गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 325, कुल 446 में से
संदर्भ में पढ़ें२४४ गन्धर्वतन्त्रे । पूजां रात्रौ प्रकुर्वीत दिक्पालानपि पूजयेत् । तत्तद् ध्वजमधिष्ठाय तत्तद्वर्णविराजितम् ॥ ६२ ॥ पायसान्नैर्बलिं तेभ्यो दत्त्वा तान् प्रार्थयेद् गुरुः । धारायुक्तं वारिपात्रं तत्तन्मन्त्रानुमन्त्रितम् ॥ ६३ ॥ शिरस्याधाय देवेशि प्रदक्षिणमनुव्रजेत् । यज्ञं संरक्षयेद् दिव्यमादौ गुरुरनन्यधीः ॥ ६४ ॥ शक्रादिसहिता देवाः पूजितास्तर्पितास्तथा । म(थं?खं)रक्षन्तु संतुष्टा लोकपाला नमोऽस्तु वः ॥ ६५ ॥ म(थे?ख)ग्रहणपूर्वेद्युः सायमेव निवासनेम् । गुर्वादिসহিতो वासो रात्रौ नियमपूर्वकम् ॥ ६६ ॥ विधिवन्मण्डपं चारुवेदिकामध्यशोभितम् । पताकाध्वजसंकीर्णं वितानादिविभूषितम् ॥ ६७ ॥ निर्धूमशान्तसंबुद्धदीपावलिभिरञ्चितम् । पुष्पाक्षतफलैः कुम्भैर्लाजैरर्चिर्भिरर्चितम् ॥ ६८ ॥ तरुपल्लवमालाभिः सर्वतः समलंकृतम् । संवृतं कदलीस्तम्भैः पूगोपेतैरैरंकृतम् ॥ ६६ ॥ पञ्चगव्येन तद्गेहं चक्रराजं शिशुं तथा । शोधयेन्मूलमन्त्रेण मन्त्रितेन वरानने ॥ ७० ॥ समानं पञ्चगव्यानां कृत्वा भागं विशोधयेत् । मूलमन्त्रेण संमन्त्र्य कुशाग्रेणैव शोधयेत् ॥ ७१ ॥ तेन सर्वविशुद्धिः स्यात् सर्वपापनिकृन्तनम् । १ 'रवि' ख. पाठः । २ 'न्तै.' ख. पाठ. । ३ 'पात्रै' ख पाठ ।