गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 394, कुल 446 में से
संदर्भ में पढ़ेंपञ्चत्रिंशः पटलः । ३१३ व्यक्ताद्भुतं महापुण्यं दुरापं पशुभिः प्रिये । गुप्तं सर्वत्र देवेशि लभ्यते कुलपूजकैः ॥ ४३ ॥ यत्र तत्र यजेद्देवीमुपचारैस्तथाविधैः । लिङ्गेनाकर्षयेद्योनिं मुखे जिह्वामृतं पिबेत् ॥ ४४ ॥ नखदन्तक्षतान्यत्र पुष्पाणि विहितानि च । आलिङ्गनं तु कस्तूरीकर्पूरागुरुचन्दनम् ॥ ४५ ॥ चुम्बनं स्तवनं देवि मथनं ह(र?व)नं शिवे । त्रिभिः कूटैस्त्रिघातं स्यात् त्रिघातैर्जपमेकतः ॥ ४६ ॥ एवं कृत्वा महेशानि स च कामेश्वरो भवेत् । मद्यं मांसं विना देवि कुलपूजां यथा चरेत् ॥ ४७ ॥ जन्मान्तरसहस्रस्य सुकृतं तस्य नश्यति । निवृत्तिकाले च पुनर्भावपूर्णामृतैर्निजम् ॥ ४८ ॥ मुखं बिन्दुवदाकारं तदधः कु(ल?च)युग्मकम् । सर्वविद्यामृतैः पूर्णं सर्ववाग्विभवप्रदम् ॥ ४९ ॥ सर्वार्थसाधकं देवि सर्वरञ्जनकारणम् । तदधः परमेशानि स्वदेहं परिचिन्तयेत् ॥ ५० ॥ सर्वज्ञानसुसंपन्नं सर्ववश्यप्रदायकम् । ध्यात्वा यष्टाथवा देवि भवेत्कामकलान्वितः ॥ ५१ ॥ कुलस्य विविधं रूपं ज्ञात्वा तत्परिचिन्त्य च । कुलीनो जायते यस्मात् कथं तत्तु प्रकाशयेत् ॥ ५२ ॥ एवमभ्यासयोगेन सिद्धो भवति नान्यथा । मासेनाकर्षणी सिद्धिस्त्रिमासैर्वाक्पतिर्भवेत् ॥ ५३ ॥
१ 'खैजि' क पाठ । २ 'र्षा सिद्धि' क पाठ ।