गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 363, कुल 446 में से
संदर्भ में पढ़ें२८२ गन्धर्वतन्त्रे । अथ वक्ष्ये महेशानि शक्तिकूटस्य साधनम् । आधाराद्ब्रह्मरन्ध्रान्तं विद्युदग्निसमप्रभम् ॥ ४५ ॥ स्रवत्सुधामयं देवि शक्तिकूटं विचिन्तयेत् । देहिनाममृतानन्दवर्षधारारसोपमम् ॥ ४६ ॥ सर्पाणां दर्शनादेव (उडी?जडी)करणकारकः । स्थिरजङ्गमेशंकारुयविषघातविनाशकैः ॥ ४७ ॥ महारोगैर्पीडितानां शरच्चन्द्रकरोपमः । देव्युवाच । कथं कामकला देव सूचिता न प्रकाशिता ॥ ४८ ॥ यस्याः स्मरणमात्रेण सायुज्यं लभते नरः । ईश्वर उवाच । तत्तैविध्यं शृणु प्राज्ञे सर्वतन्त्रेषु गोपितम् ॥ ४६ ॥ स्थूलं समं तथा नाम सूक्ष्मं मन्त्रतनुं तथा । नभोमहाबिन्दुमुखी चन्द्रसूर्यस्तनद्वया ॥ ५० ॥ सुमेरुहार्धकलया शोभमाना मही यदा । पातालतलविन्यस्ता त्रिलोकीयं कलात्मिका ॥ ५१ ॥ ललितायास्त्रिभिर्बीजैः प्रकाशार्थो य ईर्यते । तस्यविम(र्ष?र्श)ईकारो बिन्दुना तत्त्रिधा गतम् ॥ ५२ ॥ १ 'सकालाख्य' क पाठ । २ 'विषोपविषनाशनः' ख, पाठ. । ३ 'रौद्र' क. पाठः । ४ 'न्यासात्' ख पाठः ।