गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 322, कुल 446 में से
संदर्भ में पढ़ेंषड्विंशः पटलः । २४२ चापलानि च जि(ह्मा?ह्ला)नि कार्याणि परिदेवनम् । ऋणदानं तथादानं वस्तूनां क्रयविक्रयम् ॥ ३० ॥ न कुर्याद् गुरुणा सार्धं शिष्योऽपि च कदाचन । यतो गुरुः शिवः साक्षात्तं स्तुवन् प्रणमन्(त्य?भ)जेत् ॥३१॥ यथा देवे तथा मन्त्रे यथा मन्त्रे तथा गुरौ । यथा गुरौ तथा चात्मन्येवं भक्तिक्रमः प्रिये ॥ ३२ ॥ अवमन्य गुरोर्वाक्यं स्वबुद्ध्या कुरुते तु यः । न कदाचिद्भवेत् सिद्धिर्मन्त्रैर्देवप्रपूजनैः ॥ ३३ ॥ मन्त्रेण तस्य नियतं पूजां कुर्याद्यथोदितम् । आसनं शयनं वस्त्रं भूषणं पादुकां तथा ॥ ३४ ॥ छायां कलत्रमन्यच्च यद् गुरोस्तत् प्रपूजयेत् । गु[रु?रोः]शय्यासनं पीठमुपानच्छत्रपादुकाम् ॥ ३५ ॥ स्नानोदकं तथा छायां लङ्घयेन्न कदाचन । गुरुं दृष्ट्वा भवेद् हृष्टः परमानन्दनिर्भरः ॥ ३६ ॥ भीतभीतः पदाम्भोजं पश्येच्चकितलोचनः । (उो?उ)पदीकृत्य सर्वस्वं तदादिष्टं मुदान्वितः ॥ ३७ ॥ कुर्यात् सर्वप्रयत्नेन यथा तुष्टो भवेत् तु सः । सकृत् प्रणम्य दण्डवदिष्टदेवधिया गुरुम् ॥ ३८ ॥ पुलकाश्रितसर्वाङ्गः पूजाकोटिफलं लभेत् । यद्यत् प्रियतमं वस्तु भक्त्या तस्मै निवेदयेत् ॥ ३६ ॥ अदत्त्वा गुरवे वस्तु यत्किंचिदिह भूतले । आत्मसात् कुरुते यस्तु स भवेद्योगिनीप(तिः?शुः) ॥ ४० ॥