गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
षट्त्रिंशः पटलः । ३१७ ताम्बूलपूरितमुखो रक्ताभरणभूषितः । रक्तासनोपविष्टस्तु स्वकुलं तूलिकोपरि ॥ २० ॥ वामभागे समासीनं रक्तवस्त्रविभूषितम् । सर्वशृङ्गारवेशाढ्यं स्फुरच्चकितलोचनम् ॥ २१ ॥ जितामितकुचद्वन्द्वविशालकरिकुम्भेकम् । तत्स्कन्धे बाहुमाधाय भङ्ग्या धृतकुचाञ्चले ॥ २२ ॥ प्रतिमायां ततो देवि पूर्ववन्न्यासमाचरेत् । पूर्वोक्तविधिना पूजा कर्तव्या वीरवन्दिते ॥ २३ ॥ ताम्बूलपूरितमुखं कुशं तदभिसं(ज्ञि?हि)तम् । ध्यानयोगेन मनसा लक्षमेकं तदा जपेत् ॥ २४ ॥ शतयोजनसंस्थानां नदीपर्वतमध्यगाम् । दीपान्तरसहस्रेषु रक्षितां निगडादिभिः ॥ २५ ॥ पयोधरभारक्षुब्धगमनां श्यामलोचनाम् । नितम्बबिम्बविध्वस्तैर्गुरुजघनमण्डनाम् ॥ २६ ॥ साधकाद्धि(त?ष्ट)हृदयां विवरान्तःप्रसर्पिणीम् । कवाटलोहसंबद्धप्राकारविविधान्तरे ॥ २७ ॥ कुलाकुलजपं कृत्वा समानयति साधकः । होमान्तरं प्रवक्ष्यामि येन ब्रह्ममयो भवेत् ॥ २८ ॥ शिवशक्तिमयं विद्धि चेतनाचेतनं जगत् । मम ज्ञानप्रभावेन दृष्टं यत् कथयामि ते ॥ २९ ॥ निर्जने शुद्धदेशे च शुद्धनाडीगणः शिवे । सम आसन आसीनः समकायो यथासुखम् ॥ ३० ॥ १ 'स्तुकम्' क पाठ । २ 'स्ता' क पाठ. । ३ 'हिता' क. पाठ ।
३१८ गन्धर्वतन्त्रे । पद्मासनसमासीनः साधकः शुद्धचेतनः । प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः ॥ ३१ ॥ हस्तावाच्छाद्य आधारयोगदण्डावलम्बिनौ । नयने नासिकाप्रान्ते निमेषोन्मेषवर्जिते ॥ ३२ ॥ भ्रुवोर्मध्ये स्थितश्चात्मा दन्तैर्दन्तांस्तु संस्पृशेत् । ओष्ठेन चाधरं चैव जिह्वया चाथ तालुकम् ॥ ३३ ॥ एषा तु सुन्दरीमुद्रा सुन्दरीमोददायिनी । सहस्रारे परे पद्मे आधारोत्थेन वायुना ॥ ३४ ॥ कुलदीपशिखाकारं संक्षोभ्यामृतमण्ड (नं ? लम् ) । सुधाधारां स्मरेद् भूयः पतितां मूलपङ्कजे ॥ ३५ ॥ एवं च सप्तधा कुर्याद्देवीसांनिध्यहेतवे । मूलेन ध्यानयोगेन स्मृत्वा ब्रह्ममयीं पराम् ॥ ३६ ॥ हृदये पद्ममध्ये तु बाणलिङ्गे तु तेजसि । तत्राचां पूजयेद्देवीं हृदये कामरूपिणीम् ॥ ३७ ॥ पूरकेन समावाह्य संस्थाप्य कुम्भकेन तु । देहचक्रं समापाद्य दद्यात् पाद्यादिकं मुदा ॥ ३८ ॥ कुण्डलीपात्रसंस्थेन परमामृतवारिणा । पाद्यं चरणयोर्दद्यात् पुनश्चार्घ्यं प्रदापयेत् ॥ ३९ ॥ सहस्रदलभृङ्गा (या ? र्याः) लुलितालुलिताच्च्युतम् । परमामृतपानीयं दद्यादाचमनं मुखे ॥ ४० ॥ षट्त्रिंशत्तत्त्वरूपं तु गन्धं दद्याद्विचक्षणः । अहिंसा परमं पुष्पं पुष्पमस्तेयमेव च ॥ ४१ ॥ १ 'हृद्या' क पाठ । २ 'च्च्युतिम्' क पाठ. ।
