गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 415, कुल 446 में से
संदर्भ में पढ़ें३३४ गन्धर्वतन्त्रे । पञ्चमी या च सर्वेषां परिणामस्वरूपिणी । सा त्वमेव न मे नाहं मातः सत्यं नमो नमः ॥ ३८ ॥ षष्ठी या सर्वदेवानामाप्यायनीति गीयते । सा त्वमेव न मे नाहं मातः सत्यं नमो नमः ॥ ३६ ॥ सप्तमी मम मूर्तिर्या जगदाह्लादकारिणी । सा त्वमेव न मे नाहं मातः सत्यं नमो नमः ॥ ४० ॥ अष्टमी मम मूर्तिर्या स्थितिसंहारकारिणी । सा त्वमेव न मे नाहं मातः सत्यं नमो नमः ॥ ४१ ॥ नचैवाहं न मे किंचिद्यदिह जगतीतले । त्वयैवेदं जगद्व्याप्तं जगत् सर्वं त्वमेव हि ॥ ४२ ॥ देव्युवाच मया सर्वं जगद्व्याप्तं वत्स सत्यं प्रभाषसे । ममैवैतेऽवताराश्च मत्स्यकूर्मादयोऽपरे ॥ ४३ ॥ त्वमेवाहं नचान्योऽसि ब्रह्माहं विष्णुरप्यहम् । अहमेव जगत् सर्वं नास्ति किंचित् मया विना ॥ ४४ ॥ यत्तु पश्यसि हे वत्स यत् किंचिज्जगतीतले । ब्रह्मादिस्तम्बपर्यन्तमहमेव न संशयः ॥ ४५ ॥ इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् । इत्युक्त्वा दर्शयामास शंभवे जगदीश्वरी ॥ ४६ ॥ स्वशरीरे जगत्कृत्स्नं संप्रविष्टमनेकधा । दृष्ट्वा १जगन्मयीं प्राह शंभुर्मायाविमोहितः । मामुद्धर जगन्मातर्मोहसागरमध्यतः ॥ ४७ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे शिवस्य शक्तिप्राप्तिनिरूपणं नाम अष्टात्रिंशः पटलः ॥ ३८ ॥ १ 'जगन्मयीं ततो दृष्ट्वा' क पाठ ।