गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
एकोनविंशः पटलः । १६३ षड्दीर्घस्वरसंभिन्नं क्षकारं विलिखेत् प्रिये । ततः क्षेत्रपदं पाल धूपदीपादि वा लिखेत् ॥ २८ ॥ सहितं बलिमालिख्य गृह्णगृह्ण ततो वदेत् । वह्निजायान्वितो मन्त्रः ‡क्षेत्रपालस्य पार्वति ॥ २६ ॥ वाममुष्टिं विधायादौ तर्जनीं सरलां कुरु । अनया मुद्रया देवि बलिं तस्मै निवेदयेत् ॥ ३० ॥ चतुर्थमण्डले देव्याः पुरतो दक्षभागतः । नवीननीरदश्यामं सर्वाभरणभूषितम् ॥ ३१ ॥ तुन्दिनं गजवक्त्रं च चतुर्बाहुं दिगम्बरम् । वामदक्षोर्ध्वपाणिभ्यां पाशाङ्कुश[व?ध]रं विभुम् ॥ ३२ ॥ दक्षिणाधःकरेणैव मधुपूर्णकपालकम् । सिन्दूरसदृशाकारामुद्दाममदविह्वलाम् ॥ ३३ ॥ धृतरक्तोत्पलामन्यपाणिना तद्ध्वजस्पृशम् । आलिङ्ग्य वामहस्तेन तस्या मदनमन्दिरम् ॥ ३४ ॥ स्पृशन्तं परमेशानं ध्यात्वा तं परिपूजयेत् । गांगींगूंत्रयमालिख्य ङेन्तं गणपतिं ततः ॥ ३५ ॥ वरान्ते वरदान्ते च सर्वान्ते जनमालिखेत् । मे वशं चानय प्रोच्य बलिं गृह द्विधापदम् ॥ ३६ ॥ वह्निजायान्वितो मन्त्रो गणपस्यꕤउदाहृतः । मुष्टिमध्यस्थितां देवि अङ्गुलीं दण्डवत् कुरु ॥ ३७ ॥
पाद-टिप्पणी (Footnotes): १ 'शा' क पाठ । ‡ क्षांक्षींक्षूंक्षैंक्षौंक्षः क्षेत्रपाल धूपदीपादिसहितं बलि गृह २ स्वाहा इति निष्कर्ष । ꕤ गांगींगूंगणपतये वरवरद सर्वजन मे वशमानय बलि गृह २ स्वाहेतिबलिमन्त्र ।
१६४ गन्धर्वतन्त्रे । गजतुण्डा महामुद्रा गणपस्य सदा प्रिया । एतदन्ते महेशानि सर्वभूतबलिं हरेत् ॥ ३८ ॥ सुरा नराश्च पितरो यक्षरक्षःपिशाचकाः । एते भूताः समुद्दिष्टा बलिभिस्तान् प्रतर्पयेत् ॥ ३९ ॥ बलिभिस्तर्पितास्त्वेते यान्ति यज्ञे सहायताम् । अतर्पिता यदा तस्मिंस्ते वै विघ्नस्वरूपिणः ॥ ४० ॥ आत्मानं च क्रियाः सर्वा महामन्त्रेण पार्वति । ततो ब्रह्मस्वरूपिण्यै विशेषेण समर्पयेत् ॥ ४१ ॥ वारत्रयमितः पूर्वं प्राणबुद्धि ततः परम् । देहधर्माधिकारान्ते जाग्रत्स्वप्नसुषुप्तिषु ॥ ४२ ॥ मनसा च ततो वाचा कर्मणा च ततः परम् । हस्ताभ्यां च ततः पद्भ्यामुदरेण ततः परम् ॥ ४३ ॥ शिश्ना च यत् स्मृतं पश्चाद्यदुक्तं यत्कृतं भवेत् । मां मदीयं ततो देवि सकलं च ततः परम् ॥ ४४ ॥ तथैव त्वयि-शब्दान्ते ब्रह्मण्यार्पितमस्त्विति । स्वाहान्तो मनुरित्युक्तो मन्त्रःऽस्वात्मसमर्पणे ॥ ४५ ॥ एतदन्ते महामन्त्रा(न?नि)यतः समुदीरयेत् । आवाहनं न जानामि न जानामि विसर्जनम् ॥ ४६ ॥ पूजाभागं न जानामि त्वं गतिः परमेश्वरि । सत्यं सत्यं पुनः सत्यमुत्क्षिप्य भुजमुच्यते ॥ ४७ ॥ § इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारजाग्रत्स्वप्नसुषुप्तिषु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना च यत्स्मृतं यदुक्तं यत्कृतं मां मदीयं सकलं त्वयि ब्रह्मण्यार्पितमस्तु स्वाहेति स्वात्मसमर्पणमन्त्रः । मामिति अस्मिन्मन्त्रौ विभक्तिप्रतिरूपकमव्ययं बोध्यम् ।