षट्त्रिंशः पटलः । ३१६ दया पुष्पं क्षमा पुष्पं पुष्पमिन्द्रियनिग्रहम् । अमोहं चाप्यमात्सर्यमविद्वेषं तथैव च ॥ ४२ ॥ अरागं च तथा सत्यं पुष्पाण्येवं विदुर्बुधाः । एतानि भावपुष्पाणि सदैव विनिवेदयेत् ॥ ४३ ॥ वायुं च धूपकं दद्यात्तेजो दीपं निवेदयेत् । सुराम्बुधिं तथा दद्याद्दद्याच्च मांसपर्वतम् ॥ ४४ ॥ सूर्यं च दर्पणं दद्याच्चन्द्रं च च्छत्रमुत्तमम् । आनन्दाभरणं दद्यादम्बरं चामरं तथा ॥ ४५ ॥ अनाहतध्वनिमयीं घण्टामेतां निवेदयेत् । ततश्च साधकश्रेष्ठः शृङ्गारादिरसोद्भवैः ॥ ४६ ॥ नृत्यगीतैश्च वाद्यैश्च तोषयेत्परमेश्वरीम् । ध्वनिना शब्दभेदेन तेजश्राकाशसंकुले ॥ ४७ ॥ सहस्रदलमध्ये तु चिन्तयेत्सुन्दरीं पराम् । भैरवानन्दलिङ्गं तु तन्मध्ये योनिसंयुतम् ॥ ४८ ॥ एकी (कार्य?भावं) तयोः कृत्वा अमृतं (श्रा?स्त्रा)वयेत्ततः । जिह्वया गलं संयोगात् पिबेत्तदमृतं तदा ॥ ४६ ॥ योगिभिः पीयते तत्तु न मद्यं गौडपैष्टिकम् । पृथिव्यन्तर्गता आपस्तदन्तः शून्यमद्रिजे ॥ ५० ॥ शून्यमध्ये वसेद्वायुर्वाय्वन्तर्ध्वनिरीश्वरि । तदन्तर्नाद एवासौ नादान्तर्बिन्दुरीश्वरः ॥ ५१ ॥ तन्मध्ये तु परं ज्योतिः शिखा सूक्ष्मा परात्परा । विद्यु(च्चान?द्योत)नसंकाशा सहस्रादित्यभास्वरा ॥ ५२ ॥ १ 'नाल' ग्व पाठ ।
३२० गन्धर्वतन्त्रे । सुनयनातिसूक्ष्मा च निराकारा निरालया । परानन्दमयी पूर्णा सा भवेत् सुन्दरी परा ॥ ५३ ॥ पार्थिवे पार्थिवानां च लयैः¹ कार्यः समाधिना । अप्सु चापां लयः कार्यः शून्ये शून्यस्य वै तथा ॥ ५४ ॥ लयो वायौ च वायूनां ध्वनौ ध्वनिं समर्पयेत् । ज्योतिषां च लयस्तत्र ब्रह्मरायेवं² मनोलयः ॥ ५५ ॥ मनः करोति पापानि मनः पापेषु लिप्यते । मनसि³ चोन्मनीभूते न धर्मो न च पातकम् ॥ ५६ ॥ एवं भावनया हृष्टः परमानन्दनिर्भरः । संसारसागरं धीरो गोष्पदीकुरुते शिवे ॥ ५७ ॥ भुक्तिमुक्ती⁴ करे तस्य मम तुल्यो भवेद्भुवि । पूजा ज्ञानमयी प्रोक्ता न तु होमस्तु तादृशः ॥ ५८ ॥ तद्रूपं विद्धि कुण्डस्य बिन्दुत्रिवलयात्मकम् । आनन्दमेखलारम्यं मात्रायोनिविभूषितम् ॥ ५९ ॥ तद्ब्रह्म परमं ध्यात्वा सर्वज्ञानविजृम्भिते । दीपितेऽग्नौ हुनेद्देवि प्रपञ्चहविरुत्तमम् ॥ ६० ॥ शब्दाख्या मातृका रूपमक्षरं⁵ तु विराजितम् । अक्षरं च हुतं चात्र निःशब्दं ब्रह्म जायते ॥ ६१ ॥ पुण्यपापे हविर्देवि कृत्याकृत्ये हविः शिवे । संकल्पश्च विकल्पश्च धर्माधर्मौ हविस्तथा ॥ ६२ ॥ धर्माधर्महविर्दीप्ते आत्माग्नौ मनसा स्रुचा । सुषुम्नावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् ॥ ६३ ॥ १ 'य कार्ये' क पाठ । २ 'पो' क पाठः । ३ 'स्युन्म' क पाठः । ४ 'यावि' ख पाठः । ५ 'म' क पाठ । ६ 'मौ' क पाठ ।
षट्त्रिंशः पटलः । ३२१ प्रकाशाकाशहस्ताभ्यामव(लोक्यो?लम्ब्यो)न्मनास्स्रुचैम् । धर्माधर्मकलास्नेहपूर्णां वह्नौ जुहोम्यहम् ॥ ६४ ॥ वह्निजायान्वितं प्रान्ते मन्त्राभ्यां होमयेच्छिवे । निष्प्रपञ्चो यदा देवि जायते मन्त्रवित्तमः ॥ तदा स चिन्मयः साक्षात्केवलं ब्रह्म साधकः ॥ ६५ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे शक्त्यानयन- पूजातत्त्वनिरूपणं नाम षट्त्रिंशः पटलः ॥ ३६ ॥ १ 'मर्श' क पाठ. । २ 'चा' ख पाठ. । ३ 'र्गा' क-पाठ.
