गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 364, कुल 446 में से
संदर्भ में पढ़ेंत्रिंशः पटलः । २८३ तन्तुरीयस्वरूपार्णं बिन्दुत्रितयवदीरितम् । ईकारोर्ध्वगतो बिन्दुर्मुखं भानुरधोगतौ ॥ ५३ ॥ स्तनौ दहनशीतांशू योनिर्हार्धकला भवेत् । तदात्मक(स्तु?त्व)न्व्यास्तु¹ साधकस्य च तद्भवेत् ॥ ५४ ॥ तदुद्भवं शृणु प्राज्ञे महोदयकरं परम् । ऊर्ध्वबिन्दात्मकं वक्त्रमधोबिन्दुद्वयात्मकम् ॥ ५५ ॥ कुचद्वयं तु तच्छेषैः शेषाङ्गानि विभावयेत् । इति ते कथिता कामकलाया बाह्यभावना ॥ ५६ ॥ तामेव त्वां पुनर्वक्ष्ये भावनामान्तरात्मिकाम् । मूलादिब्रह्मरन्ध्रान्तं स्फुरद्विद्युल्लताकृतिम् ॥ ५७ ॥ ध्यायेत् कुण्डलिनीं देवि तद्विद्यास्वरूपिणीम् । षट्चक्रभेदिनीं देवीं बिन्दुत्रयात्मिकां पराम् ॥ ५८ ॥ तां च हार्धकलारूपां चिन्तयेत्पद्ममध्यगाम् । एवं कामकलारूपा जागर्ति सचराचरे ॥ ५९ ॥ सा च त्रयीमयी प्रोक्ता नास्ति किंचित्तया विना । साम्ना मुखं समाख्यातम्ऋग्यजुर्भ्यां स्तनद्वयम् ॥ ६० ॥ अथर्वणा समाख्याता हार्धरूपा परा कला । तुरीयं परमेशानि साक्षाद्ब्रह्मैव केवलम् ॥ ६१ ॥
१ 'स्ते' ख. पाठः । २ 'ल्किीन्' ख पाठः ।