भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 284, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 284

एकविंशः पटलः ——————❀—————— ईश्वर उवाच ततो वै मूलमन्त्रेण महेशानीं धिया स्मरन् । अप्राश्य चैव निर्माल्यं पादोदकपुरःसरम् ॥ १ ॥ शिरसा धारयेद्यस्तु भूमौ बिन्दूंस्तु पातयेत् । ब्रह्महा स तु विज्ञेयो यद्भक्त्या चात्मसा(द्व?त्कृ)तम् ॥ २ । शिवं गन्धं समादाय शंखतोये विलोकयेत् । सव्यहस्ते समादाय दक्षहस्तेन मन्त्रवित् ॥ ३ ॥ सप्तधा मन्त्रितं कृत्वा सर्वतीर्थमयं स्मरेत् । प्रोक्षयेत् तेन चात्मानं मूलदेवीं हृदि स्मरन् ॥ ४ ॥ पादोदकं पिवेद् भक्त्या शेषं मूर्धनि योजयेत् । सर्वाङ्गलेपनं कृत्वा यन्त्रलेपादिकं च यत् ॥ ५ ॥ निर्मञ्छेत् कामबीजेन मूलमन्त्रेण चात्मनः । अनामिकाग्रपर्वेण ललाटमपि संस्पृशेत् ॥ ६ ॥ निर्माल्यं शिरसा धार्य सर्वाङ्गेष्वनुलेपनम् । मन्त्रेण भास्करायार्घ्यमच्छिद्रार्थं निवेदयेत् ॥ ७ ॥ जानुभ्यामवनीं गत्वा पठित्वा मन्त्रमीरितम् । एकाग्रमनसा वाग्भिरच्छिद्रमवधारयेत् ॥ ८ ॥ यज्ञाच्छिद्रं तपश्छिद्रं यच्छिद्रं पूजने मम । सर्वं तदच्छिद्रमस्तु मार्तण्डस्य प्रसादतः ॥६ ॥ ———————————————————————— १ 'मौ वा बिन्दु पातयेत्' ख पाठ. ।

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक) · पृष्ठ 284, कुल 446 में से · BharatKosha