गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 267, कुल 446 में से
संदर्भ में पढ़ें१८६ गन्धर्वतन्त्रे । तस्योपरि महच्छत्रं परिपूर्णेन्दुसोदरम् । लोकपालैः सहागत्य धारयेत् त्रिदशेश्वरैः ॥ ८४ ॥ घण्टाशङ्खनिदानेन तोषयेद्यो महेश्वरीम् । भेरीदुन्दुभिवाद्यैश्च मरुत्वांस्तमनुव्रजेत् ॥ ८५ ॥ (अपा?योऽपि)नो वादयेद् घण्टां शङ्खं वा स्वयमेव हि । स निर्लज्जः कथं ब्रूते पूजयामि महेश्वरीम् ॥ ८६ ॥ ब्रह्मा विष्णुर्हरश्चान्ये सर्वे शङ्खादिवादिनः । शङ्खघण्टादिकांस्तस्माद् वादयेद्देवसंनिधौ ॥ ८७ ॥ वाद्यं यः कारयेद्देव्यै गीतं नृत्यं तथैव च । तुम्बुरुर्नारदश्चैव हाहा हूहूस्तथैव च ॥ ८८ ॥ प्रसादयन्ति तं नित्यं विद्याध(रा?र्याे)ऽप्सरादयः । सुवासिन्यो मदप्रौढा वेशयित्वा यथाविधि ॥ ८६ ॥ वेश्यास्त्वलंकृताः सर्वाः क्रीडयेयुरलं यदि । देवीमुद्दिश्य पुरतस्तस्य पुण्यफलं शृणु ॥ ६० ॥ उर्वशीप्रमुखौस्तं च क्रीडयेयुरलं मुदा । कौतुकं कारयेद्देव्यै हास्यानन्दाय यद्भवेत् ॥ ६१ ॥ तेन प्रमुदितो नित्यं देवीलोके महीयते । मङ्गलानि महादेव्यै कारयित्वा यथाविधि ॥ ६२ ॥ विमानवरमारुह्य ब्रह्मविष्णुपुरःसरम् । सर्वकामसुखं दिव्यं सर्वरत्नसमन्वितम् ॥ ६३ ॥ अनुव्र[जं?जि]तमिन्द्राद्यैः सपत्नीकैः सवाहनैः । १ 'सर्वजित् त्रिदशापति' क पाठ । २ 'घटामयस्त' क पाठः । ३ 'स्वा वेश्यारत' क पाठ । ४ 'ता' क पाठ ।