गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 298, कुल 446 में से
संदर्भ में पढ़ेंनित्यं¹ पुरस्क्रियायुक्तास्त एव परिकीर्तिताः । तं तु देवा नमस्यन्ति किं पुनर्न(व?र)मर्कटाः ॥ ९४ ॥ देवीकला भवेत्तत्र सर्वलोकवशंकरी । अमर्त्या अ(र्पि?पि)तं म(न्य?र्त्य)मीहन्ते कुलवल्लभम् ॥९५॥ दृष्ट्वा युवतयः सर्वाः क्लि[न्नान्मा?द्यद्यो]न्यो मुदान्विताः । शरदिन्दुप्रभं देवं पूर्णेन्दुप्रतिमाननम् ॥ ९६ ॥ नानावैदग्ध्यचातुर्यस्निग्धपीयूषभाषिणम् । अपि चेत्तत्समा नारी तत्समः पुरुषोऽस्ति चेत् ॥६७॥ नरेन्द्रं नरशार्दूलं दृष्ट्वा क्षुब्धमना² भवेत् । पूर्वे यद् दीयते वस्तु परे तस्माच्चतुर्गुणम् ॥ ६८ ॥ नानाविधोपहाराणि महादेव्यै निवेदयेत् । राजोपचारं दत्त्वान्ते स्तुत्वा नुत्वा विसर्जयेत् ॥ ६६ ॥ कालत्रयेऽप्यशक्तश्चेच्चतुर्थे सर्वथा प्रिये । अनश्नन् पूजयेद्रात्रौ भयनिद्रापराङ्मुखः ॥ १०० ॥ प्रातर्होमं प्रकुर्वीत तथा मध्यन्दिनेऽथवा । निद्राकालं प्रवक्ष्यामि साधकानां हिताय च ॥ १०१ ॥ दिवानिशोर्महादेवि नव मुहूर्तास्ततः परम् । मुहूर्तत्रयमानं तु निद्रा देव्याः समीरिता³ ॥ १०२ ॥ अत्र निद्रापरां देवीं निद्रया समुपासयेत् । निद्राकाले जपेद्यस्तु पूजयेद्वा विमोहितः ॥ १०३ ॥ स्वापकालं विना देवि स्व(पे?प्या)दन्यत्र योऽबुधः ।
१ ' तद् ' क पाठः । २ ' ब्धं ' क पाठ. । ३ ' ता ' ख. पाठः ।