गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 324, कुल 446 में से
संदर्भ में पढ़ेंषड्विंशः पटलः । २४३ गुरुशुक्रोदये शुद्धे लग्ने द्वादशशोभिते ॥ ५१ ॥ चन्द्रतारानुकूले च स्थिरे दीक्षा शुभा प्रिये । त्रिविधा सा भवेद् दीक्षा मान्त्री शाक्ती च शांभवी ॥५२॥ मन्त्रार्चनासनस्थानध्यानयोगादिभिः कृता । मान्त्री दीक्षा च सा प्रोक्ता यथाशास्त्रोक्तरूपिणी ॥५३॥ सिद्धैः स्वशक्तिमालोक्य तया केवलया शिशोः । निरुपायकृता दीक्षा शा[केयो?क्रीयं]परिकीर्तिता ॥५४॥ अभिसंधिं विनाचार्यशिष्ययोरुभयोरपि । देशिकानुग्रहेणैव शिवताव्यक्तिकारिणी ॥ ५५ ॥ शिष्टा तु शांभवी दीक्षा शिवावेशनकारिणी । अज्ञानाद् विश्वविज्ञानं त्राणं संसारबन्धनात् ॥ ५६ ॥ यतः करोति संसिद्धयै मन्त्र इत्युच्यते तदा । भूमेः परिग्रहं कुर्याद्यथोक्तं ते मया पुरा ॥ ५७ ॥ शल्यादिशोधनं कुर्याद् याज्ञे विधिविधानतः । विप्राशि[रा?षा] वेदघोषैर्मङ्गलाचारपूर्वकम् ॥ ५८ वास्तोर्बलिं प्रकुर्वीत मण्डलं रचयेत् तथा । सर्वमङ्गलसंपत्त्यै विदध्यादङ्कुरार्पणम् ॥ ५६ ॥ गुरुः कालं विनिश्चित्य प्रागेव सप्त वासरान् । शिष्यानुकूलमन्त्रेण पूजयेत् परदेवताम् ॥ ६० ॥ प्रणवाद्यैर्नमोऽन्तैश्च रात्रौ रात्रीशनामभिः । प्रो(क्त?क्तान्)बलींस्तु तेषां वै वितरेद्विधिना गुरुः ॥६१॥ १ 'शेषं' क पाठः । २ 'याज्ञी' क पाठ ।