गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 285, कुल 446 में से
संदर्भ में पढ़ें२०४ गन्धर्वतन्त्रे । मार्त्तण्डभैरवं पश्चात् प्रणम्य च विलोकयेत् । आदावन्ते च देवस्य नमस्कारविलोकने ॥ १० ॥ कुर्याच्च सर्वदा भक्त्या धर्मकामार्थसिद्धये । यज्ञाधिकारिता चादौ पश्चात् संपूर्णता विधेः ॥ ११ ॥ विधेर्विपर्ययात् तस्य कृतं हरन्ति राक्षसाः । तमुद्यन्तं विलोक्यैव यजेदस्तमितं ततः ॥ १२ ॥ उभयोरेकतां मत्वा तमुद्यन्तं पुनस्ततः । स एवादौ स चान्तस्थः सोऽनन्तो ह्यन्त एव सः ॥१३ आद्यमन्तं विदित्वैव सर्वकर्मफलं लभेत् । ततस्तु पुष्पनैवेद्यतोयपात्रादिकं च यत् ॥ १४ ॥ मायाबीजेन तत्सर्वं पुनरेव विलोकयेत् । हस्तेन चक्षुषा वापि यत्र यश्च कृतः पुरा ॥ १५ ॥ पात्रन्यासस्तस्य तस्य विसृष्टिरमुना भवेत् । तोयैरभ्युक्ष्य तत्स्थानं मार्जयेत् तदनन्तरम् ॥ १६ ॥ उदके तरुमूले वा निर्माल्यं तत्र संत्यजेत् । नैवेद्यादीनि सर्वाणि गुरवे गुरुशक्तये ॥ १७ ॥¹ समर्प्योपायनं भक्त्या शिवायै² गुरुरूपिणे । जानुभ्यामवनीं गत्वा प्रणमेद् दण्डवत् प्रिये³ ॥ १८ ॥ आदाय गुरुणा दत्तं स्वीकुर्यात्तु विधानतः । तयोरभावतो दद्यात् कुमारीभ्यो यथाविधि ॥ १६ ॥ अमृतं भक्षयेद् देवो भुक्त्वा देवत्वमालभेत् । १ 'मा' क पाठ. । २ 'शिवत्रा' क पाठ । ३ 'मेव च' क पाठः ।