गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 378, कुल 446 में से
संदर्भ में पढ़ेंत्रयस्त्रिंशः पटलः । २६७ निर्वर्त्य विधिना देवि चक्रं स्पृष्ट्वा करेण च । कुङ्कुमागुरुकस्तूरीरोचनाचन्दनेन्दुभिः ॥ १६ ॥ विलिप्यथ पुनश्चक्र सुवर्णस्य शलाकया । रेखोन्मीलनमापाद्य यजेदाधारपूर्वकम् ॥ २० ॥ प्राणप्रतिष्ठामन्त्रेण प्राणांस्तत्र निवेशयेत् । ॐक्षीरोदधिः सनादेन बिन्दुना परिमण्डितः ॥ २१ ॥ नकुलीशोऽग्निमारूढो मायानादेन्दुलाञ्छितः । कामदेवोऽग्निमारूढः सद्योजातेन भूषितः ॥ २२ ॥ नादबिन्दुकलायुक्तः सर्वप्राणप्रदायकः । बीजत्रयमिठं देवि शिवबीजं सचन्द्रकम् ॥ २३ ॥ तदन्ते परमेशानि (ख ? स) र्गवान् भृगुरव्ययः । ततो भू(यात्तु ? यस्तु) षष्ठ्यन्ता महात्रिपुरसुन्दरी ॥ २४ ॥ क्रमात्प्राणा इह प्राणास्तथा जीव इह स्थितः । अमुष्याः सर्वेन्द्रियाणि भूयोऽमुष्याश्च पार्वति ॥ २५ ॥ वाङ्मनोनयनश्रोत्रघ्राणप्राणास्तथैव च । पश्चादिहागत्य सुखं चिरं तिष्ठन्त्वग्निप्रिया ॥ २६ ॥ अयं प्राणमनुः ॐप्रोक्तः सर्वजीवप्रदायकः । अनेन मनुना देव्याः प्राणांस्तत्र निवेश्य च ॥ २७ ॥ स्पृशञ्जपेत् कराग्रेण श्रीचक्रं पूजयेत्ततः । उपचारैस्तथा प्रोक्तैस्त्रिसंध्यं त्रिदिनं यजेत् ॥ २८ ॥ ॐ सनादादि क्षीरोदधि आँ, रेफमारूढो नकुलीशो ह मायादिना ईबीजेन लाञ्छितः । कामदेव क अग्नि रेफ सद्योजात ओ तेन क्रौं, शिवबीज सचन्द्रकमिति हस, । तत सर्गवानित्यादिना सोहमिति बीजोद्धार । ॐ आँह्रीँक्रौँहस सोह महात्रिपुरसुन्दर्या , प्राणा इह प्राणा १५ जीव इह स्थित १५ सर्वेन्द्रियाणि १५ वाङ्मनोनयनश्रोत्रघ्राणप्राणा इहागत्य सुख चिर तिष्ठन्तु स्वाहेति स्पष्टम् । १ 'न्मे' क पाठ ।