपस्तरं कृत्वा पिधानमपि तेन वै ॥ २४ ॥ बलिशेषं समादाय जुहुयाच्चैव पूर्ववत् । हुत्वामृतं ततो भक्त्या प्राशयेद् भावशुद्धितः ॥ २५ ॥ भुक्त्वामृतं तदा देवि हस्तं मूर्धान विन्यसेत् । त्रितत्त्वेन त्रिधाचम्य षडङ्गानि प्रविन्यसेत् ॥ २६ ॥ शिवो दाता च [भ?भो]क्ता च शिवः सर्वमिदं जगत् । शिवो जयति सर्वत्र यः शिवः सोऽहमेव च ॥ २७ ॥ शक्तीरलंकृतैवक्त्राः सुवेशाः सुमनोहराः । पश्येत्तु देवतादृष्ट्या ता एव देवता यतः ॥ २८ ॥ तथैव ब्राह्मणान् पश्येद्भूदेवान् शुद्धमानसान् । भक्त्या नत्वा प्रमुदितस्ततः स्तानवलोकयेत् ॥ २६ ॥ अनेन विधिना देवि संपूज्य परमेश्वरीम् । तत्कृपालब्धविज्ञानपूर्णोऽहमिव भूतले३ ॥ ३० ॥ १ 'त तु' क पाठ । २ 'तु काचित्क्वचित्' क पाठ । ३ 'लब्धिराहित साहित- स्याहमेव वा' क पाठ ।

२०६ गन्धर्वतन्त्रे । भावनांवशसंपन्नो विहरेत् तु तदिच्छया ॥ ३० ॥ देव्युवाच क[स्य?थं] वा क्रियते पूजा [न?नु]गृह्येत निवेदितौ । कथं वा प्रत्ययं चेतस्तदुपायं वद प्रभो ॥ ३१ ॥ ईश्वर उवाच साधु पृष्टं त्वया भद्रे स्मरणान्मुक्तिदायकम् । शिवंरूपं परं ब्रह्म अनुत्तरपदं महत् ॥ ३२ ॥ तदन्तःस्थं परं ब्रह्म ज्योतीरूपं सनातनम् । स्वयं प्रकाशते ह्यात्मा मेघापायेऽंशुमानिव ॥ ३३ ॥ अभ्यसेद् बहुशस्तत्र श्रुतिदर्शितवर्त्मना । वर्णरूपं तु शब्दस्य तन्मय्यस्तत्क्रियास्तथा ॥ ३४ ॥ जप्त्वा कृत्वा भवेत् सिद्धिर्भोगमोक्षमयी तर्तः । यावन्मनो लयं याति तस्मिन् स्वात्मनि चिन्मये ॥३५॥ तावदिष्टमनुं मन्त्री जपहोमैः समाचरेत् । अतः परं न किंचित् तु कृत्यम(सि?स्ति)तदात्मनः ॥३६॥ विदिते परमे तत्त्वे समस्तैर्नियमैरलम् । तालवृन्तेन किं कार्यं लब्धे मलयमारुते ॥ १ ३७ ॥ अवश्यं च भावि फलं तदासौ तत्करोति यः । आस्तिकः स तु विज्ञेयः क्रमान्मोक्षे प्रतिष्ठितः ॥३८॥ ४ प्राप्य न्यसेत्तदा तस्मिन् कृत्वा तद्रहितं न्यसेत् । उभयात्मकं तु विन्यस्य स संन्यासी मुनिर्मतः ॥३६॥ १ 'तात्' ख पाठ । २ 'श' क पाठ । ३ 'द्धेभो' क. पाठ । ४ 'मयास्तु त' क पाठ ।

