गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 393, कुल 446 में से
संदर्भ में पढ़ें३१२ गन्धर्व्वतन्त्रे । पशुपशविनाशाय दिव्यज्ञानोपलब्धये । इदं पवित्रममृतं पिबामि भवभेषजम् ॥ ३२ ॥ मद्यं मांसं तथान्यत्तु यत्किंचित् कुलभूषणम् । शक्त्यै दत्त्वा पुनः शेषमात्मन्येव नियोजयेत् ॥ ३३ ॥ पाययित्वा पुनः पानं तन्मुखादमृतं पिबेत् । ततश्च शोधयेद्दीपं दीपो भवति नान्यथा ॥ ३४ ॥ आनन्दोदयपर्य्यन्तं साधकश्च पिवेन्मधु । कर्पूर (स ? श) कलोन्मिश्रताम्बूलपूरिताननः ॥ ३५ ॥ मदिराघूर्णनयनो दिग्वासाः कुलभूषणः । वदेत् सविनयं वाक्यं सिद्धिदे परमेश्वरि ॥ ३६ ॥ चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव । इति प्रसादमासाद्य कारयेत्तां दिगम्बरीम् ॥ ३७ ॥ त्रिकोणावद्भगं ज्ञात्वा सर्वसिद्धिप्रदायकम् । कूटत्रयात्मकं स्मृत्वा सर्वानन्दमयं स्मरेत् ॥ ३८ ॥ आत्मानं देवतारूपमद्वैतं परिचिन्तयन् । पूर्णचन्द्रनिभं वक्त्रं पू (र्णेर्शीं ? र्णांदिं) चुम्बनैर्यजेत् ॥ ३६ ॥ जालन्धरं महापीठं स्तनद्वयमुदीरितम् । अपानमूरुयुगलं कामरूपमतः परम् ॥ ४० ॥ यत्पीठं ब्रह्मणो वक्त्रं गुह्यं सर्वसुखावहम् । यतो देवाश्च देव्यश्च मुनयश्चैव भौवजाः ॥ ४१ ॥ सर्वेऽप्याविर्भवन्त्येते तेन गुह्यं महीतले । द्विविधं चैव तत्पीठं गुह्यं व्यक्तं महेश्वरि ॥ ४२ ॥ १ 'रीम्' क पाठ । २ 'मानव' ख पाठ ।