भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 354, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 354

एकोनत्रिंशः पटलः । २७३ सर्ववर्णात्मकं बिन्दुचक्रं सद्यः शिवात्मकम् । गणेशत्वं महादेव्याः ससोमरविपावकैः ॥ ७० ॥ इच्छाज्ञानक्रियाभिश्च गुणत्रययुतैः पुनः । ग्रहरूपा परा देवी, ज्ञानकर्मेन्द्रियैरपि ॥ ७१ ॥ त(दुत्थै?दर्थै)रेव देवेशि करणैरान्तरैः पुनः । प्रकृत्या च गुणेनापि पुंस्त्वबन्धेन चात्मना ॥ ७२ ॥ नक्षत्रविग्रहा जाता, योगिनीनामथोच्यते । त्वगादिधातुनाथाभिर्डाकिन्यादिभिरप्यसौ ॥ ७३ ॥ वर्गाष्टकनिविष्टाभिर्योगिनी(भ्य?भि)स्तु संयुता । योगिनीरूपमास्थाय क्रीडते विश्वरूपिणी ॥ ७४ ॥ प्राणोऽपानः समानश्च व्यानोदानौ तथा पुनः । । नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥ ७५ ॥ जीवात्मा परमात्मा च तैरेव [बलि?राशि]रूपिणी । अकथादित्रिपंक्त्यात्मतार्तीयादिक्रमेण सा ॥ ७६ ॥ (जनना?गणेशोऽ)भून्महाविद्या परावागादिवाङ्मयी । बीजबिन्दुध्वनीनां च त्रिकूटेषु ग्रहात्मिका ॥ ७७ ॥ हृल्लेखात्रयसम्भूतैस्तिथिसंख्यैरथाक्षरैः । अन्यैर्द्वादशभि[र्व्यक्तै?र्वर्णै]रेषा नक्षत्ररूपिणी ॥ ७८ ॥