एकविंशः पटलः । २०७ यन्त्रं शरीरमत्रोक्तं विदित्वा कमलेक्षणे । कृत्वा चाहंमतिं तन्त्रे यजेद्भक्त्या समाहितः ॥ ४० ॥ यद्रूपं परमेशान्या नि[ष्पा?ष्क]लं सक[लार्ण?लं च]वा । आत्म(१)भेदेन संपूज्य आत्मानं प्रियमिश्वरीम् ॥४१॥ तदानन्दमयं धाम याति पश्चान्न संशयः । एवं सा पञ्चमी प्रोक्ता पञ्चधा प्रथितविग्रहा ॥ ४२ ॥ पञ्चतत्त्वात्मके देहे प्रत्यक्षीक्रियते हि तैः । नान्यत्र वै भवेद् व्यक्ता विनात्मनि विचिन्तनम् ॥४३॥ अनुमानं महेशान्या आत्मन्येव नच क्वचित् । अनुमीय परं चैवं सर्वमात्मवदाचरेत् ॥ ४४ ॥ वस्तूनां गन्धमात्रेण सौरूप्यदर्शनात् तथा । तुष्यन्ति देवताः श्रेष्ठाः स्तुत्या लभ्याश्च पार्वति ॥४५॥ भूतप्रेतपिशाचाश्च यक्षराक्षसपन्नगाः । उपभोगेन तुष्यन्ति मनुष्याद्याश्च जन्तवः ॥ ४६ ॥ गुरोः शरीरमास्थाय कुमारीणां विशेषतः । ब्राह्मणानां गवां चैव भुञ्जते देवताः पराः ॥ ४७ ॥ तस्मात्तांश्च प्रयत्नेन भोजयेत् तोषयेत् सदा । तुष्टेष्वेषु महादेवी परितुष्टा जगन्मयी ॥ ४८ ॥ ब्राह्मणानां शरीरस्था भुञ्जते पितरस्तथा । अनङ्गव्यवधानं स्यादङ्गहीनं तु यद्भवेत् ॥ ४६ ॥ साङ्गं भवति तत् सर्वं मिष्टान्नौर्विप्रभोजनात् । इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे पूजासंपूरणाद्युपायविधिनिरूपणं एकविंशः पटलः ॥ २१ ॥

१ 'कृत्वावहमर तन्त्र' क पाठ । २ 'भया च ' क. पाठ ।

द्वाविंशः पटलः —❀— ईश्वर उवाच हृदिस्थं परमात्मानं विहायान्यत् समीहते । अहो मूढो वरारोहे बहिर्यन्मृग्यतेऽन्धवत् ॥१॥ विज्ञाय हृदयान्तःस्थं परं(य?प्र)कृतिगोचरम् । तन्निष्ठकर्मणा चैनमात्मन्येवं प्रतीयते* ॥ २ ॥ तत्प्रतीतौ भवेत् सिद्धो नान्यथा खलु पार्वति । अहं विष्णुः स्वयंभूश्च स्वायंभुवा इमे वयम् ॥ ३ ॥ तदनुभूय देहेऽस्मिंस्तद्देवं समुपास्महे । तदन्तःस्थं समाहूय तद्देवं तु यजामहे ॥ ४ ॥ उद्वास्य च तदात्मानं स्थापयित्वा निजे हृदि । निवेदितं तु तत्प्रीत्यै तस्मिन्नेव निवेदयेत् ॥ ५ ॥ विनामृतं न चान्यत् तु काङ्क्षन्ते देवतागणाः । अमृतेनैव तत्पूजा अमृतं तु निवेदयेत् ॥ ६ ॥ अमृतत्वं लभेद्वीरः स्वीकृत्यात्मनिवेदितम् । इति ते कथितं देवि शेषिका[मत्?मृत]मुत्तमम् ॥७॥ स्थूलसूक्ष्मविभेदेन ज्ञायते कृपया गुरोः । नित्यं नैमित्तिकं[कर्म?काम्यं]चेति तेषां पृथक् पृथक् ॥८॥ त्रिविधं त्रैपुरं कर्म क्रमतस्तत् समाचरेत् । यदुक्तं तामसं त्यक्त्वा तत् सर्वं यत्नतश्चरेत् ॥६॥