एकोनविंशः पटलः । १६५ कायेन मनसा वाचा त्वत्तो नान्या गतिर्मम ! अन्तश्चारेण भूतानामन्तस्त्वमेव संस्थिता ॥ ४८ ॥ यद्दत्तं भक्तिमात्रेण पत्रं पुष्पं फलं जलम् । आवेदितं च नैवेद्यं तद्गृहाणानुकम्पया ॥ ४६ ॥ विधिहीनं क्रियाहीनं भक्तिहीनं यदर्चितम् । यदक्षरपरिभ्रष्टं मात्राहीनं च यद्भवेत् ॥ ५० ॥ अनङ्गव्यवधानादि अपराधशतानि च । क्षन्तुमर्हसि मे देवि त्वमेव शरणं यतः ॥ ५१ ॥ त्वयि मे हृदयं चास्तु त्वयि चित्तं मनस्त्वयि । त्वत्पूजायां महामाये संवर्धन्तां प्रयोजिताः ॥ ५२ ॥ ये पुनर्विघ्नकर्तारस्ते नश्यन्तु त्वदाज्ञया । मन्त्रेषु पठितेष्वेषु स्व(रं?यं)देवी प्रसीदति ॥ ५३ ॥ दातुं देवी चतुर्वर्गमित्येतन्नात्र संशयः । एवं संप्रार्थ्य देवेशि स्तुत्वा नुत्वाति३भक्तितः ॥ ५४ ॥ प्रधानदेवतामूर्तौ परिवारान् समर्पयेत् । तस्या एव महेशान्याः शरीरे सर्वदेवताः ॥ ५५ ॥ विलीनांः सन्तु मूलेन दे(वा?व्य)ङ्गे मीलिताः स्मरेत् । अथ कामकलारूपमात्मानं परिचिन्तयेत् ॥ ५६ ॥ ततस्तां परमेशानीं विसृजेद् हृदयाम्बुजे । ज्ञानतोऽज्ञानतो वापि यन्मया क्रियते शिवे ॥ ५७ ॥ तव कृत्यमिदं सर्वमिति मातः क्षमस्व मे । उद्वास्य परमेशानीं खेचर्यात्मनि योजयेत् ॥ ५८ ॥ १ 'र' क पाठ । २ 'दत्ते' ख पाठ । ३ 'भि' ख पाठ ।
१६६ गन्धर्वतन्त्रे । अनेनैव तु मन्त्रेण ध्यायँस्तां स्थापयेद् हृदि । तिष्ठ देवि परे स्थाने स्वस्थाने परमेश्वरि ॥ ५६ ॥ विसृज्यैवं महेशानीं ततः पूरकवायुना । संहारमुद्रयादाय समाघ्राय गुरूक्तया ॥ ६० ॥ तच्चैतन्यं[स?स्व]मूलेन मूल एव निवेशयेत् । प्राणायामैस्तु संतर्प्य यजेन्निर्माल्यधारिणीम् ॥ ६१ ॥ निर्माल्यं निक्षिपेन्मूर्ध्नि नीत्वा तां चित्कलां पुरा । अस्या जगन्मयी सैव सा चै[वाशो?व शे]षिका परा ॥ ६२ ॥ तत्परं नहि वेत्स्वे[ह?व]न्तत्त्वज्ञानादहं प्रभुः । महापद्मवनान्तःस्थशृङ्गाटोदरसंस्थिताम् ॥ ६३ ॥ देवीं परां समालोक्य आत्मानं तु विचिन्तयेत् । उन्मन्यन्ते शिवो भूत्वा तिष्ठेदानन्दनिर्भरः ॥ ६४ ॥ शिवेनैक्यं समासाद्य यावदन्ते मनोलयः । निवर्तितसमाधिस्तु गुरवे मूर्धवासिने ॥ ६५ ॥ आललाटं नमस्कुर्यान्निवेद्यार्घ्यं तदाज्ञया । ऐशान्यां मण्डलं कृत्वा द्वारपद्मविवर्जितम् ॥ ६६ ॥ शेषिकां सुन्दरीं तत्र निर्माल्येन प्रपूजयेत् । लेह्यचोष्यान्नपानादि ताम्बूलमनुलेपनम् ॥ ६७ ॥ नैर्माल्यं भोजनं तुभ्यं ददामि श्रीशिवाज्ञया । अनेन मनुना देव्या यजेन्निर्माल्यधारिणीम् ॥ ६८ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे वटुकादिबलिविधिनिरूपणं एकोनविंशः पटलः ॥ १९ ॥ १ 'वा' क पाठ । २ 'अन्त यावन्म' क पाठ । ३ 'षा' क पाठ.। ४ 'स्रग्विले' ख पाठः ।
विंशः पटलः । देव्युवाच कथं सा परमेशानी शेषिका पू[जि?ज्य]ते शिव । कीदृशी सा महादेवी तदशेषं वद प्रभो ॥ १ ॥ ईश्वर उवाच शेषिकां सुन्दरीं वक्ष्ये देवीं गुह्यतमां प्रिये । उच्छिष्टपूर्विकां देवीं मातङ्गीं सर्वसिद्धिदाम् ॥ २॥ सर्वापत्तोरिणीं विद्यां सर्वदोषविवर्जिताम् । यया विज्ञातया देवि क्षयं गच्छन्ति चापदः ॥ ३ ॥ स्थावरं जङ्गमं चैव कृत्रिमं चाङ्गजं तथो । विद्येयं¹ नाशयेद् देवि स्वपराङ्गसमाश्रितम् ॥ ४ ॥ इयं विद्या महाविद्या सर्वपापापहारिणी । स्वर्गदा मोक्षदा चेयं राज्यसौभाग्यदा तथा ॥ ५ ॥ इयं देवी मया पूर्वं साधिता देवि निर्जने । सकृदुच्चा³रिता विद्या ब्रह्महत्याविनाशिनी ॥ ६ ॥ य उच्छिष्टमुखो भूत्वा स्मरेद् देवीं कदाचन । तदाचान्तो भवेद् देवि विनैवाचमने कृते* ॥ ७ ॥ निर्धनो धनमाप्नोति मूर्खो विद्यामवाप्नुयात् । मन्त्रं शृणु महादेव्या यथावत् कथयामि ते ॥ ८ ॥ १ 'विषम्' ख पाठ । २ 'च' क पाठ । ३ 'यद्यु' ख पाठ ।