सप्तत्रिंशः पटलः । ───=० ❀ ०=─── देव्युवाच परदारपरिष्वङ्गात् तथा नीचाभिसंगमात् । प्रतिलोमाभिसङ्गाच्च पातकी जायते नरः ॥ १ ॥ शक्त्यासक्तः कथं देव मुक्तः स्यात्परमेश्वरै । वेदशास्त्रपुराणेषु सैव मुक्तिविरोधिनी ॥ २ ॥ शक्तिर्हि जगतो मूलं सैव जगत्स्वरूपिणी । स्त्रियं त्यक्त्वा जगत्त्यक्तं जगत्त्यक्त्वा सुखी भवेत् ॥ ३ ॥ सर्वा सर्वत्र देवेश गर्हिता सर्वकर्मसु । कथं तदुपयोग्यं स्यादिति वेदविदां स्थितिः ॥ ४ ॥ ईश्वर उवाच इदं पुनर्महेशानि पुरैव प्रतिपादितम् । सूक्ष्मा गतिस्तु धर्मस्य मूढैस्तन्नावबुध्यते ॥ ५ ॥ ज्ञानाद्धि निर्मलं विश्वमज्ञानात् समलं प्रिये । वह्निरयं महादेवि सर्वगः सर्वभोजनः ॥ ६ ॥ स कथं देवतायज्ञे वेदविद्भिर्निर्देशितः । जलं चापि तथा प्रोक्तं तत् पूतं कथमद्विजे ॥ ७ ॥
१ 'र' क पाठ ।
सप्तत्रिंशः पटलः । ३२३ भृङ्गोपभुक्तपुष्पाणि मक्षिकोच्चिष्टकं मधु । १ दूषणीयं सुरापानं कथं यज्ञे निदेशितम् ॥ ८ ॥ गोरसं च गवां सारं (म?तै)ल च बीजसंभवम् । कथं तद्विहितं दैवे पित्र्ये कर्मणि पार्वति ॥ ९ ॥ बीजनाशादनेकस्य विनाशं विद्धि सुव्रते । जायासु चैव सर्वासु तथा जातो जनिष्यते३ ॥ १० ॥ स सकृद्वैदिकैर्मन्त्रैः पूतो भवति पावकः । वैदिकैस्तान्त्रिकैः शुद्धा पवित्रियं तथा सुरा ॥ ११ ॥ दूषणं नास्ति देवेशि महाविद्याप्रसाधने । यस्मिन् यत्र य आचारस्तत्र धर्मस्तु तादृशः ॥ १२ ॥ अत्र भ्रमो महान् दोषस्तस्माद्भ्रान्तिं त्यज प्रिये । अद्वैतभावरहितो द्वन्द्वचित्तोऽथ कामुकः ॥ १३ ॥ देवताभावरहितो लौल्यभावेन वा पुनः परशक्तिं समागच्छेत् स भवेद्गुरुतल्पगः ॥ १४ ॥ संसाराम्बुनिधेः पारं करोति विधिना च सा । नरकाम्बुनिधौ शक्तिः क्षिपत्यविधिना शिवे ॥ १५ ॥ विना शक्तिं विना मद्यमद्वैतभावनां विना । महाविद्याक्रमो यद्ध्यज्ञो घृतविवर्जितः ॥ १६ ॥ द्वैतभावे महेशानि वर्णजातिविकल्पना । अद्वैतभावमापन्ने लीने मनसि ब्रह्मणि ॥ १७ ॥ कः कामः को भवेदिन्द्रः को ब्रह्मा को जनार्दनः । को देवः कोऽसुरो यक्षः पिशाचः कोऽमरः शिवे ॥ १८ ॥ १ 'ष्टामदं मधु' क पाठ । २ 'पै' क पाठ । ३ 'ति' क पाठ । ४ 'म' क पाठ । ५ 'ज्ञ' क पाठ । ६ 'तम्' क पाठ ।
३२४ गन्धर्वतन्त्रे । को द्विजः कोऽथवा शूद्रः को म्लेच्छः कोऽधमः शिवे । किं रूपं किं विरूपं वा को रोगी कोऽप्यनामयः ॥ १६ ॥ किं च मेध्यममेध्यं वा किं वा वस्त्वप्यवस्तु च । किं मित्रं किममित्रं च को वध्योऽवध्य एव वा ॥ २० ॥ किं च भक्ष्यमभक्ष्यं वा किं वा तव ममेति च । अविद्याकल्पितं चैतद्विद्यया च्छिन्दि संशयम् ॥ २१ ॥ स्त्रियं मम परां विद्यामिति जानीहि पार्वति । एकैस्या बहुधा कृत्यमेकैस्या बहुविग्रहम् ॥ २२ ॥ बहुरूपाणि देहांश्च एकस्यैा एव निश्चितम् । अद्वैतानन्दसंदोहो विद्ययैव प्रकाश्यते ॥ २३ ॥ शक्तियोगेषु यन्मांसं तन्मांसममृतोपमम् । पशुघातस्तदर्थं तु तद्विना ब्रह्महा भवेत् ॥ २४ ॥ द्वैतान् पशून्विजानीयादद्वैतान् ब्राह्मणान्विदुः । अतैज्ञ्ज्ञः स्तेयपापेन भुनक्ति बहुकिल्विषम् ॥ २५ ॥ मद्यपानं तु यज्ञेषु तद्विना पातकी भवेत् । पवित्रं सकलं भद्रे वासना यद्यकुत्सिता ॥ २६ ॥ ब्रह्मादिस्तम्बपर्यन्तं जगत् स्थावरजङ्गमम् । शरीरं दृश्यते यद्यत्तत्कर्म प्राकृतं शिवे ॥ २७ ॥ प्रकृत्या क्रियते कर्म साक्षी पुरुष उच्यते । तन्मायामोहितः सोऽथ कर्ताहमिति मन्यते ॥ २८ ॥ न कर्ता पुरुषो देवि कर्त्री प्रकृतिरुच्यते । पुरुषे करणं नास्ति निर्गुणत्वात् सदा प्रिये ॥ २६ ॥
१ ‘मम तरा’ क पाठ । २ ‘काया’ क पाठ । ३ ‘काया’ क पाठ । ४ ‘काया’ क पाठ । ५ ‘यो’ क पाठ । ६ ‘तन्त्रस्य’ क पाठ ।
सप्तत्रिंशः पटलः । ३२५ तथा कैरणकर्तृत्वं¹ सगुणायां प्रतिष्ठितम् । यदिदं पुरुषे देवि कर्तृत्वमुपलक्ष्यते ॥ ३० ॥ स्फटिके² निर्मले देवि (यवा? जपा) रागमिवानघे । अहमाकाशवत्सर्वं बहिरन्तर्गतोऽच्युतः ॥ ३१ ॥ सदा सर्वसमः शुद्धो निसङ्गो निर्मलोऽचलः । सत्यं ज्ञानमनन्तं यत्परब्रह्माहमेव तत् ॥ ३२ ॥ ब्रह्मण्यधाय चित्तं तु कुर्वन् कर्म न लिप्यते । उभाभ्यामपि शक्यं स्यात्तर्तुं भवपयोनिधिम् ॥ ३३ ॥ दक्षिणेनापि कौलेन दुःखेनापि सुखेन च । कुम्भसंस्तरगैस्तर्तुं पोतवर्येण वाम्बुधिम् ॥ ३४ ॥ तस्मा(दिमं न? दयं व)रः कौलो दक्षिणादपि सुव्रते । कुलज्ञानं विना देवि नैव मुक्तिः कदाचन ॥ ३५ ॥ माया बलवती ह्येषा शक्तिर्गुणमयी³ तु या । प्रकृतिर्गीयते सा तु सांख्ययोगविशारदैः ॥ ३६ ॥ विद्याविद्येति सा प्रोक्ता वेदतत्त्वार्थदर्शिभिः । महाविद्येति सा कैश्चिन्महामायेति चापरैः ॥ ३७ ॥ शक्तिः सा सर्वभूतानामिति कैश्चिदुपास्यते । ˙समुपासते⁴ सर्वे तां ब्रह्मविष्णुमहेश्वराः ॥ ३८ ॥ तस्या एव न मे भेदो विष्णोर्ब्रह्मण एव वा । योगभोगतपःक्लेशैरानम्रैरभिनन्दिता ॥ ३६ ॥ आराधिता सैव नृणां भोगस्वर्गापवर्गदा । परितोष्य विधानेन येन तेनैव साधकः ॥ ४० ॥
१ 'का' क पाठ । २ 'स्फा' क पाठ । ३ 'केर्गु' क पाठ । ४ 'सर्वे तां समुपासन्ति' क ख.पाठ ।
संसारनिगडैर्बद्धः पुमान् विमुच्यते तया । तस्यास्तोषं विना देवि विमुक्तिर्नैव विद्यते ॥ ४१ ॥ तन्निगृहीतचित्तानां पुंसां पुरुषपूजिते । अतस्तां च प्रयत्नेन पुरुषा मुक्तिलिप्सवः ॥ ४२ ॥ समाश्रयन्ति योगाद्यैर्नित्यानन्दस्वरूपिणीम् । ब्रह्मा विष्णुस्तथा चाहमात्मवत्समुपास्महे ॥ ४३ ॥ तपःक्लेशैश्च तां देवि पशुभावे स्थितो विधिः । संतोष्य परया भक्त्या सावित्रीं वेदमातरम् ॥ ४४ ॥ इच्छाशक्तिं च वागीशीं लब्ध्वा सृष्टिमचीकरत् । तनयां जगृहे मोहाद्ब्रह्मा पशुरादरधीः ॥ ४५ ॥ तज्जुगुप्सितमन्याय्यमद्यापि न निवर्तते । परशक्तिं पशुस्तस्मान्मनसापि न संस्मरेत् ॥ ४६ ॥ तद्भावमाश्रिता विप्रास्तामेव समुपासते । मित्राणां सर्वभूतानां तेषां मद्यं घृतं पयः ॥ ४७ ॥ अपूपं पिष्टकं मांसं गृह्णीयुः शक्तिदापितम् । अपिवा संविदासक्ता भवेयुः शक्तिमाश्रिताः ॥ ४८ ॥ दिव्यभावस्थितो विष्णुर्जगत्पालन्यरूपिणीम् । मधुमैरेयभोगाद्यैः संतोष्यानन्दरूपिणीम् ॥ ४९ ॥ ज्ञानशक्तिमयीं लक्ष्मीं जगदाधाररूपिणीम् । लब्ध्वा तु जगतः सोऽयं पालकोऽभून्निराकुलः ॥ ५० ॥ तद्भावमाश्रिता भूपास्तथैव तामुपासते । अथ देवाश्च दैत्याश्च मुनयो मानुषाः परे ॥ ५१ ॥