  • दैवादिकस्य इङ्गतौ इत्यस्य धातोः कर्तरि अयं प्रयोग ।

द्वांविंशः पटलः । २०६ दैनन्दिनमतो नित्यं पातकमविधानतः । मासिकं तिथिकृत्यं च वार्षिकं फलदायकम् ॥ १०॥ लङ्घनान्निरयो यस्य नित्यं श्रद्धावि[धान?घात]तः । नैमित्तिकं विजानीयाच्छ्रद्धया तत्समाचरेत् ॥ ११ ॥ फलमात्रश्रुतिर्यस्य श्रुतिस्मृतिप्रचोदितौ । काम्यं तन्तु विजानीयात् पूजितं तत्र गोचरे ॥ १२ ॥ विदध्यात् तत्प्रयत्नेन यत् पुनर्लोकपूजितम् । धर्ममपि त्यजेत् साधु यत् पुनर्लोकगर्हितम् ॥ १३ ॥ नित्यं सात्त्विकमेवात्र नैमित्तिकं तु राजसम् । तामसं काम्यमेवात्र कुर्यात् फलवितृष्णया ॥ १४ ॥ तृष्णां तां दूरतस्त्यक्त्वा मनः पूर्णं विचिन्तयेत् । पूर्णे मन[सि?स्थे]तृष्णे च पूर्णं सर्वमिदं जगत् ॥१५॥ उपानद्गूढपादस्य ननु चर्मावृत्तैव भूः । फलविरहितं काम्यं नित्यं नैमित्तिकं तथा ॥ १६ ॥ क्रियते त्रिपुराप्रीत्यै कृत्वा त[स्मै?स्यै]निवेदनम् । सात्त्विकं तद्विजानीयाद् भोगमोक्षफलप्रदम् ॥ १७ ॥ यस्य यद्विहितं कर्म त्रिविधं तत्र गोचरे । श्रुतिस्मृत्युदितं चापि मनसापि न हारयेत् ॥ १८ ॥ कर्मलोपादधोयोनौ जायते साधकाधमः । शिवशक्तिमयं विश्वं विदित्वा सद्गुरोः प्रिये ॥ १९ ॥ स्थूलसूक्ष्मविभेदेन पितृमातृस्वरूपतः । १ 'क यद्वि' क पाठ । २ 'तम्' ख पाठ , ३ 'यै' क पाठ ।

२१० गन्धर्वतन्त्रे । कर्मभिस्तोषयेत् तौ तु तद्भावमाश्रितः सदा ॥ २० ॥ उभयात्मा भवेत् सिद्धयै नैकात्मा ज्ञानवर्जितः । ज्ञानचक्षुस्तयोरैक्यं विदित्वा श्रीगुरोः क्रमात् ॥ २१ ॥ अनुभूय तदानन्दं तदात्मा तत्र संविशेत् । मातुः पितुर्यथा बालो व्युत्पत्तिं लभते क्रमात् ॥ २२ ॥ तयोः समत्वसंधानाद् व्युत्पन्नो ज्ञानमालभेत् । देवताः शक्तिरित्याहुः पितरः शिव एव च ॥ २३ ॥ एतावुभौ तांस्तु सर्वान् सुहृदः पूर्वसूचितान् । बलिभिस्तर्पयेत् तांस्तु सुहृद्भिश्च हतोऽन्यथा ॥ २४ ॥ तेषां बलिं पुरस्कृत्य तावुभौ परितोषयेत् पश्चात् तेभ्यो निवेद्यैव सुहृद्भिर्विहरेन्मुदा ॥ २५ ॥ स्वाहान्तेन च देवेभ्यो मनुष्ये हन्तकारतः । स्वधान्तेन पितृभ्यस्तु तेभ्यो लभ्यन्तगेन[?]¹तु ॥ २६ ॥ निराशाः पितरस्तस्य यास्यन्ति खलु पार्वति । सुहृदो ज्ञातयश्चापि वाङ्मात्रेणापि नार्चिताः ॥ २७ ॥ सुहृदो वर्ष्म खादन्ति ज्ञातयः कर्म संचितम् । ऐहिकं स्वपिता हन्ति स्वमाता पारलौकिकम् ॥ २८ ॥ लोकद्वयविहीनस्तु नैव सिद्धिं प्रविन्दते² । अयष्ट्वा पितरं यज्ञे यजेन्मातरमम्बिकाम् ॥ २६ ॥ विधिशतैरपि यज्ञं नानुगृह्णाति शाश्वती । आदावन्ते पितुस्तस्मात् कुर्यात् तर्पणमादरात् ॥ ३० ॥


