गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 353, कुल 446 में से
संदर्भ में पढ़ें२७२ गन्धर्वतन्त्रे । तथा ऽमन्त्राः समस्ताश्च विद्याया(य?म)त्र संस्थिताः । गुरुक्रमेण संप्राप्तः संप्रदायार्थ ईरितः ॥ ६१ ॥ निग[र्वो?र्भो]ऽपि च देवेशि शिवगुर्वा[थ?त्म] गोचरैः । तत्प्रकारं च देवेशि दिङ्मात्रेण वदामि ते ॥ ६२ ॥ शिवगुर्वात्मनामैक्यानुसंधानात् तदात्मकम् । निष्कलत्वं शिवे बुद्ध्वा तद्रूपत्वं गुरोरपि । तन्निरीक्षणसामर्थ्यादात्मनश्च शिवात्मताम् ॥ ६३ ॥ भावयेद्भक्तिनम्रस्तु शङ्कोन्मेषाकलङ्कितः । कौलिकं कथयिष्यामि चक्र[मे?दे]वतयोरपि ॥ ४६ ॥ विद्यागुर्वात्मनामैक्यं तत्प्रकारः प्रदर्श्यते² । तथा मन्त्रात्मकं चक्रं देवतायाः परं वपुः ॥ ६५ ॥ एकादशाधिकशतै³र्देवतात्मतया स्थितम् । लकारैश्चतुरस्राणि, वृत्तत्रितयसंयुक्तम् ॥ ६६ ॥ सरोरुहद्वयं (शक्तो?शाक्तै)रग्नी(सो?षो) मात्मकं प्रिये । हृल्लेखात्रयसम्भु[ल्यै?तै]रक्षरैर्नवसंख्यकैः ॥ ६७ ॥ बिन्दुत्रययुतैर्जातं नवयोन्यात्मकं प्रिये । मण्डलत्रयसंयुक्तं चक्रं शक्त्यनलात्मकम् ॥ ६८ ॥ व्योमबीजत्रयेणापि, प्रमातृत्रितयात्मकम् । इच्छा[दिना?ज्ञान]क्रियारूपमादनत्रयसंयुक्तम् ॥ ६६ ॥ १ 'गौरव' क पाठ । २ 'दृश्यते' क पाठ । ३ 'त' क पाठ ।