गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 342, कुल 446 में से
संदर्भ में पढ़ेंअष्टाविंशः पटलः । २६१ प्रलपन् वा जपेद् यावत् तावन्निष्फलमुच्यते । सकृदुच्चारिते शब्दे प्रणवं समुदीरयेत् ॥ ५९ ॥ प्रोक्ते पामरशब्दे तु प्राणायामं सकृच्चरेत् । बहुप्रलापे चाचम्य न्यस्याङ्गानि ततो जपेत् ॥ ६० ॥ पतितानामन्त्यजानां दर्शने भाषणे श्रुते । क्षुतेऽधोवायुगमने जृम्भणे जपमुत्सृजेत् ॥ ६१ ॥ कृत्वाचम्य जपेच्छेषं यद्वा सूर्यादिदर्शनम् । शयीत कुशशय्यायां शुचिवस्त्रधरः सदा ॥ ६२ ॥ प्रत्यहं चालयेच्छय्यामेकाकी निर्भयः स्वपेत् । एवमादींश्च नियमान् पुरश्चरणकृच्चरेत् ॥ ६३ ॥ एवमुक्तविधानेन विलम्बत्वरितं विना । उक्तसंख्याजपं कुर्यात् पुरश्चरणसिद्धये ॥ ६४ ॥ देवतागुरुमन्त्राणामैक्यं संभावयन् धिया । जपेदेकमनाः प्रातःकालान्मध्यंदिनावधि ॥ ६५ ॥ यत्सं(ख्यामा?ख्यया)समारब्धं तच्च कुर्याद्दिने दिने । यदि न्यूनाधिकं कुर्याद् व्रतभ्रष्टो भवेन्नरः ॥ ६६ ॥ नैरन्तर्यविधिः प्रोक्तो न दिनं व्यतिलङ्घयेत् । दिवसातिक्रमात् (तेषां?पुंसः) सिद्धिहानिः प्रजायते ॥६७॥ मन्त्रं जप्त्वाम्बु पानीयैः सुलोचनमभोजनम् (?) । कुर्याद्यथोक्तविधिना त्रिसंध्यं देवमर्चयेत् ॥ ६८ ॥ एकसंध्यं द्विसंध्यं वा न मन्त्रं केवलं जपेत् ।