गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 397, कुल 446 में से
संदर्भ में पढ़ें३१६ गन्धर्वतन्त्रे । हररूपस्य त्वत्पत्युर्न^१चान्यं मनसा स्मर । इत्याज्ञां^२ च गुरोर्लब्ध्वा प्रणमेद्दण्डवद्भुवि ॥ ६ ॥ त्वत्पदाम्भोरुहच्छायां मूर्ध्नि देहि यशोधन । दीक्षिता नच योषा चेत् कथं स्यात्कुलपूजनम् ॥ १० ॥ कुलपूजा न चेद्देवि कुलविद्या पराङ्मुखी । दिवसं प्राप्य भौतं च निर्जने पशुवर्जिते ॥ ११ ॥ अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि । आनीय यत्नतः शुद्धं सिन्दूरं च मनोहरम् ॥ १२ ॥ तेन चक्रं समालिख्य सुरेखं परमोज्ज्वलम् । षट्कोणं पद्मगर्भस्थं शरावे दाहवर्जिते ॥ १३ ॥ तन्मध्ये प्रतिमां देवि सिन्दूरेण समालिखेत् । कपोले साध्यमालिख्य मूलमन्त्रविदर्भितम् ॥ १४ ॥ कामबीजं ततो देवि लिखेत् सर्वाङ्गसंधिषु । पुष्पासवं मुखे दत्त्वा वसन्तसुन्दरीं जपेत् ॥ १५ ॥ ꩜कामामिन्द्रं तुरीयं च बिन्दुनादसमन्वितम् । बीजं तद्भुवनेशाम्या द्वादशस्वरबिन्दुकम् ॥ १६ ॥ ततस्तु नीलसुभगे हिलिहिलि ततः परम् । विच्चे स्वाहापदं दद्याद्विद्या वसन्तसुन्दरी ॥ १७ ॥ ध्यानं कृत्वा तु सुन्दर्या जीवन्यासं च कारयेत् । संविदानन्दहृदयः साधकः स्थिरमानसः ॥ १८ ॥ संविदासवयोर्मध्ये संविदेव गरीयसी । संवि(यां ? दं) योजयेद्देवि स्वयं चापि कुलेषु च ॥ १६ ॥ १ 'नान्य मनसा सस्मर' क पाठ । २ 'ज्ञा कुलगुरो' क पाठ । ꩜ काम क इन्द्र ल तुरीयं बिन्दुनादादियुक्त ई भुवनेशी ह्री एव क्लीं ह्रीं नीलसुभगे हिलि हिलि विच्चे स्वाहा-इति वसन्तसुन्दरी ॥