- ऐशोऽय पाठ. आचमन विनेत्यर्थं, एवमग्नेपि बोध्यम् ।
१६८ गन्धर्वतन्त्रे । उच्छिष्टशब्दमुच्चार्य तथा चण्डालिनीति च । सुमुखीति ततो देवि महापिशाचिनीति च ॥ ६ ॥ मायाबीजं ततः पश्चात् ठकारद्वितयं तथा । सविसर्गं‡महादेवि सर्वसिद्धिप्रदायकम् ॥ १० ॥ अथान्यं संप्रवक्ष्यामि मन्त्रं परमदुर्लभम् । वाङ्मायाकमलाबीजं नमो भगवतीति च ॥ ११ ॥ मातङ्गेश्वरि सर्वान्ते जनवशंकरीति च । वह्निजायान्वितो मन्त्रः§ सर्वसिद्धिप्रदायकः ॥ १२ ॥ नारिदोषोऽत्र देवेशि न विघ्नो नियमस्तथा । अङ्गन्यासकरन्यासौ नाङ्गी चैवास्य देवता ॥ १३ ॥ यस्य तिष्ठति मन्त्रोऽयं स भवेत् सुरपादपः । ध्यानमस्याः प्रवक्ष्यामि यथावदखिलेश्वरि ॥ १४ ॥ शवोपरि समासीना रक्ताम्बरपरिच्छदा । रक्तालंकारभूषाढ्या गुञ्जाहारविराजिता ॥ १५ ॥ नवयौवनसंपन्ना पीनोन्नतपयोधरा । कपालकर्तृकाहस्ता परमज्योतीरूपिणी ॥ १६ ॥ विधानं चात्र वक्ष्यामि शृणु देवि मनोहरम् । भोजनानन्तरं देवि विनैवाचमने कृते ॥ १७ ॥ बलिं कृत्वा प्रथमतॊ मूलमन्त्रेण साधकः । ततो मन्त्रं जपेद् ध्यात्वा जपेदयुतमानतः ॥ १८ ॥
‡ उच्छिष्टचण्डालिनि सुमुखि देवि महापिशाचिनि ह्रीं ठः ठः इति । § ऐं ह्रीं श्रीं नमो भगवति मातङ्गेश्वरि सर्वजनवशकारि स्वाहा । इति मन्त्रान्तरम् ।
विंशः पटलः । १६६ उच्छिष्टेनैव कर्तव्यो जपोऽस्याः सिद्धिमिच्छता .। अपरं च प्रवक्ष्यामि शृणु देवि फलप्रदम् ॥ १६ ॥ होमसंतर्पणं चैव सर्वकार्यार्थसिद्धये । स्थण्डिले मण्डलं कृत्वा चतुरस्रं सबिन्दुकम् ॥ २० ॥ पूजयेन्मण्डलं देव्या मूलमन्त्रेण साधकः । तत्र देवीं समावाह्य वह्निरूपव्यवस्थिताम् ॥ २१ ॥ संपूज्यैव चरेद्धोमं दधिसिद्धार्थतण्डुलैः । सहस्रैकविधानेन राजा भवति वश्यगः ॥ २२ ॥ मार्जारस्य तु मांसेन देव्यै होमं समाचरन् । स प्राप्नोति परां विद्यां शश्वच्छास्त्रवशीकृताम् ॥ २३ ॥ कुर्याच्छागस्य मांसेन होमं मधुघृतान्वितम् । सहस्रैकप्रमाणे न भवन्ति फलसिद्धयः ॥ २४ ॥ विद्याकामश्चरेद् होमं मधुना सह सर्पिषा । अयु[कै?तै]कप्रमाणे न सिद्धिरिष्टा भवेद् ध्रुवम् ॥२५॥ सद्यो मार्जारमांसेन घृतेन मधुना सह । चाण्डालकेशयुक्तेन भवेदाकर्षणं महत् ॥ २६ ॥ शशकस्य तु मांसेन मधुनालोडितेन च । कृत्वा होममवाप्नोति विद्यावसुवरश्रियः ॥ २७ ॥ धत्तूरकाष्ठयोगेन चितावह्नौ तु मन्त्रवित् । कोकिलाकाकपक्षाँश्च होमैः शत्रून् विनाशयेत् ॥ २८ ॥ उच्चाटनाय शत्रूणां होमं कुर्याच्च मन्त्रवित् । १ 'धूस्तू' क पाठ. ।
