गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 310, कुल 446 में से
संदर्भ में पढ़ेंचतुर्विंशः पटलः । २२६ धनप्राणो धनात्मा च सुखं तदनुचिन्तनात् ॥ ४१ ॥ अनुभूय तदानन्दं तदिहापि विराजते । नदीनद्समीपे तु पितृपीठेऽथवा प्रिये ॥ ४२ ॥ कृत्वा जप्त्वा च तल्लोके तथैह तैः प्रमोदितः । कामात्मा कामरूपी च कामी काममनोहरः ॥ ४३ ॥ कामयित्वाखिलान् कामान् कामराज इवापरः । राजते सततं राजा राजभिश्चैव वाजिभिः ॥ ४४ ॥ पुण्यक्षेत्रे महापीठे पुण्यवृक्षसमीपके । कृत्वा जप्त्वा नरो मानी मान्योऽयं यमलोकराट् ॥४५॥ सर्वदा[युञ्जते?यं जयो]लोके राजते सिद्धिं¹भूमिषु । मानुषत्वं विना सिद्धिः पुनः परमदुर्ल[भं?भा] ॥ ४६ ॥ यस्मात् तत् सर्वलोकानां भोगप्रत्यक्षदायकम् । प्रफुल्लकुसुमाकीर्णे उद्यानेऽतिमनोहरे ॥ ४७ ॥ प्रफुल्लकुन्दसंमोदप्रपूरितदिगन्तरे । वृक्षमूलेऽथवा जप्त्वा कृत्वा हस्तं स्वमस्तके ॥ ४८ ॥ गन्धर्वरूपवान् भूत्वा गीतनृत्यविशारदः । गन्धर्वान् किंनरान् कृत्वा तल्लोके च तथैह तैः ॥ ४६ ॥ आनन्दं परमं लब्ध्वा गीतनृत्यादिगोचरम् । तदानन्दमये रम्ये मोदते तत्प्रसादतः ॥ ५० ॥ नागलोकसंधिभूमौ वने गिरिगुहासु च । कृत्वा जप्त्वा सदा देवीं नागान् सर्वान् वशं नयेत् ॥५१॥ १ 'द्ध' ख पाठ. ।