गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 348, कुल 446 में से
संदर्भ में पढ़ेंएकोनत्रिंशः पटलः । २६७ विधिवज्जायते देवि रुद्रमूर्त्तिरिवापरः । मन्त्राणां नव लक्षाणि कृत्वा लिङ्गानि वै नव ॥१८॥ नवैव परिजप्याथ नवलक्षफलं लभेत् । जातसूतकमादौ स्याद् वृत्ते च मृतसूतकम् ॥१९॥ सूतकद्वयसंयुक्तो यो मन्त्रः स न सिध्यति । स्वयं तद्रहितं कृत्वा मन्त्रं यावज्जपेद्धिया ॥२०॥ सूतकद्वयनिर्मुक्तः स मन्त्रः सर्वसिद्धिदः । सत्कुलस्थानजातीनां शुचीनां श्रीमतां सताम् ॥ २१ ॥ नियतमग्निहोतॄणां भिक्षाशिनो(शना) ग्रजन्मनाम् । एषां मध्ये तु यः कश्चिद्गुरुर्वा शिष्य एव वा ॥२२॥ मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति च । कथितं सूतकं तस्य जपात् सिद्धिर्न जायते ॥२३॥ गुप्तवी(जा?र्या)श्च ये मन्त्रा न दास्यन्ति फलं प्रिये । मन्त्राश्चैतन्यसंयुक्ताः सर्वसिद्धिकराः स्मृताः ॥२४॥ चैतन्यरहिता मन्त्राः प्रोक्ता वर्णास्तु केवलम् । फलं नैव प्रयच्छन्ति लक्षकोटिजपादपि ॥ २५॥ मन्त्रोच्चारे कृते यादृक् स्वरूपं प्रथमं भवेत् । शते सहस्रे लक्षे वा कोटिजापे न तत्फलम् ॥ २६ ॥