सप्तत्रिंशः पटलः । ३२७ विष्णुमेव हि सततं भजन्ते भावसिद्धये । स च भावविशुद्धात्मा तद्भावं तु जुगोप ह ॥ ५२ ॥ ये (नि?न)न्दन्ति च तद्भावं गोपयन्ति च सर्वदा । ते वै प्रियतमाः सर्वे शङ्खचक्रगदाभृतः ॥ ५३ ॥ तद्भावाद्दिमुखान् कर्तुं लोकांल्लोकेश्वरो हरिः । इदमादिष्टवान् देवि मामेव जगदीश्वरः ॥ ५४ ॥ भगवानुवाच सर्वे दिव्या भविष्यन्ति मद्भावे हि प्रकाशिते । पशुभावं पुरस्कुर्वन् मद्भावं च विनिन्दकः ॥ ५५ ॥ आगमैः कल्पितैर्देव मद्भावाद्दिमुखान् कुरु । ईश्वर उवाच तदाज्ञां शिरसि धृत्वा विष्णोरमिततेजसः ॥ ५६ ॥ तथैवाहं महेशानि कृतवांस्तन्त्रविस्तरम् । गोपयन्दिव्यभावं च पुरस्कुर्वन् पशोर्मतम् ॥ ५७ ॥ अत एव महेशानि वैष्णवे दर्शने खलु । पूजितः पशुभावश्च शक्तिनिन्दा च वि(स्मृ?स्तृ)ता ॥ ५८ ॥ या शक्तिः सर्वभूतानां द्विधा भवति सा पुनः । स्थूलरूपा च सा देवी सूक्ष्मरूपा च पार्वति ॥ ५९ ॥ स्थूलरूपेण सा देवी सर्वमेतज्जगत्त्रयम् । मोहयित्वा जनान्सर्वान् बहुरूपौ सुखेच्छया ॥ ६० ॥ संस्थिता परमेशानि लीलाकलितविग्रहा । स्वभावतो न जानन्ति तन्मायामोहिता जनाः ॥ ६१ ॥ १ 'पान्' क पाठ ।
३२८ गन्धर्वतन्त्रे । क्वचित्तां तु प्रहाराद्यैः कटूक्तिभाषणैस्तथा । ताडयन्ति च वै मूढा जना निरयगामिनः ॥ ६२ ॥ क्वचित्तां भूषणाच्छाद्यैः संभोगैरपि सेवया । पूजयन्ति हि ते धीराश्चतुर्वर्गप्रसाधकाः ॥ ६३ ॥ तेषां विप्रियकर्त्तारः पतिष्यन्ति सुनिश्चितम् । सूक्ष्मरूपां च तां विद्धि सर्वेषा (न्तमद?मन्त) रस्थिताम्। ६४ त्रैलोक्यजननीं देवीं मुख्येन ब्रह्मवर्त्मना । योजयित्वा परानन्दे परमानन्दरूपिणीम् ॥ ६५ ॥ तयोर्योगाद्यदमृतं तर्पयेत्तेन योगिनीम् । प्राणधारणया देवि शुद्धनाडीमनौः सुधीः ॥ ६६ ॥ प्राणान्प्रवेशयेन्नाड्या तन्मुखे चैव तान् हुनेत् । तद्वक्त्रे वायुना भिन्ने याति चोध्वं परेश्वरी ॥ ६७ ॥ तस्मादाकृष्य तद्वायुं कुम्भयित्वा तु संचयेत् । संचितैर्वायुभिस्तां च कुलवर्त्मविहारिणीम् ॥ ६८ ॥ सहस्रारे महापद्मे सितदीधितिमण्डले । समुन्नीय परे हंसे तयोरैक्यं धिया स्मरेत् ॥ ६९ ॥ होमाद्यं विहितं तत्र चन्द्रसूर्यात्मकं तयोः । स्रुक्स्रुवौ च समादाय जुहुयादव्ययं हविः ॥ ७० ॥ मूलाधारे परे चक्रे शक्तिर्या कुण्डली शुभा । तद्रन्ध्रमावर्ततोऽयं च बहिर्याति दिने दिने ॥ ७१ ॥ दिनेशाङ्गुलिमानेन तदर्धं चोपवासतः । द्विगुणं रतिकाले स्यात् त्रिगुणं भोजनाद्वहिः ॥ ७२ ॥ १ 'च सुमुढा' क पाठ । २ 'न्द' ख पाठ । ३ 'न' क पठ । ४ 'क्याधि' क पाठ ।