२०० गन्धर्वतन्त्रे । पूर्वोक्तेन विधानेन चिताकाष्ठहुताशने ॥ २९ ॥ उलूककाकपक्षाभ्यां कृत्वा होमं निरन्तरम् । द्वेषयेद् द्विष्टमन्योन्यकलहाकुलसंकुलम् ॥ ३० ॥ उलुकपक्षहोमेन गर्भपातो भवेत् स्त्रियाः । बिल्वपत्रैः सुमध्वक्तैर्मासमेकं निरन्तम् ॥ ३१ ॥ सहस्रैकप्रमाणे कृत्वा होमं समाहितः । अपि वन्ध्या लभेत् पुत्रं चिरजीविनमुत्तमम् ॥ ३२ ॥ बन्धूककुसुमं हुत्वा रक्तं मधुसितान्वितम् । दुर्भगा चैव या नारी सुभगा सा न संशयः ॥ ३३ ॥ [इडा?हठा]दागत्य कामार्ता बलादालिङ्गयन्ति तम् । इयं देवी महेशानी वामाचार२फलप्रदा ॥ ३४ ॥ दक्षिणाचारयोगेन न भवेत् फलदायिनी । भोजनान्तरं चास्या बलिं दद्याद् दिने दिने ॥ ३५ ॥ उच्छिष्टेन जपेन्मन्त्रं शतमष्टोत्तरं शिवे । उट३जे वा श्मशाने वा शून्यागारे चतु(ष्टयं?ष्पथे) ॥ ३६ ॥ बलिप्रदानतो देवी प्रत्यक्षा भवति ध्रुवम् । अनयैवाभिसंमन्त्र्य ओषध्यः सर्वसिद्धिदाः ॥ ३७ ॥ चन्द्री चक्री तथा वज्री त्रिशूला मुद्गरी तथा । देहस्था समरे पुंसां सर्वायुधवि[धा?दा]रिणी ॥ ३८ ॥ गृहीतं पुष्यनक्षत्रे अपामार्गस्य मूलकम् । लेपमात्रेण धीराणां सर्वायुधनिवारणम् ॥ ३९ ॥ १ 'स' क, पाठ । २ 'रा' क पाठ । ३ 'उज्जटे' क पाठ ।
विंशः पटलः । २०१ अर्जुनं च नारजं च चम्पकोन्मत्तकः कुहूः । लेपमात्राज्जयी युद्धे वज्रदेहो भवेन्नरः ॥ ४० ॥ खर्जूरी मुखमध्यस्था कटीबद्धा च केतकी । भुजदण्डस्थितस्तालः सर्वायुधनिवारणः ॥ ४१ ॥ दक्षबाहुस्थितश्चार्को वामे तु हृदयेऽथवा । रुद्रः पुष्पगतो युद्धे वज्रदेहो भवेन्नरः ॥ ४२ ॥ त्रिलोहवेष्टितं कृत्वा रसं वज्राभसंयुतम् । रणस्थस्य करस्थं च सर्वायुधनिवारणम् ॥ ४३ ॥ गिरिकर्णी शमीं दूर्वां गुञ्जां श्वेतां समाहरेत् । चन्दनेनान्विताः सर्वास्तिलकाद्विजयी रणे ॥ ४४ ॥ अधःपुष्पा शिखी चैव श्वेता च गिरिकर्णिका । गोरोचनासमायुक्ता तिलकं शत्रुमोहनम् ॥ ४५ ॥ कनकार्को[१] वह्निरिन्द्रद्रुः पञ्चमस्तथा । करोति तिलकं यस्तु पश्येतं पञ्चधा रिपुः ॥ ४६ ॥ कृष्णसर्पकरालं तु रसं मृत्तिकयान्वितम् । सितगुञ्जां वपेत् तत्र तस्या मूलं समाहरेत् ॥ ४७ ॥ हरीतक्या समायुक्तं तिलकं शत्रुमोहनम् । कृततिलकं भटं दृष्ट्वा पश्येत् स्वं श्वावृतं रिपुः ॥४८॥ शृंगगौर्भ(द्य?द्य)माणस्तु पतत्येव ततो भुवि । छाया यस्य जले याति संग्राद्यः कासमर्दकः ॥ ४६ ॥ अनेन तिलकेनाभिः कूपवापीं प्रपश्यति । 'ख' क पाठ
२०२ गन्धर्वतन्त्रे । ब्रह्मदण्डी च कौमारी ईश्वरी वैष्णवी तथा ॥ ५० ॥ वाराही वज्रिणी चान्द्री महालक्ष्मीस्तथैव च । एताश्चौषधयो दिव्यास्तथैता मातरः स्मृताः ॥ ५१ ॥ कृतताडी करे बद्धो सर्वशत्रुनिवारिणी । बहुना तु किमुक्तेन संक्षेपात् कथ्यतेऽधुना ॥ ५२ ॥ षट्कर्मशालिनी विद्या प्रयोगात् सर्वसिद्धिदा । मूलविद्याप्रयोगेन सिद्धिहानिर्भवेद् ध्रुवम् ॥ ५३ ॥ प्रयोगेच्छा यदा देवि तदैनां च प्रयोजयेत् । अनयाखिलकर्माणि साधयेत् साधकोत्तमः ॥ ५४ ॥ प्रसङ्गात् कथितं देवि गोपनीयं प्रयत्नतः । — ☸ — इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे शोषिकाविद्याप्रयोगक्रमनिरूपणं विंशः पटलः ॥ २० ॥ १ 'दूर्वा' ख. पाठ. ।
