गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 252, कुल 446 में से
संदर्भ में पढ़ेंसप्तदशः पटलः । १७१ द्विभुजां स्वर्णगौराङ्गीं सौम्यातिसौम्यरूपिणीम् । लीलारविन्दं [रा?वा]मे [णा?न] पाणिना बिभ्रतीं सदा ॥ ३१ ॥ शुक्लं तु चामरं [द?धृ]त्वा शिवस्याङ्केऽथ दक्षिणे । विन्यस्य दक्षिगं हस्तं तिष्ठन्तीं परिचिन्तयेत् ॥ ३२ ॥ त्रैलोक्यजननीं देवीं त्रैलोक्यजनकं शिवम् । उमामहेश्वरं ध्यात्वा मोहयेज्जगतीमिमाम् ॥ ३३ ॥ कामं शक्रं तथाकाशं तुरीयमनुभूषितम् । नादबिन्दुकलायुक्तं द्वयं बीजं तयोः क्रमात् ॥ ३४ ॥ उमा ङेन्ता तथा ङेन्तो महेश्वरो हृद[म्वि?न्वि]तः । मन्त्रराजः समाख्यातश्चतुर्वर्गफलप्रदः ॥ ३५ ॥ अनेन तौ समभ्यर्च्य सर्वसंक्षोभके ततः । अनङ्गकुसुमां पूर्वे कवर्गेणैव पूजयेत् ॥ ३६ ॥ चवर्गेण च देवेशि दक्षिणेऽनङ्गमेखलाम् । अनङ्गमदनां देवि टवर्गेण च पश्चिमे ॥ ३७ ॥ तवर्गेणोत्तरे भागे पूजयेन्मदनातुराम् । तथैवानङ्गरे[खासु?खां तु] पवर्गेण हुताशने ॥ ३८ ॥ यवर्गेण च देवेशि नैर्ऋतेऽनङ्गवेगिनी(म्) । शववर्गेण च वायव्येऽनङ्गाङ्कुशां च पूजयेत् ॥ ३६ ॥ ळक्षाभ्यां परमेशानि ईशे चानङ्गमालिनीम् । प्रोक्तस्थाने समावाह्य पूजयेच्चक्रनायिकाम् ॥ ४० ॥ कामबीजं पुरस्कृत्य मुद्रां संदर्शयेत् ततः । १ 'न्ती' क पाठः । २ 'शत्रु' क पाठ । ३ 'न्तोत' क पाठ ।