भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 275, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 275

१६४ गन्धर्वतन्त्रे । गजतुण्डा महामुद्रा गणपस्य सदा प्रिया । एतदन्ते महेशानि सर्वभूतबलिं हरेत् ॥ ३८ ॥ सुरा नराश्च पितरो यक्षरक्षःपिशाचकाः । एते भूताः समुद्दिष्टा बलिभिस्तान् प्रतर्पयेत् ॥ ३९ ॥ बलिभिस्तर्पितास्त्वेते यान्ति यज्ञे सहायताम् । अतर्पिता यदा तस्मिंस्ते वै विघ्नस्वरूपिणः ॥ ४० ॥ आत्मानं च क्रियाः सर्वा महामन्त्रेण पार्वति । ततो ब्रह्मस्वरूपिण्यै विशेषेण समर्पयेत् ॥ ४१ ॥ वारत्रयमितः पूर्वं प्राणबुद्धि ततः परम् । देहधर्माधिकारान्ते जाग्रत्स्वप्नसुषुप्तिषु ॥ ४२ ॥ मनसा च ततो वाचा कर्मणा च ततः परम् । हस्ताभ्यां च ततः पद्भ्यामुदरेण ततः परम् ॥ ४३ ॥ शिश्ना च यत् स्मृतं पश्चाद्यदुक्तं यत्कृतं भवेत् । मां मदीयं ततो देवि सकलं च ततः परम् ॥ ४४ ॥ तथैव त्वयि-शब्दान्ते ब्रह्मण्यार्पितमस्त्विति । स्वाहान्तो मनुरित्युक्तो मन्त्रःऽस्वात्मसमर्पणे ॥ ४५ ॥ एतदन्ते महामन्त्रा(न?नि)यतः समुदीरयेत् । आवाहनं न जानामि न जानामि विसर्जनम् ॥ ४६ ॥ पूजाभागं न जानामि त्वं गतिः परमेश्वरि । सत्यं सत्यं पुनः सत्यमुत्क्षिप्य भुजमुच्यते ॥ ४७ ॥ § इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारजाग्रत्स्वप्नसुषुप्तिषु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना च यत्स्मृतं यदुक्तं यत्कृतं मां मदीयं सकलं त्वयि ब्रह्मण्यार्पितमस्तु स्वाहेति स्वात्मसमर्पणमन्त्रः । मामिति अस्मिन्मन्त्रौ विभक्तिप्रतिरूपकमव्ययं बोध्यम् ।