१ ‘ ष्ठेभ्योऽन्त एव च ’ क पाठ. । २ ‘ प्रयच्छति ’ क पाठ ।

द्वांविंशः पटलः । २११ अदत्तं नोपतिष्ठेत दद्यात् तस्मादतः परम् । गोभूहिरण्यरत्नादि भक्ष्यभोज्यानि यानि च ॥ ३१ ॥ वासिनीभ्यो द्विजेभ्यश्च दीनान्धकृपणाय च । त्यक्त्वा चावश्यकं कर्म लौकिकं भावतत्परः ॥ ३२ ॥ योगक्षेमे हितं यत्तु कुर्यात् तदनुशासनात् । समर्थो जीवयेत् स्नेहात् स्वकीयाननुजीविनः ॥ ३३ ॥ दुष्टेभ्यो दुष्टचित्तेभ्यो हिंस्रे साहसिकात् तथा । बलिभ्यो धनमत्तेभ्यः कायस्थेभ्यो विशेषतः ॥ ३४ ॥ रक्षयेत् पालयेत् साधुः पुत्रानिव (नि?पि)तौरसान् । लोकांश्च त्रिविधान्मत्वा लालयेत् पालयेत् सदा ॥ ३५॥ वध्यान् वध्यात्तथा दण्ड्यान् दण्डयेच्छास्त्रदर्शनात् । अवध्यस्य वधे यावांस्तथादण्ड्यस्यै दण्डने ॥ ३६ ॥ दण्ड्यस्यादण्डने पापस्तावान् वध्यस्य रक्षणे । इति विज्ञाय योगात्मा योगक्षेमं समाचरेत् ॥ ३७ ॥ विभूतीरात्मनः पश्येत् तत्प्राप्त्या तन्निवेदयेत् । विभूतीरात्मनो यस्तु महादेव्यै प्रदर्शयेत् ॥ ३८ ॥ ताभिरेव युतो भूयादणिमादिविभूतिभिः । मुहूर्त्तत्रयमात्रं तु कुर्यात् तनुविचिन्त(येत?नम् ) ॥ ३६॥ चिन्तयेत् परं ब्रह्म मध्याह्ने समुपगते । मुहूर्त्तत्रयमात्रं तु निद्रया समुपासयेत् ॥ ४० ॥ ततो बुद्धौ यथाकाले तामेव समुपासयेत् । १ 'र्थे' ख पाठ. । २ 'हिंस्रेभ्य' क पाठ । ३ 'दण्डस्तस्य तु' क. पाठ । ४ 'द्वया' क पाठ ।