सप्तत्रिंशः पटलः । ३२६ अत ऊर्ध्वं वहेद्देवि त्रिदिनं यदि मारुतः । न्यूनं वा तद्धः प्राणः शरीरं परिमुञ्चति ॥ ७३ ॥ यावत्कालं वहेदेतद्वायुश्च जगदीश्वरः । तावच्चलति देहोऽयं तद्दिना चाचलः स्मृतः ॥ ७४ ॥ निश्चलं पवनं कृत्वा योगी भवति साधकः । वायुना नीयते बाह्ये मनस्तु प्राणिनां शिवे ॥ ७५ ॥ वायौ च सुस्थिरीभूते मनोऽपि स्थिरतां वहेत् । तयोरद्वैतभावे तु निश्चलत्वं गते द्वयोः ॥ ७६ ॥ देहं निरामय विद्धि यथाकामविलासिनम् । इह स्थित्वा यथाकामं संत्यज्य च कलेवरम् ॥ ७७ ॥ अद्वैतभावमापन्नो न स पुनरिहाव्रजेत् । प्रसङ्गात् कथिता देवि देहसिद्धिरनुत्तमा ॥ ७८ ॥ येन तेन विधानेन परितुष्टा महेश्वरी । संसारनिगडैर्बद्धः पुमान्विमुच्यते तया ॥ ७९ ॥ तस्यास्तोषं विना देवि विमुक्तिर्नैव विद्यते । अनिग्रहीतचित्तस्य पुरुषस्य महेश्वरि ॥ ८० ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे शक्तिमा- हात्म्य-देहसिद्धिवर्णनं नाम सप्तत्रिंशः पटलः ॥ ३७ ॥ १ 'ना' क पाठ.। २ 'वेन' क पाठ.। ३ 'त्वगतेस्तयो' क पाठ । ४ 'अनेनैव' ख पाठ । ५ 'तन्नि' क पाठ ।
अष्टात्रिंशः पटलः। —❀❀❀❀— ईश्वर उवाच बहुकालं पूजिता तु तुष्टा स्यात्सूक्ष्मरूपिणी । यथा तुष्यति भोगेन तपायोगैश्च न तथा ॥ १ ॥ अतो भोगेन तां तोष्य तथा मुक्तो भवेत्सुखी । मया चापि पुरा देवि सेविता योगवर्त्मना ॥ २ ॥ परितुष्टा न मे देवी सूक्ष्मरूपान्तरस्थिता । शक्तिहीनं च मां वीक्ष्य वनिताविमुखं तथा ॥ ३ ॥ विषण्णवदनो ब्रह्मा हृदयेन विदूयता । चिन्तावशमुपाविष्टो ब्रह्मा लोकपितामहः ॥ ४ ॥ मामासाद्य तथा विष्णुं ययौ क्षीरपयोनिधिम् । क्षीरोदस्योत्तरे तीरे रत्नद्वीपे सुशोभिते ॥ ५ ॥ तत्र स्थित्वावयोर्मध्ये ब्रह्मा ध्यानपरोऽभवत् । हृत्पुण्डरीकमध्यस्थे देवीपादसरोरुहे ॥ ६ ॥ मनो निधाय योगात्मा देवीसूक्तं परं जगौ । व्यतीते बहुकालेऽथ देवी त्रिभुवनेश्वरी ॥ ७ ॥ १ ‘लपूजितैस्तु’ क पाठ । २ ‘पवि’ क पाठ ।
अष्टात्रिंशः पटलः । ३३१ शूलपाशधरा देवी किरीटादिविमण्डिता । चतुर्भुजा त्रिनेत्रा च बालार्ककिरणारुणा ॥ ८ ॥ दर्शयामास स्वं रूपं तस्य तुष्टा तदा शिवे । प्रसन्नां तां समालोक्य स्रष्टा सर्वजगद्गुरुः ॥ ९ ॥ भक्त्या विनम्रवदनस्तुष्टाव च ननाम च । ब्रह्मोवाच त्वं सावित्री च वाग्देवी त्वं श्रीः सर्वजगत्प्रसूः ॥ १० ॥ स्वाहा त्वं देवयज्ञेषु पितृयज्ञेषु च स्वधा । सुधा त्वं देवलोकेषु हविस्त्वं खलु मानुषे ॥ ११ ॥ त्वं विद्याश्चैव मन्त्राश्च वेदास्त्वं हि (सु १ स्व)रात्मिका । अर्धमात्रात्मिका त्वं वै यानुच्चार्या विशेषतः ॥ १२ ॥ त्वमेव परमा शक्तिर्जगत्कारणरूपिणी । विचार्याष्टाङ्गयोगेन लक्षणाद्यैर्मुहुर्मुहुः ॥ १३ ॥ यत् स्थिरीक्रियते देवि तत्ते रूपं सनातनम् । यद्व्यक्तमनिर्देश्यं निष्कलं परमात्मनः ॥ १४ ॥ रूपं तवैव तत् सूक्ष्मं सकलं च जगन्मयम् । या सृष्टिशक्तिरस्माकं स्थितिशक्तिस्तथा हरेः ॥ १५ ॥ अन्तशक्तिस्तथेशस्य सा त्वं शक्तिः सनातनी । त्वं जातवेदोगता शक्तिरुग्रा त्वं दाहिका सूर्यकरस्य शक्तिः आह्लादिका त्वं बहु चन्द्रिकाया- स्तां त्वामहं नौमि नमामि चाम्बिकाम् ॥ १६ ॥ १ 'स्व' क पाठ । २ 'यि' ख पाठ ।
