गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 266, कुल 446 में से
संदर्भ में पढ़ेंअष्टादशः पटलः । १८५ दूर्वार्पणं शिरोदेशे साक्षतं च शनैः शनैः ॥ ७३ ॥ भक्तिप्रवणचित्तं च दास्यमात्मनिवेदनम् । एवं निवेदयेद् देव्यै निवेद्यानि तथा बुधः ॥ ७४ ॥ स धन्यः सर्वलोकानां नान्यः पूज्यश्च भूतले । देवतानामृषीणां च दैत्यानामथ रक्षसाम् ॥ ७५ ॥ गन्धर्वाणामशेषाणां नागादीनां महात्मनाम् । अस्माकं चापि सर्वेषां माननीयः सुरासुरैः ॥ ७६ ॥ सार्वभौमपदं लब्ध्वा कैवल्यं लभते ततः । अनुलिप्य महादेवीं वासयेज्जगतीमिमाम् ॥ ७७ ॥ सिन्दूरैस्तिलकं देव्यै वश्याः सर्वाश्च योषितः । दिव्यज्ञानं भवेत्तस्य (देहा? दत्त्वा) ऽशनमनुत्तमम् ॥ ७८ ॥ माल्यादीनां प्रदानेन महालक्ष्मीः स्थिरा गृहे । ताम्बूलस्य प्रदानेन पानीयस्यापि शोभने ॥ ७६ ॥ सदानन्दमयो भूयात्स[म?दा] दुःखविवर्जितः । धूपैः प्रधूपिता देवी दीपैश्चापि निराजिता ॥ ८० ॥ ददाति वित्तं पुत्रांश्च धरां भूतिमरोगिताम् । धान्यं चौप्यखिलान् कामान्मतिं धर्मे तथा शुभाम् ॥ ८१ ॥ दर्पणं दर्शयित्वैव सारूप्यं लभते विभोः । व्यजनैश्चामरैर्वापि व्यजयित्वा महेश्वरीम् ॥ ८२ ॥ तं व्यजयेन्महालक्ष्मीश्चामरद्वयधारिणी । निमेषार्धं महादेव्याश्छत्रं चोपरि धारयेत् ॥ ८३ ॥ १ 'त्तेन' ख पाठ । २ 'स्यान्म्रा' क पाठ । ३ 'धन्यश्चा' ख पाठ ।