एकविंशः पटलः ——————❀—————— ईश्वर उवाच ततो वै मूलमन्त्रेण महेशानीं धिया स्मरन् । अप्राश्य चैव निर्माल्यं पादोदकपुरःसरम् ॥ १ ॥ शिरसा धारयेद्यस्तु भूमौ बिन्दूंस्तु पातयेत् । ब्रह्महा स तु विज्ञेयो यद्भक्त्या चात्मसा(द्व?त्कृ)तम् ॥ २ । शिवं गन्धं समादाय शंखतोये विलोकयेत् । सव्यहस्ते समादाय दक्षहस्तेन मन्त्रवित् ॥ ३ ॥ सप्तधा मन्त्रितं कृत्वा सर्वतीर्थमयं स्मरेत् । प्रोक्षयेत् तेन चात्मानं मूलदेवीं हृदि स्मरन् ॥ ४ ॥ पादोदकं पिवेद् भक्त्या शेषं मूर्धनि योजयेत् । सर्वाङ्गलेपनं कृत्वा यन्त्रलेपादिकं च यत् ॥ ५ ॥ निर्मञ्छेत् कामबीजेन मूलमन्त्रेण चात्मनः । अनामिकाग्रपर्वेण ललाटमपि संस्पृशेत् ॥ ६ ॥ निर्माल्यं शिरसा धार्य सर्वाङ्गेष्वनुलेपनम् । मन्त्रेण भास्करायार्घ्यमच्छिद्रार्थं निवेदयेत् ॥ ७ ॥ जानुभ्यामवनीं गत्वा पठित्वा मन्त्रमीरितम् । एकाग्रमनसा वाग्भिरच्छिद्रमवधारयेत् ॥ ८ ॥ यज्ञाच्छिद्रं तपश्छिद्रं यच्छिद्रं पूजने मम । सर्वं तदच्छिद्रमस्तु मार्तण्डस्य प्रसादतः ॥६ ॥ ———————————————————————— १ 'मौ वा बिन्दु पातयेत्' ख पाठ. ।
२०४ गन्धर्वतन्त्रे । मार्त्तण्डभैरवं पश्चात् प्रणम्य च विलोकयेत् । आदावन्ते च देवस्य नमस्कारविलोकने ॥ १० ॥ कुर्याच्च सर्वदा भक्त्या धर्मकामार्थसिद्धये । यज्ञाधिकारिता चादौ पश्चात् संपूर्णता विधेः ॥ ११ ॥ विधेर्विपर्ययात् तस्य कृतं हरन्ति राक्षसाः । तमुद्यन्तं विलोक्यैव यजेदस्तमितं ततः ॥ १२ ॥ उभयोरेकतां मत्वा तमुद्यन्तं पुनस्ततः । स एवादौ स चान्तस्थः सोऽनन्तो ह्यन्त एव सः ॥१३ आद्यमन्तं विदित्वैव सर्वकर्मफलं लभेत् । ततस्तु पुष्पनैवेद्यतोयपात्रादिकं च यत् ॥ १४ ॥ मायाबीजेन तत्सर्वं पुनरेव विलोकयेत् । हस्तेन चक्षुषा वापि यत्र यश्च कृतः पुरा ॥ १५ ॥ पात्रन्यासस्तस्य तस्य विसृष्टिरमुना भवेत् । तोयैरभ्युक्ष्य तत्स्थानं मार्जयेत् तदनन्तरम् ॥ १६ ॥ उदके तरुमूले वा निर्माल्यं तत्र संत्यजेत् । नैवेद्यादीनि सर्वाणि गुरवे गुरुशक्तये ॥ १७ ॥¹ समर्प्योपायनं भक्त्या शिवायै² गुरुरूपिणे । जानुभ्यामवनीं गत्वा प्रणमेद् दण्डवत् प्रिये³ ॥ १८ ॥ आदाय गुरुणा दत्तं स्वीकुर्यात्तु विधानतः । तयोरभावतो दद्यात् कुमारीभ्यो यथाविधि ॥ १६ ॥ अमृतं भक्षयेद् देवो भुक्त्वा देवत्वमालभेत् । १ 'मा' क पाठ. । २ 'शिवत्रा' क पाठ । ३ 'मेव च' क पाठः ।
एकविंशः पटलः । २०५ अमृतं तद्विजानीयादुत्सृष्टं दैवतेनं यत् ॥ २०॥ परदैवतनैर्माल्यं विनान्यत् स्वीकृतं नहि । अनिवेद्य शिवायैव यत्किंचित् स्वीकृतं प्रिये ॥ २१ ॥ (स?तत्)च पशुर्मृतं भुङ्क्ते लोकद्वययुतं प्रिये । पुरा सर्वे मनुष्याद्या भुक्त्वा मृतमि(ये?दं) नतु ॥ २२ ॥ देवत्वं(नोभवेत्?चालभन् ) यस्मात्तन्नैव भक्षयेत् क्वचित्२ । दिव्यभावविशुद्धात्मा भक्षयेदमृतं यदि ॥ २३ ॥ नित्यमभ्यासयोगेन देवगामी भवेन्नरः । अमृतोपस्तरं कृत्वा पिधानमपि तेन वै ॥ २४ ॥ बलिशेषं समादाय जुहुयाच्चैव पूर्ववत् । हुत्वामृतं ततो भक्त्या प्राशयेद् भावशुद्धितः ॥ २५ ॥ भुक्त्वामृतं तदा देवि हस्तं मूर्धान विन्यसेत् । त्रितत्त्वेन त्रिधाचम्य षडङ्गानि प्रविन्यसेत् ॥ २६ ॥ शिवो दाता च [भ?भो]क्ता च शिवः सर्वमिदं जगत् । शिवो जयति सर्वत्र यः शिवः सोऽहमेव च ॥ २७ ॥ शक्तीरलंकृतैवक्त्राः सुवेशाः सुमनोहराः । पश्येत्तु देवतादृष्ट्या ता एव देवता यतः ॥ २८ ॥ तथैव ब्राह्मणान् पश्येद्भूदेवान् शुद्धमानसान् । भक्त्या नत्वा प्रमुदितस्ततः स्तानवलोकयेत् ॥ २६ ॥ अनेन विधिना देवि संपूज्य परमेश्वरीम् । तत्कृपालब्धविज्ञानपूर्णोऽहमिव भूतले३ ॥ ३० ॥ १ 'त तु' क पाठ । २ 'तु काचित्क्वचित्' क पाठ । ३ 'लब्धिराहित साहित- स्याहमेव वा' क पाठ ।