३३२ गन्धर्वतन्त्रे । योषा-योषित्प्रियाणां त्वं विद्या त्वं चोर्ध्वरेतसाम् । वाञ्छा त्वं सर्वजगतां माया च त्वं तथा हरेः ॥ १७ ॥ यथा प्रकाश्यते ब्रह्म सा त्वं नित्या प्रसीद मे । विश्वादिस्त्वमनादिस्त्वं विश्वयोनिरयोनिजा ॥ १८ ॥ अनन्तात्ससर्वजगतस्त्वमेवैकान्तरूपिणी । एका त्वं त्रिविधा भूत्वा मो(क्ष? ह)संहारकारिणी ॥ १६ ॥ संसारसागरोत्तारतरणिः सुखमोक्षदे । त्वं नित्या त्वमनित्या च त्वं चराचरमोहिनी ॥ २० ॥ नमस्ते जगतां मातः सृष्टिरूपे सनातनि । स्थितिरूपे नमस्तुभ्यं नमः संहाररूपिणि ॥ २१ ॥ एवं संस्तूयमाना सा योगनिद्रा विरिञ्चिना । आविर्बभूव प्रत्यक्षं ब्रह्मणः परमात्मनः ॥ २२ ॥ देव्युवाच परितुष्टास्मि लोकेश स्तोत्रेणानेन ते विभो । वरं वृणीष्व भद्रं मे यत्ते मनसि वर्तते ॥ २३ ॥ ईश्वर उवाच मां समीक्ष्य वरं वव्रे जगत्संहारकारकम् । सृष्टिशक्तिं मयि त्वं च विष्णौ पालनरूपिणीम् ॥ २४ ॥ संहारशक्तिमीशाने देहि मातर्नमोऽस्तु ते । एकश्चरति भूतेशो न द्वितीयां समीहते ॥ २५ ॥ तथा मोहय सर्वेशं दारान् स्वयं जिघृक्षति । देव्युवाच यदुक्तं भवता ब्रह्मांस्तच्चैं सत्यं नचान्यथा ॥ २६ ॥ १ 'ता' ख पाठ । २ 'रा ' क पाठ । ३ 'क्ष्य' क पाठ । ४ 'त्स' क पाठ ।
अष्टात्रिंशः पटलः । ३३३ मोहयित्वाहमीशानं सतीरूपेण शंकरम् । संहरिष्यामि लोकेश जगदेतच्चराचरम् ॥ २७ ॥ तत्रापि तां तनुं त्यक्त्वा संभविष्यामि पार्वती । इति तस्मै समाभाष्य ब्रह्मणे परमेश्वरी ॥ २८ ॥ वीक्ष्यमाणा जगत्स्रष्ट्रा तत्रैवान्तरधीयत । तस्यामन्तर्हितायां च ब्रह्मा लोकपितामहः ॥ २९ ॥ कृताञ्जलिपुटो भूत्वा विष्णुमाह प्रजापतिः । संहारकरणे योग्यं वीरभावं च यद्भवेत् ॥ ३० ॥ तन्निदेशय महादेवे विष्णो लोकेषु दुर्लभम् । इति तद्वचनं श्रुत्वा भगवान् हरिरीश्वरः ॥ ३१ ॥ आदिष्टवान् मयि भेद वीरभावं सुदुर्लभम् । वीरभावे स्थितः सोऽहं मातस्त्वां समुपास्महे ॥ ३२ ॥ अद्यापि परमेशानि मातस्तुभ्यं नमो नमः । प्रकृतिः सर्वभूतानां त्वं हि सर्वजगत्प्रसूः ॥ ३३ ॥ या (मुक्तिः ? मूर्तिः) मम देवेशि क्षितिरूपा तु गीयते । सा त्वमेव न मे नाहं मातः सत्यं नमो नमः ॥ ३४ ॥ या मे मूर्तिर्द्वितीया च जलमयीति कथ्यते । सा त्वमेव न मे नाहं मातः सत्यं नमो नमः ॥ ३५ ॥ आग्नेयी या तृतीया मे जगत्क्षोभणकारिणी । सा त्वमेव न मे नाहं मातः सत्यं नमो नमः ॥ ३६ ॥ चतुर्थी वायवी मूर्तिः सृष्टिसंहारकारिणी । सा त्वमेव न मे नाहं मातः सत्यं नमो नमः ॥ ३७ ॥ १ 'तिस्रव' क पाठ । २ 'तिस्रव' क पाठ ।
३३४ गन्धर्वतन्त्रे । पञ्चमी या च सर्वेषां परिणामस्वरूपिणी । सा त्वमेव न मे नाहं मातः सत्यं नमो नमः ॥ ३८ ॥ षष्ठी या सर्वदेवानामाप्यायनीति गीयते । सा त्वमेव न मे नाहं मातः सत्यं नमो नमः ॥ ३६ ॥ सप्तमी मम मूर्तिर्या जगदाह्लादकारिणी । सा त्वमेव न मे नाहं मातः सत्यं नमो नमः ॥ ४० ॥ अष्टमी मम मूर्तिर्या स्थितिसंहारकारिणी । सा त्वमेव न मे नाहं मातः सत्यं नमो नमः ॥ ४१ ॥ नचैवाहं न मे किंचिद्यदिह जगतीतले । त्वयैवेदं जगद्व्याप्तं जगत् सर्वं त्वमेव हि ॥ ४२ ॥ देव्युवाच मया सर्वं जगद्व्याप्तं वत्स सत्यं प्रभाषसे । ममैवैतेऽवताराश्च मत्स्यकूर्मादयोऽपरे ॥ ४३ ॥ त्वमेवाहं नचान्योऽसि ब्रह्माहं विष्णुरप्यहम् । अहमेव जगत् सर्वं नास्ति किंचित् मया विना ॥ ४४ ॥ यत्तु पश्यसि हे वत्स यत् किंचिज्जगतीतले । ब्रह्मादिस्तम्बपर्यन्तमहमेव न संशयः ॥ ४५ ॥ इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् । इत्युक्त्वा दर्शयामास शंभवे जगदीश्वरी ॥ ४६ ॥ स्वशरीरे जगत्कृत्स्नं संप्रविष्टमनेकधा । दृष्ट्वा १जगन्मयीं प्राह शंभुर्मायाविमोहितः । मामुद्धर जगन्मातर्मोहसागरमध्यतः ॥ ४७ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे शिवस्य शक्तिप्राप्तिनिरूपणं नाम अष्टात्रिंशः पटलः ॥ ३८ ॥ १ 'जगन्मयीं ततो दृष्ट्वा' क पाठ ।
ऊनचत्वारिंशः पटलः । -=-:❀:=- जगन्मय्युवाच मा विषीद महादेव सर्वथा त्वं स्थिरो भव । कुलज्ञानी कथं त्वं हि भावज्ञानी कथं पुनः ॥ १ ॥ इत्येवं त्वं मया पृष्टस्त्वमात्मानं न विस्मर । तदानन्दमयं धाम स्वविद्याभेदसंगतम् ॥ २ ॥ पुरुषः प्रकृतिश्चैव नित्यौ द्वौ समुपस्थितौ । सगुणाधिबला देवी निर्गुणो निर्बलः पुमान् ॥ ३ ॥ अविद्यानाद्यरूपा सा मदंशा भेदरूपिणी । सिसृक्ष्यापि नीचास्य सविधे समुपास्थिता ॥ ४ ॥ सिसृक्षया मया पूर्वं प्रार्थितः पुरुषः खलु । मामानन्दय सानन्दमित्युक्त्वा धर्षितः प्रभुः ॥ ५ ॥ मया धर्षितमात्रोऽसौ बभूव सगुणो विभुः । तत्तदानन्दसंदोहै(रा?: सा)नन्दाहं पुनः पुनः ॥ ६ ॥ जडत्वादुभयोर्देव शून्यभावमुपागतम् । अथानन्दात्मनोजाता शक्तिराद्या सनातनी ॥ ७ ॥
३३६ गन्धर्वतन्त्रे । गुणत्रयमयी सा तु बिन्दुत्रयस्वरूपिणी । अधः कृत्वा तु पुरुषं हकारार्धस्वरूपिणी ॥ ८ ॥ विपरीतेन रमते वह्नीन्द्वर्कस्वरूपिणी । अशिरस्कहकारान्त्यमशेषाकारसंस्थितम् ॥ ६ ॥ अन्तश्चरमजस्रं तं स्वमात्मानमुपास्महे । बिन्दुत्रये महादेव सर्गमेतत् प्रतिष्ठितम् ॥ १० ॥ ब्रह्मादिस्तम्बपर्यन्तं जगत् स्थावरजङ्गमम् । पञ्चभूतमयं विद्धि चासत्यं सत्यवद्भ्रमः ॥ ११ ॥ पृथिवीयं महादेव प्रांकृती नतु (कस्तुरी ? वास्तव्री) । ब्राह्मणी नैव चाण्डाली नैव दैवी न मानुषी ॥ १२ ॥ रसमात्रं जलं विद्धि न द्विजं नच पुक्कसैम् । रूपमात्रं तु यत्तेजस्तत्र किं जातिकल्पना ॥ १३ ॥ स्पर्शमात्रं तु यद्वायुर्नोत्तमो नाधमः खलु । शब्दमात्रं यदाकाशं विभोस्तस्य महात्मनः ॥ १४ ॥ नीचतां कल्पते देवि मूढोऽज्ञानविजृम्भितः । एभिः पञ्चभिरारब्धं देहं स्थावरजङ्गमम् ॥ १५ ॥ पञ्चानां संनिपातं यत् न ब्राह्मणं न पुक्कसैम् । तदसत्यं विजानीयात् सत्यं ब्रह्म न तन्न तत् ॥ १६ ॥ देहाद्भिन्नः शिवो देही परमानन्दरूपवान् । तद्ब्रह्मेति च यो विद्यात् स एव ब्राह्मणो मतः ॥ १७ ॥ यदिदं लक्ष्यते देव पञ्चभूतात्मविग्रहे । वायुभिरिन्द्रियग्रामे प्रेरिते पञ्चभिः शिवम् ॥ १८ ॥ १ 'न्त्यमे' क पाठ.। २ 'प्र' क पाठः । ३ 'शम्' क पाठ । ४ 'श' क पाठ । ५ 'क्षसे' क पाठ ।