गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 299, कुल 446 में से
संदर्भ में पढ़ें२१८ गन्धर्वतन्त्रे । चत्वारि तस्य नश्यन्ति आयुर्विद्या यशो बलम् ॥ १०४॥ तस्मात् सर्वप्रयत्नेन बोधकाले प्रबोधयेत् । दर्शनं चावलोकं च संभाषं चान्यलोकनम् ॥ १०५॥ स्वयमावेशनं चैव मन्त्राणां पञ्चलक्षणम् । विदित्वा प्रजपेन्मन्त्रं सर्वसिद्धिमुपालभेत् ॥ १०६॥ वेदसंध्यं त्रिसंध्यं वा द्विसंध्यं वाथ सुव्रते । योगात्मा योगविज्ञानी योगमुद्रासमन्वितः ॥ १०७॥ अब्दमेकं जपेद्यस्तु ब्रह्मचर्यव्रते स्थितः । सहस्रं प्रजपेदादावन्तेऽपि च सहस्रकम् ॥ १०८॥ मध्ययोः¹ प्रजपेद्विद्यां शेषं य(च्छ्?त्स)मभागतः । लक्षमेकं भवेद् देवि त्रिंशदभ्यन्तरे तथा ॥ १०६॥ अस्तब्धाकुञ्चितं कार्यं न द्रुतं न विलम्बितम् । अक्षराक्षरसंचारिध्वनिमात्रं विभावयेत् ॥ ११०॥ मयाप्येतद् व्रतस्थेन जप्यतेऽद्यापि सुन्दरि । त्रिसंध्यं जप्यते ब्रह्म तत्पदप्राप्तिसिद्धये ॥ १११॥ एवं क्रमाद्भवेत् सिद्धो भोगी भोगपरायणः । एवं मासमृतुं चैव वत्सरं युगमेव च ॥ ११२॥ गमयेत् परमेशानि यद्वा म(न्न?न्व)न्तरादिकम् । एतद्रहस्यं परमं न प्रकाश्यं कदाचन । समयाचारसंकेतं भोगमोक्षफलप्रदम् ॥ ११३॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे समयाचारसंकेतवर्णनं द्वाविंशः पटलः ॥ २२ ॥
१ 'मध्येऽपि' ख पाठः ।