२०६ गन्धर्वतन्त्रे । भावनांवशसंपन्नो विहरेत् तु तदिच्छया ॥ ३० ॥ देव्युवाच क[स्य?थं] वा क्रियते पूजा [न?नु]गृह्येत निवेदितौ । कथं वा प्रत्ययं चेतस्तदुपायं वद प्रभो ॥ ३१ ॥ ईश्वर उवाच साधु पृष्टं त्वया भद्रे स्मरणान्मुक्तिदायकम् । शिवंरूपं परं ब्रह्म अनुत्तरपदं महत् ॥ ३२ ॥ तदन्तःस्थं परं ब्रह्म ज्योतीरूपं सनातनम् । स्वयं प्रकाशते ह्यात्मा मेघापायेऽंशुमानिव ॥ ३३ ॥ अभ्यसेद् बहुशस्तत्र श्रुतिदर्शितवर्त्मना । वर्णरूपं तु शब्दस्य तन्मय्यस्तत्क्रियास्तथा ॥ ३४ ॥ जप्त्वा कृत्वा भवेत् सिद्धिर्भोगमोक्षमयी तर्तः । यावन्मनो लयं याति तस्मिन् स्वात्मनि चिन्मये ॥३५॥ तावदिष्टमनुं मन्त्री जपहोमैः समाचरेत् । अतः परं न किंचित् तु कृत्यम(सि?स्ति)तदात्मनः ॥३६॥ विदिते परमे तत्त्वे समस्तैर्नियमैरलम् । तालवृन्तेन किं कार्यं लब्धे मलयमारुते ॥ १ ३७ ॥ अवश्यं च भावि फलं तदासौ तत्करोति यः । आस्तिकः स तु विज्ञेयः क्रमान्मोक्षे प्रतिष्ठितः ॥३८॥ ४ प्राप्य न्यसेत्तदा तस्मिन् कृत्वा तद्रहितं न्यसेत् । उभयात्मकं तु विन्यस्य स संन्यासी मुनिर्मतः ॥३६॥ १ 'तात्' ख पाठ । २ 'श' क पाठ । ३ 'द्धेभो' क. पाठ । ४ 'मयास्तु त' क पाठ ।
एकविंशः पटलः । २०७ यन्त्रं शरीरमत्रोक्तं विदित्वा कमलेक्षणे । कृत्वा चाहंमतिं तन्त्रे यजेद्भक्त्या समाहितः ॥ ४० ॥ यद्रूपं परमेशान्या नि[ष्पा?ष्क]लं सक[लार्ण?लं च]वा । आत्म(१)भेदेन संपूज्य आत्मानं प्रियमिश्वरीम् ॥४१॥ तदानन्दमयं धाम याति पश्चान्न संशयः । एवं सा पञ्चमी प्रोक्ता पञ्चधा प्रथितविग्रहा ॥ ४२ ॥ पञ्चतत्त्वात्मके देहे प्रत्यक्षीक्रियते हि तैः । नान्यत्र वै भवेद् व्यक्ता विनात्मनि विचिन्तनम् ॥४३॥ अनुमानं महेशान्या आत्मन्येव नच क्वचित् । अनुमीय परं चैवं सर्वमात्मवदाचरेत् ॥ ४४ ॥ वस्तूनां गन्धमात्रेण सौरूप्यदर्शनात् तथा । तुष्यन्ति देवताः श्रेष्ठाः स्तुत्या लभ्याश्च पार्वति ॥४५॥ भूतप्रेतपिशाचाश्च यक्षराक्षसपन्नगाः । उपभोगेन तुष्यन्ति मनुष्याद्याश्च जन्तवः ॥ ४६ ॥ गुरोः शरीरमास्थाय कुमारीणां विशेषतः । ब्राह्मणानां गवां चैव भुञ्जते देवताः पराः ॥ ४७ ॥ तस्मात्तांश्च प्रयत्नेन भोजयेत् तोषयेत् सदा । तुष्टेष्वेषु महादेवी परितुष्टा जगन्मयी ॥ ४८ ॥ ब्राह्मणानां शरीरस्था भुञ्जते पितरस्तथा । अनङ्गव्यवधानं स्यादङ्गहीनं तु यद्भवेत् ॥ ४६ ॥ साङ्गं भवति तत् सर्वं मिष्टान्नौर्विप्रभोजनात् । इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे पूजासंपूरणाद्युपायविधिनिरूपणं एकविंशः पटलः ॥ २१ ॥
१ 'कृत्वावहमर तन्त्र' क पाठ । २ 'भया च ' क. पाठ ।
