गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 412, कुल 446 में से
संदर्भ में पढ़ेंअष्टात्रिंशः पटलः । ३३१ शूलपाशधरा देवी किरीटादिविमण्डिता । चतुर्भुजा त्रिनेत्रा च बालार्ककिरणारुणा ॥ ८ ॥ दर्शयामास स्वं रूपं तस्य तुष्टा तदा शिवे । प्रसन्नां तां समालोक्य स्रष्टा सर्वजगद्गुरुः ॥ ९ ॥ भक्त्या विनम्रवदनस्तुष्टाव च ननाम च । ब्रह्मोवाच त्वं सावित्री च वाग्देवी त्वं श्रीः सर्वजगत्प्रसूः ॥ १० ॥ स्वाहा त्वं देवयज्ञेषु पितृयज्ञेषु च स्वधा । सुधा त्वं देवलोकेषु हविस्त्वं खलु मानुषे ॥ ११ ॥ त्वं विद्याश्चैव मन्त्राश्च वेदास्त्वं हि (सु १ स्व)रात्मिका । अर्धमात्रात्मिका त्वं वै यानुच्चार्या विशेषतः ॥ १२ ॥ त्वमेव परमा शक्तिर्जगत्कारणरूपिणी । विचार्याष्टाङ्गयोगेन लक्षणाद्यैर्मुहुर्मुहुः ॥ १३ ॥ यत् स्थिरीक्रियते देवि तत्ते रूपं सनातनम् । यद्व्यक्तमनिर्देश्यं निष्कलं परमात्मनः ॥ १४ ॥ रूपं तवैव तत् सूक्ष्मं सकलं च जगन्मयम् । या सृष्टिशक्तिरस्माकं स्थितिशक्तिस्तथा हरेः ॥ १५ ॥ अन्तशक्तिस्तथेशस्य सा त्वं शक्तिः सनातनी । त्वं जातवेदोगता शक्तिरुग्रा त्वं दाहिका सूर्यकरस्य शक्तिः आह्लादिका त्वं बहु चन्द्रिकाया- स्तां त्वामहं नौमि नमामि चाम्बिकाम् ॥ १६ ॥ १ 'स्व' क पाठ । २ 'यि' ख पाठ ।