गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 355, कुल 446 में से
संदर्भ में पढ़ें२७४ गन्धर्वतन्त्रे । विद्यान्तर्भूतशक्त्याद्यैः शाक्तैः¹ षद्भिरथाक्षरैः । योगिनी[वर्गा?त्वं च]विद्याया, राशित्वं चान्त्यवर्जितैः ॥७६॥ एवं विश्वप्रथाकारचक्ररूपा महेश्व(रि?री) । देवीदेहो यथा देवि गुरुदेहस्तथैव च ॥ ८० ॥ तत्प्रसादाच्च शिष्योऽपि तद्रूपः सम्प्रकाशते । सहस्रदलमध्ये तु त्रिकोणं परिचिन्तयेत् ॥ ८१ ॥ तत्रैव मादनं बीजं बिन्दुमाश्रित्य दीपयेत् । कोटिचन्द्रप्रतीकाशं चिदानन्दमयं परम् ॥ ८२ ॥ अनुत्तरपदं गुह्यं ललाटोर्ध्वे व्यवस्थितम् । भगमाधारसंस्थानं त्रिकोणपुरमाश्रितम् ॥ ८३ ॥ मृणालतन्तुरूपौ हि विश्वोत्पत्तेश्च कारणम् । इच्छाज्ञानक्रियारूपा चतुर्थी हृदये स्थिता ॥ ८४ ॥ शक्रं ललाटमध्ये तु दीपाभं परिचिन्तयेत् । विद्युत्कोटिप्रतीकाशं पञ्चमं नेत्रनासिके ॥ ८५ ॥ शिवो नादाख्यसंयुक्तस्त्रिषु शून्येषु संस्थितः । सूर्यकोटिप्रतीकाशो महापद्मोपरिस्थितः ॥ ८६ ॥ सकारं मुखमध्ये तु बालार्कसदृशं परम् । मादनं जठरे देवि वराभं परिचिन्तयेत् ॥ ८७ ॥ १ 'कै' ख पाठ.। २ 'ष' ख पाठः।