द्वाविंशः पटलः —❀— ईश्वर उवाच हृदिस्थं परमात्मानं विहायान्यत् समीहते । अहो मूढो वरारोहे बहिर्यन्मृग्यतेऽन्धवत् ॥१॥ विज्ञाय हृदयान्तःस्थं परं(य?प्र)कृतिगोचरम् । तन्निष्ठकर्मणा चैनमात्मन्येवं प्रतीयते* ॥ २ ॥ तत्प्रतीतौ भवेत् सिद्धो नान्यथा खलु पार्वति । अहं विष्णुः स्वयंभूश्च स्वायंभुवा इमे वयम् ॥ ३ ॥ तदनुभूय देहेऽस्मिंस्तद्देवं समुपास्महे । तदन्तःस्थं समाहूय तद्देवं तु यजामहे ॥ ४ ॥ उद्वास्य च तदात्मानं स्थापयित्वा निजे हृदि । निवेदितं तु तत्प्रीत्यै तस्मिन्नेव निवेदयेत् ॥ ५ ॥ विनामृतं न चान्यत् तु काङ्क्षन्ते देवतागणाः । अमृतेनैव तत्पूजा अमृतं तु निवेदयेत् ॥ ६ ॥ अमृतत्वं लभेद्वीरः स्वीकृत्यात्मनिवेदितम् । इति ते कथितं देवि शेषिका[मत्?मृत]मुत्तमम् ॥७॥ स्थूलसूक्ष्मविभेदेन ज्ञायते कृपया गुरोः । नित्यं नैमित्तिकं[कर्म?काम्यं]चेति तेषां पृथक् पृथक् ॥८॥ त्रिविधं त्रैपुरं कर्म क्रमतस्तत् समाचरेत् । यदुक्तं तामसं त्यक्त्वा तत् सर्वं यत्नतश्चरेत् ॥६॥
- दैवादिकस्य इङ्गतौ इत्यस्य धातोः कर्तरि अयं प्रयोग ।
द्वांविंशः पटलः । २०६ दैनन्दिनमतो नित्यं पातकमविधानतः । मासिकं तिथिकृत्यं च वार्षिकं फलदायकम् ॥ १०॥ लङ्घनान्निरयो यस्य नित्यं श्रद्धावि[धान?घात]तः । नैमित्तिकं विजानीयाच्छ्रद्धया तत्समाचरेत् ॥ ११ ॥ फलमात्रश्रुतिर्यस्य श्रुतिस्मृतिप्रचोदितौ । काम्यं तन्तु विजानीयात् पूजितं तत्र गोचरे ॥ १२ ॥ विदध्यात् तत्प्रयत्नेन यत् पुनर्लोकपूजितम् । धर्ममपि त्यजेत् साधु यत् पुनर्लोकगर्हितम् ॥ १३ ॥ नित्यं सात्त्विकमेवात्र नैमित्तिकं तु राजसम् । तामसं काम्यमेवात्र कुर्यात् फलवितृष्णया ॥ १४ ॥ तृष्णां तां दूरतस्त्यक्त्वा मनः पूर्णं विचिन्तयेत् । पूर्णे मन[सि?स्थे]तृष्णे च पूर्णं सर्वमिदं जगत् ॥१५॥ उपानद्गूढपादस्य ननु चर्मावृत्तैव भूः । फलविरहितं काम्यं नित्यं नैमित्तिकं तथा ॥ १६ ॥ क्रियते त्रिपुराप्रीत्यै कृत्वा त[स्मै?स्यै]निवेदनम् । सात्त्विकं तद्विजानीयाद् भोगमोक्षफलप्रदम् ॥ १७ ॥ यस्य यद्विहितं कर्म त्रिविधं तत्र गोचरे । श्रुतिस्मृत्युदितं चापि मनसापि न हारयेत् ॥ १८ ॥ कर्मलोपादधोयोनौ जायते साधकाधमः । शिवशक्तिमयं विश्वं विदित्वा सद्गुरोः प्रिये ॥ १९ ॥ स्थूलसूक्ष्मविभेदेन पितृमातृस्वरूपतः । १ 'क यद्वि' क पाठ । २ 'तम्' ख पाठ , ३ 'यै' क पाठ ।
२१० गन्धर्वतन्त्रे । कर्मभिस्तोषयेत् तौ तु तद्भावमाश्रितः सदा ॥ २० ॥ उभयात्मा भवेत् सिद्धयै नैकात्मा ज्ञानवर्जितः । ज्ञानचक्षुस्तयोरैक्यं विदित्वा श्रीगुरोः क्रमात् ॥ २१ ॥ अनुभूय तदानन्दं तदात्मा तत्र संविशेत् । मातुः पितुर्यथा बालो व्युत्पत्तिं लभते क्रमात् ॥ २२ ॥ तयोः समत्वसंधानाद् व्युत्पन्नो ज्ञानमालभेत् । देवताः शक्तिरित्याहुः पितरः शिव एव च ॥ २३ ॥ एतावुभौ तांस्तु सर्वान् सुहृदः पूर्वसूचितान् । बलिभिस्तर्पयेत् तांस्तु सुहृद्भिश्च हतोऽन्यथा ॥ २४ ॥ तेषां बलिं पुरस्कृत्य तावुभौ परितोषयेत् पश्चात् तेभ्यो निवेद्यैव सुहृद्भिर्विहरेन्मुदा ॥ २५ ॥ स्वाहान्तेन च देवेभ्यो मनुष्ये हन्तकारतः । स्वधान्तेन पितृभ्यस्तु तेभ्यो लभ्यन्तगेन[?]¹तु ॥ २६ ॥ निराशाः पितरस्तस्य यास्यन्ति खलु पार्वति । सुहृदो ज्ञातयश्चापि वाङ्मात्रेणापि नार्चिताः ॥ २७ ॥ सुहृदो वर्ष्म खादन्ति ज्ञातयः कर्म संचितम् । ऐहिकं स्वपिता हन्ति स्वमाता पारलौकिकम् ॥ २८ ॥ लोकद्वयविहीनस्तु नैव सिद्धिं प्रविन्दते² । अयष्ट्वा पितरं यज्ञे यजेन्मातरमम्बिकाम् ॥ २६ ॥ विधिशतैरपि यज्ञं नानुगृह्णाति शाश्वती । आदावन्ते पितुस्तस्मात् कुर्यात् तर्पणमादरात् ॥ ३० ॥
