गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 388, कुल 446 में से
संदर्भ में पढ़ेंचतुस्त्रिंशः पटलः । ३०७ आवेशो मरणं मूर्च्छा विकाराः समुदीरिताः । समता सर्वभूतेषु मानापमानयोः समः ॥ ८६ ॥ समः शत्रौ च मित्रे च समलोष्टाश्मकाञ्चनः । ब्रह्मचिन्तोद्द्भवानन्दनिवृत्तबाह्यचित्तता ॥ ८७ ॥ सर्वकालेषु सर्वत्र समत्वं निर्विकारता । चक्षुषोरनिमेषत्वं मधुरस्मितभाषणम् ॥ ८८ ॥ अमृतस्य गुणा एते कथिता भुवि दुर्लभाः । वैराग्यं च मुमुक्षुत्वं त्यागिता सर्ववश्यता ॥ ८९ ॥ अष्टाङ्गयोगाभ्यसनं भोगेच्छापरिवर्जनम् । सर्वभूतेष्वनुकम्पा सर्वज्ञादिगुणोदयः ॥ ९० ॥ इत्यादिगुणसंपत्तिः सिद्धेर्लक्षणमुच्यते । ख्यातिर्वाहनभूषादिलाभः सुचिरजीवनम् ॥ ९१ ॥ नृपाणामङ्गनानां च राजत्वं लोकवश्यता । महैश्वर्यं धनित्वं च पुत्रदारादिसंपदः ॥ ९२ ॥ अधसाः सिद्धयः प्रोक्ता मन्त्रिणां प्रथमस्त्विह । सिद्धयस्तु सुराः साक्षान्मानवानामसंशयः ॥ ९३ ॥ यत्कृते परमेशानि निःश्वसन्ति कुलाङ्गनाः । साश्रुपातं विना पञ्च गद्गदं भृशदुःखिताः ॥ ९४ ॥ तस्य स्युर्विफलाः सर्वाः क्रियाः सर्वत्र चोदिताः । कान्तासंतापजो वह्निर्दहत्यासप्तमं कुलम् ॥ ९५ ॥ कान्ताः संतोषयेत् तस्माद्विप्रियं न मनाक् स्पृशेत् । संसिद्धेः कारणं कान्ता मूलं संसारवर्त्मसु ॥ ९६ ॥ १ 'स्व' क पाठ ।