२१२ गन्धर्वतन्त्रे । ललितानि च नृत्यानि गीतानि मधुराणि च ॥ ४१ ॥ दर्शयेच्छावयेद् देव्यै भावात्मा तद्विलोकयेत् । नृत्येषु गीतानियता देव्यः स्रक्चन्दनार्चिताः ॥ ४२ ॥ भूषिताश्चारुभूषाभिर्वि[दुवे?हरे]त् ताभिरेव च । ततो मध्ये स्वयं देवः कामेश्वर इवापरः ॥ ४३ ॥ कामेश्वरीयुतो भूत्वा यजेत् कामेश्वरीं ततः । ब्रह्मचिन्तापरामोदमुदितो राज्यचिन्तकः ॥ ४४ ॥ मुहूर्तत्रयमात्रं तु निद्रया समुपासयेत् । दिवा दद्यात् पितृभ्यस्तु मातृभ्यो निशि तत्परः ॥ ४५ ॥ माता रात्रिः समाख्याता पिता दिवस एव च । उभयोरेकतां मत्वा सिद्धो भवति नान्यथा ॥ ४६ ॥ सोमः शक्तिः शिवः सूर्यो निशा शक्तिर्दिवा शिवः । यदा स भगवान् देवो महात्रिपुरभैरवः ॥ ४७ ॥ परापरायणोऽनन्तः परमानन्दनिर्भरः । परापररहस्याख्यां योगिनीं ब्रह्मरूपिणीम् ॥ ४८ ॥ शिवानन्दानन्दमयीं महात्रिपुरसुन्दरीम् । आकृष्योर्ध्वं यदा तिष्ठेत् तदहः परिकी(र्त?र्त्य)ते । ४६॥ शक्तिभैरवसंयोगादानन्दानन्दनिर्भ(या?रा)त् । भैरवानन्द[नम्रा?मग्ना]न्तर्लीला सा परमा कला ॥५०॥ मध्याह्नं तद्विजानीयान्मुहूर्तत्रयलक्षितम् । तौ तदा समभागेन तिष्ठेतां शक्तिभैरवौ ॥ ५१ ॥ पूर्वापरौ तदा ज्ञेयावेतद्विगुणलक्षितौ ।

द्वाविंशः पटलः । २१३ परस्पराद्वैतेप्सन्तौ प्राप्ताद्वैतौ तु मध्यतः ॥ ५२॥ अभिजिन्न नाम जानीयात् तत्कालं सुरवन्दिते । तत्तत्तेजोभिराकीर्णं तयोरैक्यं तदा भवेत् ॥ ५३ ॥ सूर्यकोटिप्रतीकाशं चन्द्रकोट्ययुतप्रभम् । तदा दशभुजो देवः पञ्चवक्त्रस्त्रिलोचनः ॥ ५४ ॥ शुक्लाम्बरधरः शुक्लः शुक्लमाल्यानुलेपनः । तस्योत्सङ्गे महादेवी चन्द्रकोट्ययुतप्रभा ॥ ५५ ॥ प्रहसन्ती विशालाक्षी परमानन्दनन्दिता । तद्रूपतामभीप्सन्ती तद्रूपेक्षणलालसा ॥ ५६ ॥ शुक्लवेशं विना देवि नान्यत् तत्प्रीतये तदा । तत्रान्यद्रूपमापन्ने साधके दैवचोदिते ॥ ५७ ॥ क्रुद्धा भगवती तस्य शापं दद्यात् सुदारुणम् । सर्वैः शुक्लमयैर्द्रव्यैः शुक्लवेशैर्यजेत् तदा ॥ ५८ ॥ दिवि देवी भवेद् दृश्या शरच्चन्द्रनिभानना । तत्र पूजा सदा कार्या विशेषेण वरानने ॥ ५९ ॥ पेयं चो[षं?ष्यं] तथा लेह्यं चर्व्यं भक्ष्यं च तर्पणैः । निवेदयेत् सदा भक्त्या यत्पुनः सुमनोहरम् ॥ ६० ॥ उपचारैर्यजेत् प्रातर्मध्ये रस्यानपानकैः । गीतनृत्यादिना साकं रात्रौ यागपुरःसरम् ॥ ६१ ॥ प्राङ्मुखो हि यजेत् प्रातर्मध्याह्ने दक्षिणामुखः । सायं प्रत्यङ्मुखो भूत्वा रा(हु?त्रा)वुदङ्मुखः सदा ॥ ६२॥


पाद-टिप्पणी (Footnotes): १ ‘र्णा’ क पाठ । २ ‘श्या’ क पाठ । ३ ‘निर्भोपमा’ क पाठ । ४ ‘च’ क पाठ । ५ ‘सा’ क पाठ ।

