भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 323, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 323

२४२ गन्धर्वतन्त्रे । यंदेव लभ्यते वस्तु भिक्षया वान्यचेष्टया । तन्निवेद्य तदादिष्टं स्वयं भुञ्जीत सादरम् ॥ ४१ ॥ इदमेव हि सच्छिष्यैः कर्तव्यं गुरुनिष्कृतिः । येन विशुद्धभावेन सर्वथात्मार्पणं गुरौ ॥ ४२ ॥ गुरुता शिष्यता चैव तयोर्वत्सरकालतः । दापयेत् स्वकृतं दोषं पत्नी पापं स्वभर्तरि ॥ ४३ ॥ तथा शिष्यार्जितं पापं गुरुमाप्नोति निश्चितम् । सद्गुरुः स्वाश्रमे शिष्यं वर्षमेकं परीक्ष्य वै ४४ दीक्षाकालं ततः प्राज्ञो भावयेत् सुसमाहितः । शरत्काले च वैशाखे दीक्षा श्रेष्ठफलप्रदा ॥ ४५ ॥ फाल्गुने मार्गशीर्षे च ज्येष्ठे दीक्षा च मध्यमा । आषाढो माघमासश्च कनिष्ठौ सद्भििरादृतौ ॥ ४६ ॥ निन्दितः श्रावणश्चैत्रः पौषो भाद्रपदस्तथा । निन्दितेष्वपि मासेषु दीक्षोक्ता ग्रहणे शुभा ॥ ४७ ॥ विषुवायनयोर्द्वन्द्वे आषाढे मदनोत्सवे । ग्रहणेऽर्कस्य चेन्दोर्वा दिनं तत्फलदं भवेत् ॥ ४८ ॥ मन्त्रारम्भं सुधीः कुर्याच्छुक्लपक्षे शुभेऽहनि । रवौ गुरौ सिते सोमे कर्तव्यं बुधवासरे ॥ ४९ ॥ पूर्णिमा पञ्चमी चैव द्वितीया सप्तमी तथा । त्रयोदशी च दशमी प्रशस्ता सर्वकामदा ॥ ५० ॥ पञ्चाङ्गशुद्धदिवसे स्वोदये राशितारयोः । १ 'दै' क पाठ ।