गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 356, कुल 446 में से
संदर्भ में पढ़ेंएकोनत्रिंशः पटलः । २७५ हकारं प्राणवायौ च हंसा [भि?भं] परिचिन्तयेत् । कलाषोडशपत्रे च इन्द्रमोंकाररूपकम् ॥ ८८ ॥ ह्रींकारं हृदये पद्मे कोटिसूर्यसमप्रभम् । बिन्दुद्वये कुचयुग्मे यवाभे चार्थचन्द्रकम् ॥ ८९ ॥ नादबिन्दुस्तदग्रे तु शिवशक्तिसमन्विते । कामराजं महेशानि आकर्षणकरं परम् ॥ ९० ॥ नाभिपद्मे त्रिकोणे च दाडिमाभं सकारकम् । पादद्वये महेशानि मादनं दीपसंनिभम् ॥ ९१ ॥ पृष्ठोपरिस्थितं देवि इन्द्रं तेजःस्वरूपिणम् । चतुर्थं योनिमध्ये तु दीपाभं परिचिन्तयेत् ॥ ९२ ॥ शिवेन लिङ्गरूपेण तद्विन्दुयुगलेन च । विद्याबीजत्रयं देवि योनित्वे परिचिन्तयेत् ॥ ९३ ॥ लिङ्गं योनिं च सत्त्वं च चतुर्थं कथितं मया । (५)अथ सर्वरहस्यार्थं कथयामि तवानघे ॥ ९४ ॥ मूलाधारे ज्वलद्रूपं वाग्भवाकार[तद्धि?तां] गते । अष्टात्रिंशत्कलायुक्तपञ्चाशद्वर्णविग्रहा ॥ ९५ ॥ विद्यां कुण्डलिनीरूपा मण्डलत्रयभेदिनी । तडित्कोटिप्रभाप्रख्या विषतन्तुनिभाकृतिः ॥ ९६ ॥ व्योमेन्दुमण्डलासक्ता [स्व?सु]धास्रोतःस्वरूपिणी । सदाव्याप्तजगत्कृत्स्ना सदानन्दस्वरूपिणी ॥ ९७ ॥ एषा स्वात्मेति बुद्धिस्तु रहस्यार्थो महेश्वरि ।