२१४ गन्धर्वतन्त्रे । तत्र शांभवभेदेन जपेद्विद्यामनन्यधीः ॥ ६२ ॥ वर्जयेच्छक्तिभेदं तु यदीच्छेदात्मनो हितम् । अरुणकिरणाच्छन्नं यत्पूर्वं भैरवोदयात् ॥ ६३ ॥ अर्धनारीश्वरं ज्ञेयं तत्र पूजा(च?क्रि)याः समाः । उपचारैस्तदा कुर्यात् सपर्यां विधिना तथा ॥ ६४ ॥ वरिवस्यां गृही, समभागेन संस्थितौ यदि । आनन्दपारमिच्छन्तौ सदानन्दविवर्धिनौ ॥ ६५ ॥ पूर्वापरौ महापुण्यौ यदा तौ समरूपिणौ । चिन्तयेत् सततं भक्त्या तौ तत्कालविधानतः ॥ ६६ ॥ शक्तिशांभवभेदेन जपेद्विद्यामनन्यधीः । शुक्लाम्बरो भवेत् तत्र शुक्लमाल्यानुलेपनः ॥ ६७ ॥ रक्ताम्बरधराः पश्येद् रक्तमाल्यानुलेपनाः । दिशश्च विदिशश्चैव रक्ता दृश्या मनीषिभिः । लाक्षारुणमयं विश्वं स्वयं च तत्र तद्भवेत् ॥ ६८ ॥ पद्मरागप्रतीकाशैः² कोटिसूर्यसमद्युतिः । नाथः कामेश्वरस्तत्र ह्येकवक्त्रश्चतुर्भुजः ॥ ६६ ॥ रक्तपद्मनिभां³ देवी बालार्ककिरणारुणाँ । इच्छंस्तद्रूपतां प्राप्तुं तद्रूपा तैं⁴ विशन्त्यतः⁵ ॥ ७० ॥ अनुभूय तदाबन्धं भैरवानन्दसंकुलम् । विपरीतमभीप्सन्ती तदाक्रमणलालसा ॥ ७१ ॥ तदा स[रो?मो]भवेत् कालः सायंसंध्येति गीयते । 'कार्या सपर्या' ख पाठ । २ 'सुरराजममन्त्रिभ' क पाठ । ३ 'भा देवी' क. पाठः । ४ 'शाम्' क पाठ । ५ 'पा ता' क. पाठ. ।

द्वाविंशः पटलः । २१५ शोणितैश्च समाक्रान्तां प्रतीचीमवलोकयन् ॥ ७२ ॥ पूजयेत् साधको भक्त्या चोपचारैर्यथाविधि । यदा सा परमा शक्तिः स्वेच्छया विश्वरूपिणी ॥ ७३ ॥ अधः कृत्वा तु पुरुषं (वर्णं?रन्तु)मिच्छा भवेद्यदा । तदाक्रम्य स्वयं देवी भैरवोपरिसंस्थिता ॥ ७४ ॥ सहजानन्दसन्दोहैर्निजानन्दप्रवर्धिनी । तदा नैजं भवेद्विश्वं तत्र पूजा महोदया ॥ ७५ ॥ तत्तद्दृ(ष्टृ?ष्टि)मयैर्दीपै(र्भा?र्भो)गैश्च विविधैः सदा । लाक्षारुणमयं सर्वं स्वयं तावत्तथा भवेत् ॥ ७६ ॥ शक्तिभेदात्मिकां विद्यां हंसबीजपुटीकृताम् । प्रणवान्तरितां शुद्धां नादलीलां तदात्मिकाम् ॥ ७७ ॥ मूलाद्ब्रह्मरन्ध्रान्तां विषतन्तुतनीयसीम् । अर्धे^१राम्बुरुहहंसीं सुस्थिरामिव चञ्चलाम् ॥ ७८ ॥ सं(श्र?स्र)वन्तीं सुधाधारां शुद्धलाक्षारसोपमाम् । आवाह्य पूजयित्वा खं कमलाङ्कपुरान्तरे ॥ ७९ ॥ विनिर्जि(त?त्ये)न्द्रियमनो जपेदानन्दरूपिणीम् । मध्यं मुखं विजानीयात् पूर्वापरौ स्तनद्व[यौ?यम]् ।८०॥ अर्धमात्रां^३ परं रूपं निशामध्यं तयोरधः । अनन्तफलदं पुण्यं भोगमोक्षफलप्रदम् ॥ ८१ ॥ संध्याचतुष्टयं भद्रे कथितं भुवि दुर्लभम् । चतुर्भुजं महादेव्या ज्ञेयं कालचतुष्टयम् ॥ ८२ ॥ आत्मा सा परमेशानी परमेश्वर एव च । १ 'हराम्बुव' क पाठ । २ 'सुख' क पाठ । ३ 'त्रा' क पाठ ।