१ ‘ ष्ठेभ्योऽन्त एव च ’ क पाठ. । २ ‘ प्रयच्छति ’ क पाठ ।
द्वांविंशः पटलः । २११ अदत्तं नोपतिष्ठेत दद्यात् तस्मादतः परम् । गोभूहिरण्यरत्नादि भक्ष्यभोज्यानि यानि च ॥ ३१ ॥ वासिनीभ्यो द्विजेभ्यश्च दीनान्धकृपणाय च । त्यक्त्वा चावश्यकं कर्म लौकिकं भावतत्परः ॥ ३२ ॥ योगक्षेमे हितं यत्तु कुर्यात् तदनुशासनात् । समर्थो जीवयेत् स्नेहात् स्वकीयाननुजीविनः ॥ ३३ ॥ दुष्टेभ्यो दुष्टचित्तेभ्यो हिंस्रे साहसिकात् तथा । बलिभ्यो धनमत्तेभ्यः कायस्थेभ्यो विशेषतः ॥ ३४ ॥ रक्षयेत् पालयेत् साधुः पुत्रानिव (नि?पि)तौरसान् । लोकांश्च त्रिविधान्मत्वा लालयेत् पालयेत् सदा ॥ ३५॥ वध्यान् वध्यात्तथा दण्ड्यान् दण्डयेच्छास्त्रदर्शनात् । अवध्यस्य वधे यावांस्तथादण्ड्यस्यै दण्डने ॥ ३६ ॥ दण्ड्यस्यादण्डने पापस्तावान् वध्यस्य रक्षणे । इति विज्ञाय योगात्मा योगक्षेमं समाचरेत् ॥ ३७ ॥ विभूतीरात्मनः पश्येत् तत्प्राप्त्या तन्निवेदयेत् । विभूतीरात्मनो यस्तु महादेव्यै प्रदर्शयेत् ॥ ३८ ॥ ताभिरेव युतो भूयादणिमादिविभूतिभिः । मुहूर्त्तत्रयमात्रं तु कुर्यात् तनुविचिन्त(येत?नम् ) ॥ ३६॥ चिन्तयेत् परं ब्रह्म मध्याह्ने समुपगते । मुहूर्त्तत्रयमात्रं तु निद्रया समुपासयेत् ॥ ४० ॥ ततो बुद्धौ यथाकाले तामेव समुपासयेत् । १ 'र्थे' ख पाठ. । २ 'हिंस्रेभ्य' क पाठ । ३ 'दण्डस्तस्य तु' क. पाठ । ४ 'द्वया' क पाठ ।
२१२ गन्धर्वतन्त्रे । ललितानि च नृत्यानि गीतानि मधुराणि च ॥ ४१ ॥ दर्शयेच्छावयेद् देव्यै भावात्मा तद्विलोकयेत् । नृत्येषु गीतानियता देव्यः स्रक्चन्दनार्चिताः ॥ ४२ ॥ भूषिताश्चारुभूषाभिर्वि[दुवे?हरे]त् ताभिरेव च । ततो मध्ये स्वयं देवः कामेश्वर इवापरः ॥ ४३ ॥ कामेश्वरीयुतो भूत्वा यजेत् कामेश्वरीं ततः । ब्रह्मचिन्तापरामोदमुदितो राज्यचिन्तकः ॥ ४४ ॥ मुहूर्तत्रयमात्रं तु निद्रया समुपासयेत् । दिवा दद्यात् पितृभ्यस्तु मातृभ्यो निशि तत्परः ॥ ४५ ॥ माता रात्रिः समाख्याता पिता दिवस एव च । उभयोरेकतां मत्वा सिद्धो भवति नान्यथा ॥ ४६ ॥ सोमः शक्तिः शिवः सूर्यो निशा शक्तिर्दिवा शिवः । यदा स भगवान् देवो महात्रिपुरभैरवः ॥ ४७ ॥ परापरायणोऽनन्तः परमानन्दनिर्भरः । परापररहस्याख्यां योगिनीं ब्रह्मरूपिणीम् ॥ ४८ ॥ शिवानन्दानन्दमयीं महात्रिपुरसुन्दरीम् । आकृष्योर्ध्वं यदा तिष्ठेत् तदहः परिकी(र्त?र्त्य)ते । ४६॥ शक्तिभैरवसंयोगादानन्दानन्दनिर्भ(या?रा)त् । भैरवानन्द[नम्रा?मग्ना]न्तर्लीला सा परमा कला ॥५०॥ मध्याह्नं तद्विजानीयान्मुहूर्तत्रयलक्षितम् । तौ तदा समभागेन तिष्ठेतां शक्तिभैरवौ ॥ ५१ ॥ पूर्वापरौ तदा ज्ञेयावेतद्विगुणलक्षितौ ।