गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 398, कुल 446 में से
संदर्भ में पढ़ेंषट्त्रिंशः पटलः । ३१७ ताम्बूलपूरितमुखो रक्ताभरणभूषितः । रक्तासनोपविष्टस्तु स्वकुलं तूलिकोपरि ॥ २० ॥ वामभागे समासीनं रक्तवस्त्रविभूषितम् । सर्वशृङ्गारवेशाढ्यं स्फुरच्चकितलोचनम् ॥ २१ ॥ जितामितकुचद्वन्द्वविशालकरिकुम्भेकम् । तत्स्कन्धे बाहुमाधाय भङ्ग्या धृतकुचाञ्चले ॥ २२ ॥ प्रतिमायां ततो देवि पूर्ववन्न्यासमाचरेत् । पूर्वोक्तविधिना पूजा कर्तव्या वीरवन्दिते ॥ २३ ॥ ताम्बूलपूरितमुखं कुशं तदभिसं(ज्ञि?हि)तम् । ध्यानयोगेन मनसा लक्षमेकं तदा जपेत् ॥ २४ ॥ शतयोजनसंस्थानां नदीपर्वतमध्यगाम् । दीपान्तरसहस्रेषु रक्षितां निगडादिभिः ॥ २५ ॥ पयोधरभारक्षुब्धगमनां श्यामलोचनाम् । नितम्बबिम्बविध्वस्तैर्गुरुजघनमण्डनाम् ॥ २६ ॥ साधकाद्धि(त?ष्ट)हृदयां विवरान्तःप्रसर्पिणीम् । कवाटलोहसंबद्धप्राकारविविधान्तरे ॥ २७ ॥ कुलाकुलजपं कृत्वा समानयति साधकः । होमान्तरं प्रवक्ष्यामि येन ब्रह्ममयो भवेत् ॥ २८ ॥ शिवशक्तिमयं विद्धि चेतनाचेतनं जगत् । मम ज्ञानप्रभावेन दृष्टं यत् कथयामि ते ॥ २९ ॥ निर्जने शुद्धदेशे च शुद्धनाडीगणः शिवे । सम आसन आसीनः समकायो यथासुखम् ॥ ३० ॥ १ 'स्तुकम्' क पाठ । २ 'स्ता' क पाठ. । ३ 'हिता' क. पाठ ।