२१६ गन्धर्वतन्त्रे । यदङ्गं तु विहीयेत तदङ्गच्छेदकं तयोः ॥ ८३ ॥ तत्र यत् क्रियते कर्म मङ्गल्यं मङ्गलं परम् । ध्यानं पूजा जपञ्चैव होमो न्यासश्च तर्पणम् ॥ ८४ ॥ अत्र वै पूजिता देवी पूरयेत् तन्मनोरथान् । अत्र यत् पुण्यमनघे भक्तिश्रद्धासमन्विते ॥ ८५ ॥ विधिना विहिते यज्ञे परमानन्दसंकुले । वक्त्रकोटिसहस्रैस्तु ह्यनन्तो वक्तुमक्षमः ॥ ८६ ॥ अमृताञ्जलिरेप्यत्र [सुधाब्धितुलनोपमैः] । अत्र यो नार्चयेद् देवीं जलेनापीह पार्वति ॥ ८७ ॥ न नमेद्वा गुरून् भक्त्या ब्रह्महा स निगद्यते । अत्र निद्रापरा यान्ति महाकालपुरं प्रिये ॥ ८८ ॥ दम्भं मोहं तथा निद्रामालस्यं बाह्यचिन्तनम् । कामं क्रोधं तथा लोभं हिंसां मात्सर्यमेव च ॥ ८९ ॥ वर्जयित्वा प्रयत्नेन विद्यामेव समभ्यसेत् । दुर्वासनां परित्यज्य कोटिजन्मसमद्भवैः ॥ ६० ॥ एकेन जन्मना मुक्तिं याति भोगी न संशयः । शक्तेर्मुखं विना नान्यत् पश्येद्वै कर्हिचित्तदा ॥ ६१ ॥ पशवो दूरतस्त्याज्याः पुरुषाश्चान्यपूजकाः । अत्रान्यचिन्तनाद्यान्ति म्लेच्छयोनिं पतन्त्यधः ॥ ६२ ॥ यान्ति चोर्ध्वं परं धाम चिन्तनाद् ब्रह्म शाश्वतम् । नास्ति पुरस्क्रिया तेषां कायक्लेशपुरस्सरा ॥ ६३ ॥ १ ' मध्य ' ख पाठ । २ ' सुधासागरतुलनाम् ' क पाठ । ३ 'वान्' ख पाठ. ।

