भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 317, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 317

२३६ गन्धर्वतन्त्रे । तत्कथय महादेव लोकदेशविभेदतः । ईश्वर उवाच मानुषे¹ भारतं श्रेष्ठं तत्र च पुण्यदेशकम् ॥ ४० ॥ लोकाः पुण्यपराः श्रेष्ठास्तेषां ज्ञानी विशिष्यते । ज्ञानपुण्यविहीनास्तु पिशाचा भोगतत्पराः ॥ ४१ ॥ पशुप्रायजना म्लेच्छाः प्रेतलोकनिवासिनः । तदस्तीति प्रमाणेन जानाति² न समीहते ॥ ४२ ॥ भुङ्क्ते बहुविधान् भोगान् भूतलोकप्रमाणकः । भक्ष्याभक्ष्यं न जानन्ति कार्याकार्यमथापि वा ॥ ४३ ॥ वर्तन्तेऽविधिना यज्ञे भोगैर्मधुपुरस्कृतैः । ते पुनरिह देवेशि निशाचरप्रमाणकाः ॥ ४४ ॥ जीवनं धनमेवात्र धनचिन्तारापयणैः³ । धनसंचयकारी च दानभोगवहिष्कृतः ॥ ४५ ॥ शिश्नोदरसुखै यस्तु केवलं वर्तते जनः । यक्षलोकप्रमाणी च यक्षलोके महीयते ॥ ४६ ॥ सदाचारमये देशे सदाचारविहारवान् । अरोगो रूपवान् भोगी पितृलोके महीयते ॥ ४७ ॥ मध्यदेशे महापुण्ये देवनदीसमन्विते । पूज्यपूजकभावेन यज्ञायज्ञविशारदः ॥ ४८ ॥ शुद्धान्तःकरणो विज्ञो मानुषैलोकसूचकः । १ ‘ष’ ख. पाठ । २ ‘नन्ति’ ख पाठ. । ३ ‘णा.’ ख. पाठ. । ४ ‘सु’ क. पाठ. । ५ ‘षो’ ख पाठ ।