गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 396, कुल 446 में से
संदर्भ में पढ़ेंषट्त्रिंशः पटलः । —:():*():— ईश्वर उवाच शक्त्यन्तरं प्रवक्ष्यामि सविकल्पस्य सुन्दरि । स्वशक्त्या परशक्तिं च यथानयति साधकः ॥ १ ॥ अदीक्षिताङ्गनासङ्गात् सिद्धिहानिर्भवेच्छिवे । तस्मात् सर्वप्रयत्नेन दीक्षयेन्निजकौलिनीम् ॥ २ ॥ गुरुसैवैकमात्रेण यथा सिद्धिर्भवेन्नृणाम् । महापद्मवनध्यानाद् यथा सिद्धीश्वरो भवेत् ॥ ३ ॥ त्रिपुराध्यानमात्रेण जीवन्मुक्तो यथा भवेत् । गङ्गास्मरणमात्रेण निष्पापो जायते यथा ॥ ४ ॥ योषित्स्मरणमात्रेण तथैयं वरदायिनी । न स्नानं न तथा पूजा न ध्यानं न्यासं एव वा ॥ ५ ॥ मन्त्रस्मरणमात्रेण योषितां वरदायिनी । निजकान्तां समानीय सुशीलां सुयशस्विनीम् ॥ ६ ॥ कुलभक्तं गुरुं प्राप्य दीक्षयेत् कुलविद्यया । दीक्षयित्वा गुरुस्तां तु निजपुत्रीवदाचरेत् ॥ ७ ॥ अद्य प्रभृति पुत्रि त्वं कुलपूजारता भव । यथोपदिष्टविधिना स्वामिनं वश्यमानय ॥ ८ ॥ १ 'समेव' क पाठ । २ 'मिवश्य समानय' क पाठ ।