गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 308, कुल 446 में से
संदर्भ में पढ़ेंचतुर्विंशः पटलः । २२७ कुर्याद्वै महतीं पूजां संपन्नाङ्गविभूषिताम् ॥ २० ॥ उपहारैर्बहुविधैरलंकृतसुविग्रहाम् । नित्यमेवार्चनं देव्या नित्यमेव समाचरेत् ॥ २१ ॥ नित्याचारपरो मन्त्री नैमित्तिकवि(धं?धिं) चरेत् । नित्यनैमित्तिकपरः साधुः काम्यं विचिन्तयेत् ॥ २२ ॥ काम्यान्नैमित्तिकं नित्यं नित्यं नैमित्तिकात् परम् । नित्याचारविलोपी यः काम्यं नैमित्तिकं च वा ॥ २३ ॥ करोति स च दुर्मेधा नाप्नोति तस्य तत्फलम् । नित्याचारमनादृत्य यदन्यत्तु समीहते ॥ २४ ॥ निष्फलं तस्य तत्कर्म वन्ध्यास्त्रीमैथुनं यथा । अपि पुष्पफलैर्वापि पूजयेच्चक्रदेवताः ॥ २५ ॥ अङ्गहीनं तु पुरुषो न सम्यग्याज्ञिको भवेत् । अङ्गहीना तथा पूजा न सम्यक्फलदायिनी ॥ २६ ॥ ध्यानं पूजा जपो होम इति हस्तचतुष्टयम् । शरीरं न्यासजालं तु आत्मा तज्ज्ञानमेव च ॥ २७ ॥ भक्तिः शिरोऽत्र हृच्छ्रद्धा कौशलं नेत्रमीरितम् । एवं यज्ञशरीरं तु मत्वा साधकसत्तमः ॥ २८ ॥ यज्ञं समापयेन्नित्यं साङ्गमेवं खलु प्रिये । अङ्गहीने महान् दोषस्ततोऽङ्गं नावधीरयेत् ॥ २६ ॥ सर्वाङ्गपूर्णपुरुषो यज्ञाख्यः सर्वसिद्धिदः । तत्तदीहापरा शक्तिः सिद्धिः संयोगतस्तयोः ॥ ३० ॥ १ 'कर्मेव वा' ख पाठः । २ 'साङ्गेनैव' ख. पाठः । ३ 'पूर्णयज्ञः' क. पाठः ।