गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 347, कुल 446 में से
संदर्भ में पढ़ें२६६ गन्धर्वतन्त्रे । केवलं जपमात्रेण सिद्धयः सिद्धिकाङ्क्षिणाम् । कोटिजापे तु संपूर्ौ मनो मन्त्रात्मकं भवेत् ॥ ६ ॥ यावत्तावद्धि जप्तव्यं मनसैव नचान्यथा । मन्त्रमात्रस्वरूपे च सिद्धे मनसि पार्वति ॥ १० ॥ ध्यानमात्रं मनः कृत्वा ध्यानं ब्रह्मणि चार्पयेत् । विदिते ब्रह्मणः नेत्रे विदितः सर्ववित् प्रभुः ॥ ११ ॥ नव स्थानानि कथ्यन्ते शृणु सावहिता प्रिये । ज्योतीरूपं तदाधारे मेढ्रस्थाने शिखाप्रभम् ॥ १२ ॥ नाभिस्थं सूर्यविम्बाभं तरुणादित्यवर्च्चसम् । हृदि ज्योतिःशिखाकारं कण्ठे दीपशिखाप्रभम् ॥ १३॥ भ्रूमध्ये रत्नसङ्काशं तदूर्ध्वं भास्करप्रभम् । लम्बिके चन्द्रबिम्बाभं ततो वैदूर्यसंनिभम् ॥ १४ ॥ नवमे विश्वतेजा हि घण्टावैदूर्यसंनिभः । लिङ्गरूपी ह्यहं देवि नव लिङ्गानि यानि च ॥ १५ ॥ नव स्थानानि मन्त्रेण क्रमात् संभिद्य कुण्डलीम् । विसंज्ञाममृतं पीत्वा पुनराधारमानयेत् ॥ १६ ॥ मूलस्थानगतं मन्त्रं स्मरेदेवं क्रमेण तु । नवलक्षप्रमाणं तु जप्त्वा त्रिपुरसुन्दरीम् ॥ १७ ॥