गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 265, कुल 446 में से
संदर्भ में पढ़ें१८४ गन्धर्वतन्त्रे । अनया दीक्षितो मन्त्रो यदि होमविवर्जितः । त्रिविधं दुःखमाप्नोति नित्यहोमपरो भवेत् ॥ ६३ ॥ अकुर्वतामग्निहोत्रमग्निर्भूत्वा महेश्वरी¹ । धनानि शीघ्रं ग्रसति गृहक्षेत्रपशूनपि ॥ ६४ ॥ बहुदुःखेनार्जितानि संचितान्यचिरेण तु । आत्मप्राणाधिकान्याशु भू(ताग्निं?त्वाग्निः)ग्रसतीश्वरी । ६५। अग्निहोत्रं सदा कुर्यात् [त?य]स्मादग्निमयीश्वरी । अग्निहोत्रविधानेन संपदां भाजनं भवेत् ॥ ६६ ॥ अग्निहोत्रपरस्येह वह्निर्भवति शीतलः । गृहक्षेत्रादिवित्तेषु वर्धते जाठरः परः ॥ ६७ ॥ अग्निरेव मुखं देव्यास्तस्मादग्नौ हुनेत् सदा । पक्षतो मासतो वापि वर्षतो वा यथाविधि ॥ ६८ ॥ होमाशक्तौ जपेद्विद्यां होमद्विगुणसंख्यया । स्तुवन्नानाविधैः स्तोत्रैः प्रणमेत् सप्रदक्षिणम् ॥ ६९ ॥ एवं नानाविधैर्देवीं संतोष्य साधकोत्तमः । भक्तिप्रवणेनचित्तेन निवेद्यानि निवेदयेत् ॥ ७० ॥ अनुलेपं च सिन्दूरं नेत्राञ्जनमनुत्तमम् । धूपामोदं प्रदीपांश्च दर्पणं व्यजनं तथा ॥ ७१ ॥ छत्रं च चामरं चैव घण्टानादमनुत्तमम् । वाद्यं गीतं तथा नृत्यं क्रीडाकौतुकमङ्गले ॥ ७२ ॥ निर्मञ्छनं च सिद्ध्यर्थै³र्दीपावलिभिरेव च । १ 'रीम् ' क. पाठ. । २ 'प्रणव ' क. पाठ । ३ 'द्धार्थै ' क. पाठः ।