गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 309, कुल 446 में से
संदर्भ में पढ़ें२२८ गन्धर्वतन्त्रे । श्रीमत्त्रिपुरसुन्दर्याः पूर्णो यज्ञशरीरके । अङ्गबाधे यथा दोषो नान्यस्य हि तथा भवेत् ॥ ३१ ॥ स्वविभवा(न्न?नु)रूपा वै पूजा कार्या विभूतये । व्यतिक्रमात् तु हीनः स्याद् ब्रह्महत्यामवाप्नुयात् ॥ ३२ ॥ नाधिकं नैव च न्यूनमुभयं पापदायकम् । चतुर्दश्यामथाष्टम्यां पूर्णायां मासमध्यतः ॥ ३३ ॥ महाभूतदिने वापि यजेद् विभवविस्तरम् । कृष्णायाथ चतुर्दश्या युक्तं कुजदिनं यदा ॥ ३४ ॥ महाभूतदिनं तत्तु सर्वभूतवशंकरम् । यदि पुष्यो¹ भवेत् तत्र तदानन्तफलप्रदम् ॥ ३५ ॥ मन्त्रं यदि श्मशाने तु शवोपरि यथाविधि । अथवा प्रजपेद् देवीं मातृकां नीलरूपिणीम् ॥ ३६ ॥ कृत्वा जप्त्वा तदा कुर्याद् भूतप्रेतपिशाचकान् । तान् वशीकृत्य तल्लोके तथेह तैः सहा(स?ग)तः ॥ ३७ ॥ वशीकृत्य श्रिया युक्तो मोदते पुत्रपौत्रकैः । यथा तथा गृहे बाह्ये कृत्वा जप्त्वा नरो बुधः ॥ ३८ ॥ राक्षसान् किंनरान् कृत्वा तल्लोके च तथेह च । तैश्च प्रमुदितो भोगी भोगान् भुङ्क्ते यथेच्छया ॥ ३६ ॥ निजगृहे सदा यस्तु पवित्रे सुमनोहरे । कृत्वा जप्त्वा नरः प्राज्ञो यक्षान् सर्वान् वशं नयेत् ॥ ४० ॥ भुक्त्वा च मुदितो लोके धनी धनविशारदः ।
१ ' ष्या ' ख पाठ ।