नित्यं¹ पुरस्क्रियायुक्तास्त एव परिकीर्तिताः । तं तु देवा नमस्यन्ति किं पुनर्न(व?र)मर्कटाः ॥ ९४ ॥ देवीकला भवेत्तत्र सर्वलोकवशंकरी । अमर्त्या अ(र्पि?पि)तं म(न्य?र्त्य)मीहन्ते कुलवल्लभम् ॥९५॥ दृष्ट्वा युवतयः सर्वाः क्लि[न्नान्मा?द्यद्यो]न्यो मुदान्विताः । शरदिन्दुप्रभं देवं पूर्णेन्दुप्रतिमाननम् ॥ ९६ ॥ नानावैदग्ध्यचातुर्यस्निग्धपीयूषभाषिणम् । अपि चेत्तत्समा नारी तत्समः पुरुषोऽस्ति चेत् ॥६७॥ नरेन्द्रं नरशार्दूलं दृष्ट्वा क्षुब्धमना² भवेत् । पूर्वे यद् दीयते वस्तु परे तस्माच्चतुर्गुणम् ॥ ६८ ॥ नानाविधोपहाराणि महादेव्यै निवेदयेत् । राजोपचारं दत्त्वान्ते स्तुत्वा नुत्वा विसर्जयेत् ॥ ६६ ॥ कालत्रयेऽप्यशक्तश्चेच्चतुर्थे सर्वथा प्रिये । अनश्नन् पूजयेद्रात्रौ भयनिद्रापराङ्मुखः ॥ १०० ॥ प्रातर्होमं प्रकुर्वीत तथा मध्यन्दिनेऽथवा । निद्राकालं प्रवक्ष्यामि साधकानां हिताय च ॥ १०१ ॥ दिवानिशोर्महादेवि नव मुहूर्तास्ततः परम् । मुहूर्तत्रयमानं तु निद्रा देव्याः समीरिता³ ॥ १०२ ॥ अत्र निद्रापरां देवीं निद्रया समुपासयेत् । निद्राकाले जपेद्यस्तु पूजयेद्वा विमोहितः ॥ १०३ ॥ स्वापकालं विना देवि स्व(पे?प्या)दन्यत्र योऽबुधः ।


१ ' तद् ' क पाठः । २ ' ब्धं ' क पाठ. । ३ ' ता ' ख. पाठः ।

२१८ गन्धर्वतन्त्रे । चत्वारि तस्य नश्यन्ति आयुर्विद्या यशो बलम् ॥ १०४॥ तस्मात् सर्वप्रयत्नेन बोधकाले प्रबोधयेत् । दर्शनं चावलोकं च संभाषं चान्यलोकनम् ॥ १०५॥ स्वयमावेशनं चैव मन्त्राणां पञ्चलक्षणम् । विदित्वा प्रजपेन्मन्त्रं सर्वसिद्धिमुपालभेत् ॥ १०६॥ वेदसंध्यं त्रिसंध्यं वा द्विसंध्यं वाथ सुव्रते । योगात्मा योगविज्ञानी योगमुद्रासमन्वितः ॥ १०७॥ अब्दमेकं जपेद्यस्तु ब्रह्मचर्यव्रते स्थितः । सहस्रं प्रजपेदादावन्तेऽपि च सहस्रकम् ॥ १०८॥ मध्ययोः¹ प्रजपेद्विद्यां शेषं य(च्छ्?त्स)मभागतः । लक्षमेकं भवेद् देवि त्रिंशदभ्यन्तरे तथा ॥ १०६॥ अस्तब्धाकुञ्चितं कार्यं न द्रुतं न विलम्बितम् । अक्षराक्षरसंचारिध्वनिमात्रं विभावयेत् ॥ ११०॥ मयाप्येतद् व्रतस्थेन जप्यतेऽद्यापि सुन्दरि । त्रिसंध्यं जप्यते ब्रह्म तत्पदप्राप्तिसिद्धये ॥ १११॥ एवं क्रमाद्भवेत् सिद्धो भोगी भोगपरायणः । एवं मासमृतुं चैव वत्सरं युगमेव च ॥ ११२॥ गमयेत् परमेशानि यद्वा म(न्न?न्व)न्तरादिकम् । एतद्रहस्यं परमं न प्रकाश्यं कदाचन । समयाचारसंकेतं भोगमोक्षफलप्रदम् ॥ ११३॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे समयाचारसंकेतवर्णनं द्वाविंशः पटलः ॥ २२ ॥


१ 'मध्येऽपि' ख पाठः ।